नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 150, कुल 309 में से
संदर्भ में पढ़ें( ११८ ) चेटः- जं भट्टके आणवेदि । यद्भर्त्ताज्ञापयति । विटः -(विदूषकं विमुच्य चेट्याः पादयोः पतति) पसीद णोमालिए ! पसीद । प्रसीद नवमालिके ! प्रसीद । विदूषकः- (आत्मगतम् ) एसो मे अवकमिदुं अवसरो । एष मेऽपक्रमितुमवसरः । [पलायितुमीहते] चेटः- (विदूषकं यज्ञोपवीते गृह्णाति । यज्ञोपवीतं त्रुट्यति) कहिं कहिं कविलमंकडा पलाअसि ? क्व क्व कपिलमर्कट ! पलायसे ? [तदुत्तरीयेणैव गले बद्ध्वाकर्षति] विदूषकः -भोदि णोमालिए ! पसीद । मोचेहि मं । भवति नवमालिके प्रसीद । मोचय माम् । चेटी-(विहस्य) जइ भूमीए सीसं णिवेसित्र पादेसु मे पडसि । यदि भूमौ शीर्षं निवेश्य पादयोर्मे पतसि । विदूषकः-(सरोषं सकम्पञ्च) भो ! कहं राजमित्तो बह्मणो भो ! कथं राजमित्रं ब्राह्मणो भविअ दासीए धीआए पादेसु पडइस्सं ? भूत्वा दास्यापुत्र्याः पादयोः पतिष्यामि ? चेटी- (अङ्गुल्या तर्जयन्ती¹ सस्मितम् ) दाणिं पाडइस्सं । इदानीं पातयिष्यामि ।