नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 152, कुल 309 में से
संदर्भ में पढ़ें( १२० )
... ! उट्ठेहि पसण्णा दे अहं । (कण्ठे गृह्णाति) एसो ...खरक ! उत्तिष्ठ । प्रसन्ना तेऽहम् । एष उण जामाउअस्स पिअवअस्सो तुए खलीकीदो। एव्वञ्च पुनर्जामातुः प्रियवयस्यस्त्वया खलीकृतः १ । एवञ्च सुणिअ कदावि भट्टा मित्तावसू तव कुप्पइ । ता आदरेण श्रुत्वा कदापि भर्ता मित्रावसुस्तुभ्यं कुप्यति । तदादरेण सम्माणेहि एणं । सम्मानयैनम् । विटः-जं णोमालिआ आणवेदि । (विदूषकं कण्ठे गृहीत्वा) यन्नवमालिकाज्ञापयति । अज्ज ! तुमं मए सम्बन्धिओ त्ति करिअ परिहसिदो । आर्य ! त्वं मया सम्बन्धीति कृत्वा परिहसितः । (घूर्णन्) किं सच्चं ज्जेव्व सेहरओ मत्तो किदो परिहासो । किं सत्यमेव शेखरको मत्तः ? कृतः २ परिहासः । (उत्तरीयं वर्तुलीकृत्य आसनं ददाति) इध उबविसदु सम्बन्धिओ । इहोपविशतु सम्बन्धी । विदूषकः- (स्वगतम्) दिट्ठिआ अवगदो विअ से मदावेगो । दिष्ट्याऽपगत इवास्य मदावेगः । [उपविशति] विटः- णोमालिए ! उबविस तुमं पि एदस्स पासे, जेण दुवेवि नवमालिके ! उपविश त्वमप्येतस्य पार्श्वे, येन द्वावपि तुम्हे समं ज्जेव्व सम्मणाइस्सं । युवां सममेव सम्मानयिष्यामि ।