नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 174, कुल 309 में से
संदर्भ में पढ़ें( १४४ )
नायकः – (नायिकाया मुखं पश्यन् )– दिनकरकरामृष्टं विभ्रद् द्युतिं परिपाटलां, दशनकिरणैरुपसर्पद्भिः स्फुटीकृतकेसरम्। अयि मुखमिदं मुग्धे¹ ! सत्यं समं कमलेन ते, मधु मधुकरः किन्त्वेतस्मिन् पिबन्न² विभाव्यते ॥१३॥ नायिका-(विहस्य मुखमन्यतो नयति) [नायकः तदेव पठति] चेटी-(पटाक्षेपेण प्रविश्य, उपसृत्य) एसो क्खु अज्ज मित्तावसु एष खल्वार्यमित्रावसुः कज्जेण केण वि कुमारं पेक्खिदुं आअदो। कार्येण केनापि कुमारं प्रेक्षितुमागतः । नायकः-प्रिये ! गच्छ त्वमात्मनो गृहम् । अहमपि मित्रावसुं दृष्ट्वा त्वरितमागत एव । नायिका – (चेट्या सह निष्क्रान्ता) [ततः प्रविशति मित्रावसुः]
श्लोक नंः १३, अन्वयः— अयि मुग्धे ! दिनकरकरामृष्टं परिपाटलां द्युतिं विभ्रत् उपसर्पद्भि दशनकिरणैः स्फुटीकृतकेसरम् इदं ते मुखं सत्यं कमलेन समम् ; किन्तु एतस्मिन् (मुखकमले) मधु पिबन् (कोऽपि) मधुकरः न विभाव्यते ॥