भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 176, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 176

(१४६) मित्रावसुः-अनिहत्य तं सपत्नं कथमिव जीमूतवाहनस्याहम् । कथयिष्यामि हतं तव राज्यं रिपुणेति निर्लज्जः ? ॥१४॥ अनिवेद्य च न युक्तं गन्तुमिति निवेद्य गच्छामि । (इत्युपसर्पति) नायकः-(मित्रवसुं दृष्ट्वा) - मित्रावसो ! इत आस्यताम् । मित्रावसुः— (उपविशति ) नायकः — (निरूप्य)— मित्रावसो ! संरब्ध ¹ इव लक्ष्यसे मित्रावसुः — कः खलु मतङ्गेहतके ² संरम्भः ? नायक — किं कृतं मतङ्गेन ? मित्रावसुः- स्वनाशाय किल युष्मदीयं राज्यमाक्रान्तम् । नायकः— (सहर्षमात्मगतम् ) अपि नाम सत्यमेतत्स्यात् ! मित्रावसुः — अतस्तदुच्छित्तये आज्ञां दातुमर्हति कुमारः । किं बहुना ?–

श्लोक नं० : १४, अन्वयः— जीमूतवाहनस्य तं सपत्नम् अनिहत्य अहं निर्लज्जः कथं कथयिष्यामि (यत् ) तव राज्यं रिपुणा हतम् इति ।