भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 200, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 200

( १०४ )

यैरत्यन्तदयापरैर्न विहिता वन्ध्यार्थिनां प्रार्थना, यैः कारुण्यपरिग्रहान्न गणितः स्वार्थः परार्थं प्रति । ये नित्यं परदुःखदुःखितधियस्ते साधवोऽस्तं गता, मातः ! संहर बाष्पवेगमधुनो कस्याग्रतो रुद्यते ॥१०॥ ननु समाश्वसिहि समाश्वसिहि । वृद्धा—(सास्रम्) कहं समस्ससिस्सं ? किं एकपुत्तओ त्ति कथं समाश्वसिष्यामि ? किमेकपुत्रक - इति कदुअ साणुकंपेण णाअराएण पेसिदोसि ? हा कहं कृत्वा सानुकम्पेन नागराजेन प्रेषितोऽसि ? हा ! कथम् अविच्छिण्णे जीअलोए मम पुत्तओ सुमरिदो ? विच्छिन्ने¹ जीवलोके मम पुत्रकः स्मृतः ? सव्वधा अहं म्हि मंदभाग्गा । सर्वथाहमस्मि मन्दभाग्या । [मूर्च्छति] नायकः-(सकरुणम्) आर्त्तं कण्ठगतप्राणं,² परित्यक्तं बन्धुभिः। त्राये³ नैनं यदि ततः कः शरीरेण मे गुणः ? ॥ ११ ॥


श्लोक नं०: १०, अन्वयः— यैः अत्यन्तदयापरैः अर्थिनां प्रार्थना वन्ध्या न विहिता, यैः कारुण्य- परिग्रहात् परार्थं प्रति स्वार्थः न गणितः, ये नित्यं परदुःख- दुःखितधियः, ते साधवः अस्तं गताः। मातः ! अधुना बाष्पवेगं संहर। कस्य अग्रतो रुद्यते ? श्लोक नं०: ११, अन्वयः — यदि (अहं) बन्धुभिः परित्यक्तं कण्ठगतप्राणम् एनम् आर्त्तं न त्राये, ततः मे शरीरेण कः गुणः ?