नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 202, कुल 309 में से
संदर्भ में पढ़ेंशङ्खचूड़ः—अम्ब ! ¹अलं त्रासेन । न खल्वयं नागशत्रुः । पश्य- ² महाहिमस्तिष्कविभेदमुक्तरक्तच्छटाचर्चितचण्डचञ्चुः । क्वासौ गरुत्मान् ? क्व च नाम सौम्यस्वभावरूपाकृतिरेष साधुः ॥१३॥ वृद्धा - अह क्खु तुज्झ मरणभीआ सव्वं जेव्व लोअं गलुडमयं अहं खलु तव मरणभीता सर्वमेव लोकं गरुड़मयं³ पेक्खामि । प्रेक्षे । नायकः—अम्ब ! मा भैषीः । नन्वयमहं विद्याधरस्त्वत्सुत- संरक्षणार्थमेवायातः । वृद्धा—(सहर्षम्) पुत्तअ ! पुणो पुणो एव्वं भण । पुत्रक ! पुनः पुनरेवं भण । 4 नायकः—अम्ब ! किं पुनःपुनरभिहितेन ? ननु कर्मणैव सम्पादयामि वृद्धा—(शिरस्यञ्जलिं बद्ध्वा) पुत्तअ ! चिरं जीव । पुत्रक ! चिरं जीव । नायकः—ममैतदर्पय वध्यचिह्नं प्रावृत्य यावद्विनतात्मजाय । पुत्रस्य ते जीवितरक्षणाय स्वदेहमाहारयितुं ददामि ॥१४॥ श्लोक नं०: १३, अन्वयः— क्व महाहिमस्तिष्कविभेदमुक्तरक्तच्छटाचर्चितचण्डचञ्चुः असौ गरुत्मान् ? क्व च नाम सौम्यस्वभावरूपाकृतिः एष साधुः ? श्लोक नं०: १४, अन्वयः— अम्ब ! एतद् वध्यचिह्नं मम अर्पय; यावद् (अनेन) प्रावृत्य, ते पुत्रस्य जीवितरक्षणाय, विनतात्मजाय आहारयितुं स्वदेहं ददामिः