नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
DevanagariHindipublished309 पृष्ठ
पृष्ठ 212, कुल 309 में से
संदर्भ में पढ़ेंपृष्ठ 212
( १८८ ) कञ्चुकी—इदं वासोयुगं देव्या मित्रवसुजनन्या कुमाराय प्रेषितम् । तदेतत् परिधत्तां कुमारः । नायकः-(सादरम् ) उपनय । कञ्चुकी—(उपनयति) नायकः-(गृहीत्वात्मगतम्) सफलीभूतो मे मलयवत्याः पाणिग्रहः । (प्रकाशम्) कञ्चुकिन् ! गम्यतां, मद्वचनादभिवादनीया देवी । कञ्चुकी—यदाज्ञापयति कुमारः । [इति निष्क्रान्तः] नायकः-वासोयुगमिदं रक्तं प्राप्ते काले समागतम् । महतीं प्रीतिमाधत्ते परार्थे देहमुज्झतः ॥२१॥ (दिशोऽवलोक्य) यथायं चलितमलयाचलशिखरशिला- सञ्चयः प्रचण्डो ¹ नभस्वाँस्तथो तर्कयाम्यासन्नीभूतः खलु पत्तिगज इति । तथा हि— श्लोक नं० : २१, अन्वयः— प्राप्ते काले समागतम् इदं रक्तम् वासोयुगं परार्थे देहमुज्झतः (मम) महतीं प्रीतिम् आधत्ते ।