भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 234, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 234

( २१० ) तन्नाहमेवंविधः क्षणमपि जीवन्नुपहास्यमात्मानं करोमि । यावदेतदनुगमनं प्रति यतिष्ये । [परिक्रामन्, भूमौ दत्तदृष्टिः]- आदावुत्पीडपृथ्वीं प्रविरलपतितां स्थूलबिन्दुं ततोऽग्रे, ग्रावस्वापातशीर्णप्रसृततनुकणां कीटकीर्णां स्थलीषु । दुर्लक्ष्यां धातुभित्तौ घनतरुशिखरे स्त्याननीलस्वरूपा- मेनां तार्क्ष्यं दिदृक्षुर्निपुणमनुसरन् रक्तधारां व्रजामि ॥६॥ वृद्धा-(ससाध्वसम् ) - महाराअ ! एसो ससोओ विअ रुदि- महाराज ! एष सशोक इव रुदि- दवअणो इदो जेव्व तुरिदं आअच्छंतो हिअअं मे आ- तवदन इत इव त्वरितमागच्छन् हृदयं मे आ- कुलीकरेदि । ता जाणीअदु दाव को एसो त्ति । कुलीकरोति । तज्ज्ञायतां तावत्क एष इति । जीमूतकेतुः — यथाह देवी । शङ्खचूडः-(साक्रन्दम्)-हा त्रिभुवनैकचूडामणे ! क्व मया द्रष्टव्योऽसि । मुषितोऽस्मि भो मुषितोऽस्मि । श्लोक नं०: ६, अन्वयः- (या) आदौ उत्पीडपृथ्वीं, ततोऽग्रे प्रविरलपतितां स्थूलबिन्दुं, ग्रावस्वापातशीर्णप्रसृततनुकणां, स्थलीषु कीटकीर्णां, धातुभित्तौ दुर्लक्ष्यां, घनतरुशिखरे स्त्याननीलस्वरूपां एनां रक्तधारां निपुणम् अनुसरन् (अहं) तार्क्ष्यं दिदृक्षुः व्रजामि ।