भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 266, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 266

( २४२ )! मेदोऽस्थिमांसमज्जाऽसृक् सङ्घातेऽस्मिंस्त्वचावृते । शरीरे खलु का शोभा सदा बीभत्सदर्शने ? ॥२४॥ गरुडः— भो महात्मन् ! नरकानलज्वालावलीढमिवात्मानं मन्यमानो दुःखं तिष्ठामि । तदुपदिश्यतां, येन मुच्येऽहमस्मादेनसः³ नायकः— अनुजानातु मां तातः, यावदस्य पापस्य प्रतिपत्तमुपदिशामि । जीमूतकेतुः— वत्स ! एवं क्रियताम् । नायकः— वैनतेय ! श्रूयताम् । गरुडः- (जानुभ्यां स्थित्वा कृताञ्जलिः) आज्ञापयतु भगवान् , नायकः—नित्यं प्राणाभिघातात् प्रतिविरम कुरु प्राक्कृते चानुतापं। यत्नात् पुण्यप्रवाहं समुपचिनु दिशन् सर्वसत्त्वेष्वभीतिम् । मग्नं येनात्र नैनः फलति परिमित प्राणिहिंसात्तमेतद् दुग्धापारावारेलवणपलमिव क्षिप्तमन्तर्ह्रदस्य ॥२५। श्लोक न०: २४, अन्वयः — मेदोऽस्थिमांसमज्जाऽसृक्सङ्घाते त्वचावृते सदा बीभत्सदर्शने अस्मिन् शरीरेः खलु का शोभा ? श्लोक न०: २५, अन्वयः- नित्यं प्राणाभिघातात् प्रतिविरम, प्राक्कृते चानुतापं कुरु । सर्वसत्त्वेष्वभीतिं दिशन् यत्नात् पुण्यप्रवाहं समुपचिनु येन दुग्धापारावारेः ह्रदस्यान्तः क्षिप्तं लवणपलमिव परिमितप्राणिहिंसात्तमेतद् एनः अत्र मग्नं न फलति ।