नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 276, कुल 309 में से
संदर्भ में पढ़ें( २५२ ) शङ्खचूडः— हा कुमार ! क्वेमं प्राणेभ्योऽपि वल्लभं जनं ^1 परित्यज्य गम्यते ? तदवश्यमन्वेति त्वां शङ्खचूडः । गरुडः— (सोद्वेगम् ) कष्टम् ! ^2 उपरतोऽयं महात्मा । तत् किमिदानीं करोमि ? वृद्धा — (सास्रमूर्ध्वमवलोक्य) भगवंतो लोअपाला ! कहं पि भगवन्तो लोकपालाः ! कथमप्य- अमिदेण सिंचिअ पुत्तअं मे जीवावेहि । मृतेन सिक्त्वा पुत्रकं मे जीवयत । गरुडः— (सहर्षमात्मगतम्) अये ! अमृतसङ्कीर्त्तनात् साधु स्मृतम् । मन्ये प्रमृष्टमयशः । तद्यावत् त्रिदशपतिम- भ्यर्थ्य तद्विसृष्टेनामृतवर्षेण न केवलं जीमूतवाहनम् , एतानपि पूर्वभक्षितानस्थिशेषानाशीविषान् प्रत्युज्जीवयामि । यदि न ददात्यसौ, तदाहम्— पक्षोत्क्षिप्ताम्बुनाथः, पटुजवपवनप्रेर्यमाणे समीरे— नेत्राचिः ^3 प्लोषमूर्च्छाविधुरविनिपतत्सानलद्वादशार्कः । ^4 चञ्च्वा सञ्चूर्ण्य शक्राशनिधनदगदाप्रेतलोकेशदण्डा नन्तः संमग्नपक्षः क्षणममृतमयीं वृष्टिमभ्युत्सृजामि ॥३२॥ श्लोक नं०: ३२, अन्वयः— पक्षोत्क्षिप्ताम्बुनाथः, पटुजवपवनप्रेर्यमाणे समीरे, नेत्राचिंप्लोष- मूर्च्छाविधुरविनिपतन्त्सानलद्वादशार्कः, शक्राशनिधनदगदाप्रेतलोके- शदण्डान् चञ्च्वा सञ्चूर्ण्य अन्तः क्षणं संमग्नपक्षः अमृतमयीं वृष्टिमभ्युत्सृजामि ।