नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 278, कुल 309 में से
संदर्भ में पढ़ें( २४४ ) ॰तदयं गतोऽस्मि । [इति साटोपं परिक्रम्य निष्क्रान्तः] जीमूतकेतुः-वत्स शङ्खचूड ! किमद्यापि स्थीयते¹ ? समाहृत्य² दारूणि पुत्रस्य मे विरचय चितां येन वयमप्यनेन सहैव गच्छामः । वृद्धा—पुत्त संखचूडः ! लहु सजेहि । दुक्खं अम्हेहि विणा पुत्र शङ्खचूड ! लघु सञ्जय । दुःखमस्माभिर्विना³ भादुओ दे चिट्ठदि । भ्राता ते तिष्ठति । शङ्खचूडः- (सास्रम् ) यदाज्ञापयन्ति गुरवः । नन्वग्रग एवाहं युष्माकम् [उत्थाय चितारचनां कृत्वा] तात ! अम्ब ! सज्जीकृतेयं चिता । जीमूतवाहनः-कष्टं भोः कष्टं ! उष्णीषः स्फुट एष मूर्धनि विभात्यूर्णेयमन्तर्भ्रुवो- श्चक्षुस्तामरसानुकारि, हरिणा वक्षःस्थलं स्पर्धते ।⁴ चक्राङ्कौ चरणौ, तथापि हि कथं हा वत्स ! मद्दुष्कृतै- स्त्वं विद्याधरचक्रवर्तिपदवीमप्राप्य विश्राम्यसि ॥३३॥ श्लोक नं०: ३३, अन्वयः- (तव) मूर्धनि एष उष्णीषः स्फुटः विभाति, भ्रुवोः अन्तः इयम् ऊर्णा; चक्षुः तामरसानुकारि; वक्षःस्थलं हरिणा स्पर्धते; चरणौ चक्राङ्कौ; तथापि हि हा वत्स ! कथं मद्दुष्कृतैः त्वं विद्याधर चक्रवर्तिपदवीमप्राप्य विश्राम्यसि ?