भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 54, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 54

( २० ) विदूषकः— (विलोक्य) भो वयस्स ! पेक्ख पेक्ख । एदं खु भो वयस्य ! प्रेक्षस्व प्रेक्षस्व ! एतत् खलु सविसेस घण सिणिद्ध पावव विसोहिअं सुरहिहविगन्ध- सविशेष¹घनस्निग्ध²पादपविशोभितं सुरभिहविर्गन्ध- गब्भिदुद्दामधूमणिग्गमं अणुव्विग्गसुहणिसण्णसावअगणं ³गर्भितोद्दामधूमनिर्गममनुद्वि⁴ग्न सुखनिषण्णशावकगणं तवोवणं विअ लक्खीअदि । तपोवनमिव लक्ष्यते । नायकः— सम्यगुपलक्षितम् । तपोवनमेवैतत् । कुतः— वासोऽर्थं दययेव नातिपृथवः कृत्तास्तरूणां त्वचो, भग्नानेकजर⁵त्कमण्डलु नभःस्वच्छं पयो नैर्झरम्⁶ । दृश्यन्ते त्रुटितोज्झिताश्च ⁷वटुभिर्मौञ्ज्याः ⁸क्वचिन्मेखल नित्याकर्णनया शुकेन च पदं¹⁰ साम्नामिदं पठ्यते ॥११॥ तदेहि प्रविश्य विलोकयावः । [प्रवेशं नाटयतः] श्लोक नं० ११, अन्वयः — वासोऽर्थं तरूणां त्वचः दयया इव अतिपृथवः न कृत्ताः ; नभःस्वच्छं नैर्झरं पयः भग्नानेकजरत्कमण्डलु ; क्वचित् च मौञ्ज्यः मेखलाः वटुभिः त्रुटितोज्झिताः दृश्यन्ते ; नित्याकर्णनया च शुकेन इदं साम्नां पदं पठ्यते ॥