भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 58, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 58

( २४ ) दिएणैककरणा सुहणिमीलिदलोअणा आअण्णंता विअ दत्तैककर्णाः सुखनिमीलितलोचना आकर्णयन्त इव हरिणा लक्खीअन्ति । हरिणाः लक्ष्यन्ते । नायकः — (कर्णं दत्त्वा) सखे ! सम्यगुपलक्षितम् । तथाहि- स्थानप्राप्त्या दधानं प्रकटितगमकां¹ मन्दतार व्यवस्थां निर्हादिन्या² विपञ्च्या³ मिलितमलिरुतेनेव तन्त्रीस्वनेन । एते दन्तान्तरालस्थिततृणकवलच्छेदशब्दं नियम्य ⁴व्याजिह्वाङ्गाःकुरङ्गाः स्फुटललितपदं गीतमाकर्णयन्ति ॥ १३ ॥ विदूषकः — भो वअस्स ! को उण एसो तवोवणे गाअदि ? भो वयस्य ! कः पुनरेष तपोवने गायति ? नायकः — यथैताः कोमलाङ्गुलितलाभिहन्यमाना⁵ नाति- स्फुटं क्वणन्ति तन्त्र्यः, काकलीप्रधानं च गीयते, तथा तर्कयामि (अङ्गुल्यग्रेणाग्रतो निर्दिशन्) अस्मिन्ना- यतने देवतामाराधयन्ती काचिद्दिव्या योषित्पुपवीण- यतीति । श्लोक नं १३, अन्वयः— एते कुरंगाः , दन्तान्तरालस्थिततृणकवलच्छेदशब्दं नियम्य व्याजिह्वांगाः , स्थान प्राप्त्या प्रकटितगमकां मन्दतारव्यवस्थां दधानं, निर्हादिन्याः विपञ्च्याः तन्त्रीस्वनेन अलिरुतेन इव मिलितम् , स्फुटललितपदं गीतमाकर्णयन्ति ।