भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 62, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 62

२८ ) व्यक्तिर्व्यञ्जनधातुना दशविधेनाप्यत्र लब्धामुना विस्पष्टो ¹द्रुतमध्यलम्बितपरिच्छिन्नस्त्रिधायं लयः । गोपुच्छाप्रमुखाःक्रमेण ²यतयस्तिस्रोऽपि सम्पादिता- स्तत्वौघानुगताश्च वाद्यविधयः³ सम्यक्त्रयो दर्शिताः ॥ १५ ॥ चेटी—(सप्रणयम्) भट्टिदारिए ! चिरं क्खु तुए वादिदं । ण क्खु भर्तृदारिके ! चिरं खलु त्वया वादितम् । न खलु दे परिस्समो अग्गहत्थाणं? ते परिश्रमोऽग्रह⁴स्तयोः ? नायिका—(साधिक्षेपम् ) हञ्जे चउरिए ! कुदो मे देवीए पुरदो वीणं हञ्जे चतुरिके ! कुतो मे देव्याः पुरतो वीणां वादयन्तीए अग्गहत्थाणं परिस्समो ! वादयन्त्या अग्रहस्तयोः परिश्रमः ! चेटी—भट्टिदारिए ! भर्तृदारिके ! णं भणामि किं एदाए णिक्करुणाए पुरदो वाइदेण ननु भणामि किमेतस्या निष्करुणायाः पुरतो वादितेन श्लोक नं० १५, अन्वयः— अत्र अमुना दशविधेनापि व्यञ्जनधातुना व्यक्तिः लब्धा ; द्रुतमध्यलम्बितपरिच्छिन्नः त्रिधा अयं लयः विस्पष्टः ; क्रमेण गोपुच्छाप्रमुखाः तिस्रः यतयः अपि सम्पादिताः ; तत्त्वौघानुगताश्च त्रयो वाद्यविधयः सम्यक् दर्शिताः ।