भारतकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 66, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 66

( ३२ ) नायकः—(सस्पृहमवलोकयन् )— वयस्य, केयमिति नावगच्छामि । एतत्पुनरहं जानामि— स्वर्गस्त्री यदि तत्कृतार्थमभवच्चक्षुः सहस्रं^१ हरे- र्नागी चेन्न रसातलं शशभृता^२ शून्यं मुखेऽस्याः स्थिते । जातिर्नः सकलान्यजातिजयिनी विद्याधरी चेदियं स्यात् सिद्धान्वयजा^३ यदि त्रिभुवने सिद्धाः प्रसिद्धास्ततः॥१६॥ विदूषकः — (नायकमवलोक्य सहर्षमात्मगतम्) दिट्ठिआ चिरस्स दाव कालस्स पडिदो दिष्ट्या चिरस्य तावत्कालस्य पतितः क्खु एसो गोअरे मम्महस्स । खल्वेष गोचरे मन्मथस्य । [आत्मानं निर्दिश्य भोजनमभिनीय] अहवा, णहि णहि मम एव्व एक्कस्स बह्मणस्स । अथवा, नहि नहि ममैवैकस्य ब्राह्मणस्य । चेटी— (सप्रणयं) भट्टिदारिए ! णं भणामि—किं एदाए भर्तृदारिके ! ननु भणामि-किमेतस्या णिक्करुणाए पुरदो वाइदेण ? निष्करुणायाः पुरतो वादितेन ? [इति वीणामाक्षिपति] श्लोक नं० १६, अन्वय :— यदि (एषा) स्वर्गस्त्री (अस्ति) तत् हरेः सहस्रं चक्षुः कृतार्थमभवत् । नागी चेत्, अस्याः मुखे स्थिते रसातलं शशभृता शून्यं न (अस्ति) । विद्याधरी चेत् , जातिर्नः सकलान्यजातिजयिनी । यदि सिद्धान्वयजा स्यात्, ततः सिद्धाः त्रिभुवने प्रसिद्धाः ॥

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या) · पृष्ठ 66, कुल 309 में से · BharatKosha