नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 70, कुल 309 में से
संदर्भ में पढ़ें( ३६ ) णं हिअअत्थिदो वरो देईए दिण्णो ननु हृदयस्थितो वरो^१ देव्या दत्तः । विदूषकः—(श्रुत्वा) भो वअस्स ! अवसरो क्खु एसो अम्हाणं भो वयस्य ! अवसरः खल्वेषोऽस्माकं देवीदंसणस्स । ताएहि उपसप्पह्म । देवीदर्शनस्य । तदेह्युपसर्पावः । नायकः — न तावत्प्रविशामि । विदूषकः — (अनिच्छन्तमपि नायकं बलादाकृष्य, उपसृत्य) सोत्थि भोदिए । भोदि, सच्चं एव्व चदुरिआ भणादि स्वस्ति^२ भवत्यै । भवति ! सत्यमेव चतुरिका भणति, वरो एव्व एसो देईए दिण्णो । वर एवैष देव्या दत्तः । नायिका—(^३ससाध्वसमुत्तिष्ठन्ती नायकमुदिश्यापवार्य) हज्जे ! को णु क्खु एसो ? हञ्जे ! को नु खल्वेषः ? चेटी —(नायकं निरूप्यापवार्य) इमाए अण्णण्णसरिसीए आकिदीए एसो सो भगवदीए अनयाऽनन्यसदृश्या^४ऽऽकृत्या 'एष स भगवत्या गोरीए पसादो त्ति तक्केमि । गौर्याः प्रसाद इति तर्कयामि । [नायिका सस्पृहं सलज्जञ्च नायकमवलोकयति]