नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 101, कुल 226 में से
संदर्भ में पढ़ेंसर्गः २ ] जीवातु-मदयन्तिकासहितम् ८५ उसका वास्तविक अर्थ यही निकलता है कि बिम्ब (पके हुए कुन्दरू) केवल आकार में, वर्ण में और स्वाद में ) दमयन्ती के होठ से वस्तुतः अधर (हीन) हैं ॥२४॥ हृतसारमिवेन्दुमण्डल दमयन्तीवदनाय वेधसा । कृतमध्यबिलं विलोक्यते धृतगम्भीरखनीखनीलिम ॥२५॥ हृतसारमिति । इन्दुमण्डल दमयन्तीवदनाय = तन्निर्माणायेत्यर्थः । 'क्रियार्थोपपदस्य'इति चतुर्थी । वेधसा हृतसारम्=उद्धृतमध्यांशम् इव । कुतः ? कृतमध्यबिल = विहितमध्यरन्ध्रम् अत एव [ धृतगम्भीरखनीख-नीलिम ] धृतो गम्भीरखनीखस्य निम्नमध्यरन्ध्राकाशस्य, नीलिमा नैल्यं तथा विलोक्यते । 'खनिः स्त्रियामाकरः स्यात्'इत्यमरः । 'कृदिकारादक्तिनः' इति ङीप् । अत्र कलङ्का- पह्नवेन खनीलिमारोपादपह्नवभेदः । स च कृतमध्यबिलमित्येतत्पदार्थहेतुककाव्य- लिङ्गाद्यनुप्राणितः । तदपेक्षा चेयं हृतसारमित्युत्प्रेक्षेति सङ्करः । तया चोपमा व्यज्यत इति पूर्ववत् ध्वनिः ॥ २५ ॥ ब्रह्मा ने दमयन्ती का मुख बनाने के लिए, चन्द्र-बिम्ब का मानो सार-भार निकाल लिया है, इसी कारण उसके बीच में बिल (सूराख) हो गया है । चन्द्रमा के उस गम्भीर खात ( गहरे छेद ) से वास्तव में आकाश की नीलिमा दिखलायी पड़ती है ॥ २५ ॥ धृतलाञ्छनगोमयाञ्छनं विधुमालेपनपाण्डरं विधिः । भ्रमयत्युचितं विदर्भजानननीराजनवर्द्धमानकम् ॥२६॥ धृतेति । विधिः = ब्रह्मा [ धृत-लाञ्छन-गोमयाञ्छनं ] धृतं लाञ्छन- मङ्क एव गोमयाञ्छनं मध्यस्थितगोमयसंश्लेषणम् येन तम् । आलेपनपाण्डरं = निजकान्तिसुधाधवलितमित्यर्थः । विधुं = चन्द्रमेव [ विदर्भजानन-नीराजन- वर्द्धमानकं ] विदर्भजाननस्य वैदर्भीमुखस्य, नीराजनवर्द्धमानकं नीराजनशरावम्। 'शरावो वर्द्धमानके' इत्यमरः । किरणदीपकलिकायुक्तमिति भावः । भ्रमयति, उचित । लोकोत्तरत्वात् इति भावः । एवं नीराजयन्तीति देशाचारः । अत्र विधु- तलाञ्छनादेर्नीराजनशरावगोमयादित्वेन रूपणात् सावयवरूपकम् ॥ २६ ॥ ( जिस प्रकार नज़र लगने पर ऐपन और गोबर एक में मिला, परई में रखकर, उस व्यक्ति के शिर पर घुमाया जाता है, उसी प्रकार ) कलङ्क रूप गोबर के लेप वाले, ऐपन के समान सफेद लगने वाले चन्द्रमा को, विदर्भराजकुमारी