नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 112, कुल 226 में से
संदर्भ में पढ़ें९६ नैषधचरितम् । [ द्वितीयः ( सम्बन्ध ) उसी प्रकार दुर्लभ है—जिस प्रकार वर्षाकाल में, मेघ से ढँके हुए चन्द्रमा की चाँदनी के साथ, कुमुद का संयोग सुलभ नहीं होता ॥ ४६ ॥ तदहं विदधे तथा तथा दमयन्त्याः सविधे तव स्तवम् । हृदये निहितस्तया भवानपि नेन्द्रेण यथापनीयते ॥ ४७ ॥ अत्र का गतिरिति आह—तदिति । तत् = तस्मात्, कार्यस्य सप्रतिबन्धत्वाद् अहं दमयन्त्याः सविधे=समीपे तथा तथा तव स्तवं = स्तोत्रं विदधे=विधास्ये इत्यर्थः । सामीप्ये वर्त्तमाने प्रत्ययः । यथा तया हृदये निहितो भवानिन्द्रेणापि नापनीयते; नेतुमशक्य इत्यर्थः । यथेन्द्रादिप्रलोभितापि त्वय्येव गाढानुरागा स्यात्तथा करिष्यामीत्यर्थः ॥ ४७ ॥ इस लिए मैं दमयन्ती के सन्निकट आपकी प्रशंसा उस उस प्रकार से करूंगा— जिससे ( पति रूप से ) धारण किये गये उसके चित्त में निवास करनेवाले, आपको इन्द्र भी न हटा सके ॥ ४७ ॥ तव सम्मतिमत्र केवलमधिगन्तुं धिगिदं निवेदितम् । ब्रुवते हि फलेन साधवो न तु कण्ठेन निजोपयोगिताम् ॥ ४८ ॥ तर्हि तथैव क्रियतां, किं निवेदनेनेत्यत आह—तवेति । अत्र = अस्मिन् कार्ये केवलम् = एकां तव सम्मतिम्=अङ्गीकारम्, अधिगन्तुमिदं निवेदितं= निवेदनं धिक् । तथा हि-साधवो निजोपयोगितां = स्वोपकारित्वं फलेन = कार्येण ब्रुवते = बोधयन्ति किंतु कण्ठेन = वाग्वृत्त्या 'निजोपयोगितां' न ब्रुवते । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ४८ ॥ इस (तरुणी दमयन्ती) के बारे में केवल आप (तरुण) की सम्मति जानने के उद्देश्य से ही मैने यह (४७श्लोकोक्त) बात कही है अन्यथा यह (निवेदन) भी निन्दा के योग्य है। क्योंकि सहृदय व्यक्ति कण्ठ-स्वर (मौखिक- रूप) से नहीं (कहते), बल्कि फल के परिणाम से ही अपनी उपयोगिता स्पष्ट सूचित कर देते हैं ॥४८॥ तदिदं विशदं वचोऽमृतं परिपीयाभ्युदितं द्विजाधिपात् । अतितृप्ततया विनिर्ममे स तदुद्गारमिव स्मित सितम् ॥४९॥ तदिति । स = नलो द्विजाधिपात् = हंसाच्चन्द्राच्च, अभ्युदितम्=आविर्भूतं विशदं = प्रसन्नमिशदीतं च तत् = पूर्वोक्तम् इदम्=अनुभूयमानं [ वचोऽमृतं ]