भारतकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 145, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 145

सर्गः ३ ] जीवातु-मदयन्तिकासहितम् । १२९ रम्, अद्वितीयञ्च । [निरुपाख्यस्वरूपं] नोपाख्यायत इति निरुपाख्यमवाच्यं रूपमा- कारः, स्वस्वरूपं च यस्य तं पुरोवर्तिनं हंसं तत्पदार्थभूतञ्च । यतव्रतानां = योगिनां चेतांसि ब्रह्म = परमात्मानम् इव, आपुः = अत्यादरेणाद्राक्षुरित्यर्थः ॥३॥ दमयन्ती की सखियों की आँखें—तत् तत् विषयों (चौसर का खेल, माला- गुम्फन, चन्दन का लेप, दर्शनीय पदार्थों के अवलोकन आदि) का ग्रहण करना (देखना) छोड़ कर—अवर्णनीय सौन्दर्यवाले, एकमात्र हंस की ओर, उसी प्रकार जा लगीं; जिस प्रकार योगियों के चित्त, —सांसारिक विषय-वासनाओं को छोड़- कर,—अनिर्वचनीय स्वरूप (आकृति) वाले, अद्वितीय, ब्रह्म की ओर, आकृष्ट होते हैं ॥ ३ ॥ हंसं तनौ सन्निहितं चरन्तं मुनेर्मनोवृत्तिरिव स्विकायाम् । ग्रहीतुकामाऽदरिणा शयेन यत्नादसौ निश्चलतां जगाहे ॥ ४ ॥ हंसमिति । असौ = दमयन्ती, मुनेः=योगिनो मनोवृत्तिरिव स्विकायां= स्वकीयायां । 'प्रत्ययस्थात्कात् पूर्वस्य'इतीकारः । तनौ = शरीरान्तिके, अन्यत्र तद- भ्यन्तरे, सन्निहितम् = आसन्नम् ; आविर्भूतं च; चरन्तं = सञ्चरन्तं, वर्त्तमानं च; हंसं = मरालं, परमात्मानं च । 'हंसो विहङ्गभेदे च परमात्मनि मत्सरे'इति विश्वः । अदरिणा = निर्भीकेण, शयेन = पाणिना । 'दरो स्त्रियां भये श्वभ्रे; पञ्चशाखः शयः पाणिः'इत्यमरः । अन्यत्र, आदरिणा = आदरवता, आशयेन = चित्तेन, ग्रहीतु- कामा = साक्षात् कर्तुकामा च यत्नात् निश्चलतां = निश्चलाङ्गत्वं, निश्चलचित्तत्वं च जगाहे = जगाम ॥ ४ ॥ निकट में चलते हुए हंस को, मजबूत हाथों से ग्रहण करने (पकड़ने) के लिए, दमयन्ती अपने शरीर को खूब यत्नपूर्वक निश्चल करके, उसी प्रकार खड़ी हो गयी; जैसे मुनियों की चित्तवृत्ति-सर्वत्र व्यापक, भूत-भविष्यत्-वर्त्तमानकालात्मक उस हंस (परमात्मा) के ग्रहण (परिज्ञान) के लिए—उस (ब्रह्म-साक्षात्कार) के प्रति आदरशाली आशय (अभिप्राय) से, निश्चल (स्थिर) हो जाती है ॥४॥ तामिङ्गितैरप्यनुमाय मायामयं न धैर्याद्वियदुत्पपात । तत्पाणिमात्रोपरिपात्तुकं तु मोघं वितेने प्लुतिलाघवेन ॥ ५ ॥ तामिति । अयं = हंसः, तां = पूर्वोक्तां मायां = कपटं, इङ्गितैः = चेष्टितैः, अनुमाय = निश्चित्य, अपि धैर्यात् = स्थैर्यमास्थाय । ल्यब्लोपे पञ्चमी । वियत्= ह