नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 144, कुल 226 में से
संदर्भ में पढ़ें१२८ नैषधचरितम् । [ तृतीयः तृतीयः सर्गः । आकुञ्चिताभ्यामथ पक्षतिभ्यां नभोविभागात्तरसाऽवतीर्य । निवेशदेशाततधूतपक्षः पपात भूमावुपभैमि हंसः ॥ १ ॥ आकुञ्चिताभ्यामिति । अथ = मण्डलीकरणानन्तरं, हंसः । आकुञ्चिताभ्यां = आवर्जिताभ्यां, पक्षतिभ्यां = पक्षमूलाभ्यां, नभोविभागात् = आकाशदेशात्, तरसा = वेगेनावतीर्य । [ निवेशदेशाततधूतपक्षः ] निवेशदेशे उपनिवेशस्थाने, आततौ विस्तारिता धूतौ कम्पितौ च पक्षौ येन सः, तथा सन् उपभैमि = भैम्याः समीपे । सामीप्येऽव्ययीभावः । नपुंसकं ह्रस्वत्वं च । भूमौ पपात । स्वभावोक्तिरलङ्कारः ॥१॥ ( दमयन्ती के मुख-चन्द्र के ऊपर मण्डले बनाने के ) अनन्तर हंस — अपने सिकुड़े हुए पंखों से, आकाश में से झपट कर, उतरा; और उतरने के स्थान के ऊपर ( पहले ) पंख फैलाकर, फिर उसे फड़फड़ाकर, दमयन्ती के पास जमीन पर जा गिरा ॥ १ ॥ आकस्मिकः पक्षपुटाहतायाः क्षितेस्तदा यः स्वन उच्चचार । द्रागन्यविन्यस्तदृशः स तस्याः सम्भ्रान्तमन्तःकरणञ्चकार ॥ २ ॥ आकस्मिक इति । तदा = पतनसमये, पक्षपुटाहतायाः क्षितेः = भूतलात् । अकस्माद्भवः आकस्मिकः = अदृष्टहेतुकः, निर्हेतुक इत्यर्थः । यः स्वनः = ध्वनिरुच्च- चार = उत्थितः, स = स्वनः, अन्यविन्यस्तदृशः = विषयान्तरनिविष्टदृष्टेस्तस्याः = भैम्याः, अन्तःकरणं द्राक् = झटिति, सम्भ्रान्तं = ससम्भ्रमं चकार । अकाण्डे सम्भावितशब्दश्रवणाच्चमत्कृतचित्ताभूदित्यर्थः । स्वभावोक्तिः ॥२॥ हंस के गिरते समय, उसके दोनों पंखों के अगले हिस्से से भूतल पर टकराने के कारण, अचानक जो शब्द हुआ, उस ( शब्द ) ने दमयन्ती — जिसकी दृष्टि अन्यत्र लगी हुई थी उस-के अन्तःकरण में एकवारगी हड़बड़ी पैदा कर दी ॥ २ ॥ नेत्राणि वैदर्भसुतासखीनां विमुक्त-तत्तद्विषयग्रहाणि । प्रापुस्तमेकं निरूपाख्यरूपं ब्रह्मेव चेतांसि यतव्रतानाम् ॥ ३ ॥ नेत्राणीति । [ वैदर्भ-सुता-सखीनां ] विदर्भाणां राजा वैदर्भो भीमः, तस्य सुतायाः भैम्याः, सखीनां, नेत्राणि [ विमुक्त-तत्तद्विषयग्रहाणि ] विमुक्तास्तत्तद्वि- षयग्रहाः तत्तदर्थग्रहणादिप्रवृत्तयो यैस्तानि सन्ति । एकम् = एक-