भारतकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 148, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 148

१३२ नैषधचरितम् । [ तृतीयः शकुनमेव विपक्षो न भवेदिति च गम्यते । 'शकुनं तु शुभाशंसा निमित्ते शकुनः पुमान्' इति विश्वः । अभूत तद्भावे च्विः । विध्यादिसूत्रेण प्रार्थने लिङ् । इत्याहस्म = अवोचत् । 'ब्रुवः पञ्चानाम्' इत्याहादेशः । एतेन तदीययात्रानिषे- धोक्तदोषः परिहृतो वेदितव्यः ॥६॥ 'हंस (सूर्य) के सामने तुम्हारा जाना (अशास्त्रानुमोदित होने के कारण) शुभकारी नहीं होगा'—इस प्रकार सखियों ने, शब्दश्लेष के बहाने ताना मारते हुए, जब उससे कहा तो दमयन्ती ने उत्तर दिया कि 'यह हंस (पक्षी) मेरा अशकुनि (अ-पक्षी, विपक्षी) न होगा (क्योंकि यह तो हंस नामक पक्षी है, अतः अशकुनकारक—अशुभसूचक—न होगा); प्रत्युत यह भावी प्रिय (नल) के बारे शुभ का सूचक ही होगा' ॥६॥ हंसोऽप्यसौ हंसगतेः सुदत्याः पुरः पुरश्चारु चलन् बभासे । वैलक्ष्यहेतोर्गतिमेतदीयामग्रेऽनुकृत्योपहसन्निवोच्चैः ॥१०॥ एवं दमयन्ती व्यापारमुक्त्वा सम्प्रति हंसस्य व्यापारमाह-हसोऽपीति । असौ हंसोऽपि [हंसगतेः] हंसस्य गतिरिव गतिर्यस्यास्तस्याः, सुदत्याः = शोभन- दन्तायाः भैम्याः । सुदती व्याख्याता । पुरःपुरः वीप्सायां द्विर्भावः । अग्रे = सम- न्तात्, चारु चलन् = रम्यं गच्छन् सन्, वैलक्ष्यमेव हेतुस्तस्य वैलक्ष्यहेतोः, अहो मामयमतिविडम्बयतीति तस्या अपि विस्मयजननार्थमित्यर्थः । 'विलक्षो विस्मयान्वितः' इत्यमरः । 'षष्ठी हेतुप्रयोगे' इति षष्ठी । एतदीयां गतिमनु- कृत्य = अभिनीय उच्चैरुपहसन्निव इत्युत्प्रेक्षा बभासे = बभौ । यथा लोके परि- हासकाः तच्चेष्टायनुकरणेन परान् विलक्षयन्ति तद्वदिति भावः ॥१०॥ हंस के समान चाल चलनेवाली और सुन्दर दाँतवाली दमयन्ती के आगे-आगे चलता हुआ, वह हंस ऐसा सुन्दर मालूम पड़ता था—मानों वह उसकी चाल का, उसके सामने ही अनुकरण करके, उसे लज्जित करने के अभिप्राय से, उसका खूब मजाक उड़ा रहा हो ॥१०॥ पदे पदे भाविनि भाविनीं तं यथा करप्राप्यमवैति नूनम् । तथा सखेलं चलता लतासु प्रतार्य तेनाचकृषे कृशाङ्गी ॥११॥ पदे पद इति । भावयतीति भाविनी हंसग्रहणमेव मनसा भावयन्ती कृशाङ्गी = भैमी भावनि = भविष्यत्यनन्तर इत्यर्थः । 'भविष्यति गम्यादयः' इति