नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 151, कुल 226 में से
संदर्भ में पढ़ेंगः ३ ] जीवातु-मद्यन्तिकासहितम् । १३५ अथ प्रस्तुतोपयोगितया निजान्वयं विवृणोति—सहस्रेति । [ सहस्रपत्रासन- पत्र-हंस-वंशस्य ] सहस्रपत्रासनस्य कमलासनस्य, पत्रहंसा वाहनहंसाः, तेषां वंशस्य कुलस्य, वेणोश्च, पत्राणि = वाहनानि, पर्णानि च । ‘वंशो वेणौ कुले वर्गे । 'पत्रं स्याद्वाहने पर्णे' इति च विश्वः । पत्रत्रिणः स्मः = ब्रह्मवाहनहंसवंश्याः वयमित्यर्थः । अस्मानिव पश्यन्तीति अस्मादृशाम् = अस्मद्विधानाम् । 'त्यदादिषु' इत्यादिना दृशेः क्विन् । [ चाटुरसामृतानि ] चाटुषु सुभाषितेषु, ये रसाः शृङ्गारादयः, त एव अमॄतानि । [ स्वर्लोक-लोकेतर-दुर्लभानि च ] स्वर्लोके लोका जनाः । 'लोकस्तु भुवने जने' इत्यमरः । तेभ्यः इतरैर्मनुष्यैर्दुर्लभानि लब्धुमशक्यानीत्यर्थः ॥१६॥ कमलासन (ब्रह्मा) के पत्र (वाहन) हंस के वंश (कुटुम्ब, बाँस) के पत्र (पत्ते) रूप हम पक्षी हैं (अर्थात् जिस प्रकार बाँस में पत्ते उत्पन्न होते हैं उसी प्रकार ब्रह्मा के वाहनभूत हंस के कुल में हमारी उत्पत्ति हुई है, यह हमारा वंश-परिचय है)। इसलिए मेरे जैसे (उच्च कुलोत्पन्न) पक्षियों की प्यारी और मीठी बात में जो रसामृत भरा है, वह—स्वर्गलोक में निवास करनेवाले देवताओं के अतिरिक्त—सामान्य मनुष्यों को दुर्लभ है ॥१६॥ स्वर्गापगाहेममृणालिनीनां नालामृणालाग्रभुजो भजामः । अन्नानुरूपां तानुरूपऋद्धिं कार्यं निदानाद्धि गुणानधीते ॥१७॥ अथ स्वाकारस्य कनकमयत्वे कारणमाह—स्वर्गेति । [ स्वर्गापगा-हेममृणा- लिनीनां ] स्वर्गापगा स्वर्णदी, तस्या हेममृणालिन्यः कनककमलिन्यः, तासां [ नाला-मृगालाग्र-भुजः ] या नालाः काण्डाः, यानि मृणालानि कन्दाश्च । अत्र नालामृणालशब्दस्य शब्दानुशासनं केषां शब्दानामितिवत्समासे गुणभूतेन सम्बन्धः सोढव्यः । 'नाला नालमथास्त्रियो' इत्यमरवचनान्नालेति स्त्रीलिङ्गनिर्देशः, न च तत्रापि सन्देहः । तद्व्याख्यानेषु देशान्तरकोशेषु च, स्त्रीलिङ्गपाठस्यैव दर्शनात्; तथा च दशमे सर्गे प्रयोक्ष्यते । 'मृदुत्वमप्रौढमृणालनाल्या' इति । 'नाला स्याद्विसकन्दः' इति विश्वः । तेषामग्राणि भुञ्जत इति तद्भुजः, वयमिति शेषः । अन्नानुरूपां = आहार- सदृशीं [तनु-रूप-ऋद्धिं ] तनोः शरीरस्य, रूपऋद्धिं वर्णसमृद्धिम् 'ऋत्यकः' इति प्रकृतिभावः । भजामः = प्राप्ता स्म इत्यर्थः । तथा हि-कार्यं = जन्यं द्रव्यं, निदानात् = उपादानात् । 'आख्यातोपयोगे' इत्यपादानता । गुणान् = रूपादिविशेष- गुणान्, अधीते = प्राप्नोतीत्यर्थः । प्रतिनियतोपादानजनिनस्तत्सामान्यलक्षणात्, प्रायेण