भारतकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 152, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 152

१३६ नैषधचरितम् [ तृतीयः आहारपरिणतिविशेषेण तत्संभवस्योचितत्वाद् इति भावः। सामान्येन विशेष- समर्थनरूपोऽर्थान्तरन्यासः ॥ १७ स्वर्ग की मन्दाकिनी नदी की स्वर्ण-कमलिनी के दण्ड और मृणालतन्तु के अग्रभाग को खानेवाले हम हैं। अतः खाद्य-सामग्री के अनुकूल ही हमे शरीर के सौन्दर्य की समृद्धि (पीलापन) प्राप्त हुई है; क्योंकि 'कारण' से ही 'कार्य' (रूपादि) गुणों को प्राप्त करता है ॥ १७ ॥ धातुर्नियोगादिह नैषधीयं लीलासरः सेवितुमागतेषु । हैमेषु हंसेष्वहमेक एव भ्रमामि भूलोकविलोकनोत्कः ॥ १८॥ अथात्मनः क्ष्मालोकसञ्चरणे कारणमाह-धातुरीति। धातुः = ब्रह्मणो नियो- गात् = आदेशात्, इह = भूलोके नैषधीयं = नलीयं लीलासरः सेवितुं = क्रीडा- सरसि विहर्तुमित्यर्थः । आगतेषु हैमेषु = हेमविकारेषु । विकारार्थेऽण् प्रत्ययः । 'नस्तद्धिते' इति टिलोपः । हंसेषु मध्ये अहमेक एव [ भूलोक-विलोकनोत्कः ] भूलोकविलोकने उत्कः उत्सुकः सन् । 'दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मनाः' इत्यमरः । उच्छब्दात्कन् प्रत्ययान्तो निपातः । भ्रमामि = पर्यटामि ॥ १८॥ ब्रह्मा के आदेश से, मर्त्यलोक में नल के क्रीडा-सरोवर में, विहार करने के लिए आये हुए, स्वर्णमय हंसों में से, केवल एक मैं ही, भूलोक देखने की उत्सु- कता के कारण, (अब तक) विचरण कर रहा हूँ ॥ १८ ॥ विधेः कदाचिद् भ्रमणविलासे श्रमातुरेभ्यः स्वमहत्तरेभ्यः । स्कन्धस्य विश्रान्तिमदां तदादि श्राम्यामि नाविश्रमविश्वगोऽपि ॥ १९॥ अनवरतभ्रमणेऽपि श्रमजये कारणमाह- विधेरिति । कदाचिद्विधेः = ब्रह्मणो भ्रमणविलासे = भुवनभ्रमणविनोदे श्रमातुरेभ्यः = अवसन्नेभ्यः स्वमहत्त- रेभ्यः = स्वकुलवृद्धेभ्यः स्कन्धस्य = अंसस्य । 'स्कन्धो भुजशिरांडसो स्त्री' इत्य- मरः । विश्रान्तिम् अदां = प्रादाम्, स्वयमेक एवाहमित्यर्थः । ददातेर्लुङि । 'गाति- स्था' इत्यादिना सिचो लुक् । तदादि = तत्प्रभृति [ अविश्रम-विश्वगः ] अवि- श्रमम् अनवरतं । 'नोदात्तोपदेशो' इत्यादिना श्रमेर्घञि वृद्धिप्रतिषेधः । विश्वगो विश्वं गच्छन्नपि । अन्यत्रापि दृश्यत इति गमेर्डप्रत्ययः । न श्राम्यामि = न खिद्ये । १९ । एक समय की बात है कि ब्रह्मा के भ्रमण-विलास में, थके हुए, अपने पूर्व-