भारतकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 153, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 153

: ३ ] जीवातु-मदयन्तिकासहितम् । १३७ : ओं के कन्धों को विश्राम (आराम) दिया था; तभी से अखिल विश्व की अन- : त प्रदक्षिणा करने पर भी मैं (ब्रह्मा के वरदान तथा अपने पूर्वजों के आशी- : र्वचन से ) थकता नहीं ॥१९॥ : बन्धाय दिव्ये न तिरश्चि कश्चित् पाशादिरासादितपौरुषः स्यात् । : एकं विना मादृशि तन्नरस्य स्वर्भोगभाग्यं विरलोदयस्य ॥२०॥ : अथ व्याधादिबन्धनभयमपि न मेऽस्तीत्याह--बन्धायेति । मादृशि दिव्ये : तिरश्चि विषये विरलोदयस्य = दुर्लभजन्मनो नरस्य = मर्त्यस्य, प्रायेणैवंविधो : नास्तीत्यर्थः । अन्यत्र, विरो विगतरेफः, स चासौ लोदयो लोदयवांश्च । मत्वर्थीयोऽ- : कारः । तस्य रेफस्थानाधिष्ठितलकारस्य नलस्येत्यर्थः । शब्दधर्मोऽर्थ उपचर्यते । : [स्वर्भोगभाग्यं ] भुज्यत इति भोगः सुखं, स्वर्भोगस्य स्वर्गसुखस्य भाग्यं, तत्प्राप- : कदृष्टमित्यर्थः । स्वप्राप्तेस्तत्प्रापकत्वादिति भावः । तत् एकं विना कश्चित् : पाशादिः=पाशाद्युपायः । बन्धाय=बन्धनार्थम् आसादितपौरुष =प्राप्तव्यापारो : न स्यात् । स्वर्भोगभाग्यैकसुलभा वयं, नोपायान्तरसाध्या इत्यर्थः । अस्मत्संसर्गा- : दन्यः को नाम स्वर्गपदार्थ इति भावः ॥२०॥ : धरती पर विरले ही जन्म लेनेवाले, किसी मानव के, स्वर्गलोक में भोग : करने योग्य असाधारण भाग्य के बिना, मुझ जैसे दिव्य पक्षी को बन्धन में पकड़ने : के लिए, किसी पाश आदि की इतनी शक्ति नहीं है ॥२०॥ : इष्टेन पूर्तेन नलस्य वश्याः स्वर्भोगमत्रापि सृजन्त्यमर्त्याः । : महीरुहा दोहदसेकशक्तेराकालिकं कोरकमुद्गिरन्ति ॥२१॥ : तच्च भाग्यं नलस्यैवास्तीत्याह--इष्टेनेति । इष्टेन = यागेन पूर्तेन = खाता- : दिकर्मणा च । 'त्रिष्वथ क्रतुकर्मेष्टं पूर्तं खातादिकर्मणि' इत्यमरः । वश्याः=वशङ्गताः । : 'वशंगतः' इति प्राग्दीव्यतीये यत्प्रत्ययः । अमर्त्याः = देवाः, नलस्य, अत्र= : भूलोके, अपि स्वर्भोगं सृजन्ति = स्वर्गसुखं सम्पादयन्तीत्यर्थः । ननु देवाश्च कथं : लोकान्तरकालान्तरभोग्यं स्वर्गमिदानीं सृजन्तीत्याशंकां दृष्टान्तेन परिहरति--मही- : रुहाः = वृक्षाः [ दोहद-सेक-शक्तेः ] दोहदस्य अकालप्रसवोत्पादनद्रव्यस्य, सेकस्य : जलसेकस्य शक्तेः सामर्थ्यात् । [आकालिकं] समानकालावायन्तौ उत्पत्तिविनाशा- : वस्येत्याकालिकः, उत्पत्त्यनन्तरविनाशीत्यर्थः । 'आकालिकडाद्यन्तवचने' इति समान- : कालशब्दस्याकालशब्दादेशे ठञ्प्रत्ययान्तो निपातः । प्रकृते त्वल्पमयं कोरकमुद्गि-