नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 154, कुल 226 में से
संदर्भ में पढ़ें१३८ नैषधचरितम् । [ तृतीयः रन्ति, इत्यर्थः । 'तरु-गुल्म-लतादीनामकाले कुशलः कृतम् । पुष्पाद्युत्पादकं द्रव्यं दोहदं स्यात्तु तत्क्रिया' इति शब्दार्णवे । दोहदवशाद्वृक्षा इव देवता अपि उत्कटपुण्य- वशाद्देशकालेऽपि फलं प्रयच्छन्तीत्यर्थः । दृष्टान्तालङ्कारः ॥२१॥ यज्ञ और पूर्तकर्म (कुँआ बावली खुदवाने) के कारण वशीभूत हुए देवता लोग--नल के लिए, स्वर्गीय उपभोगों को, यहीं (मर्त्य लोक में ही) उसी प्रकार प्रदान करते हैं, जिस प्रकार धूपदान और सिंचाई की शक्ति के कारण, पेड़-- अनवसर में (अर्थात् अपने फलने-फूलने के समय के पूर्व ही) कलियों को प्रस्फुटित करते हैं ॥२१॥ सुवर्णशैलादवतीर्य तूर्णं स्वर्वाहिनीवारिकणावकीर्णैः । तं वीजयामः स्मरकेलिक़ाले पक्षैर्नृपं चामरबद्धसख्यैः ॥२२॥ स्वभोगमेवाह--सुवर्णेति । सुवर्णशैलात् = मेरोः, तूर्णम् अवतीर्य = अव- रुह्य स्वर्वाहिनीवारिकणावकीर्णैः = मन्दाकिनीजलबिन्दुसम्पृक्तैः [चामर- बद्ध-सख्यैः ] चामरेषु बद्धसख्यैः, तत्सदृशैः पक्षैः = पतत्रैः स्मरकेलिक़ाले तं नृपं वीजयामः । तादृक्पक्षवीजनैः सुरतश्रान्तिमपनुदाम इत्यर्थः ॥२२॥ हम सुमेरु पर्वत से झट उतर कर, मन्दाकिनी की जल-बूँदों से सिक्त और चँवर के साथ मित्रता में बँधे हुए (अर्थात् चँवरतुल्य सफेद रंग के) अपने पंखों से, सम्भोग के समय नल को हवा करते हैं ॥२२॥ क्रियेत चेत् साधुविभक्तिचिन्ता व्यक्तिस्तदा सा प्रथमाभिधेया । या स्वौजसां साधयितुं विलासैस्तावत् क्षमानामपदं बहु स्यात् ॥२३॥ क्रियेतेति । साधुविभक्तिचिन्ता = सज्जनविभागविचारः क्रियेत चेत् सा = नलाभिधाना व्यक्तिः = मूर्तिः प्रथमाभिधेया = प्रथमं परिगणनीया । कुतः ? या = व्यक्तिः स्वौजसां विलासैः = व्याप्तिभिः, तावद्बहु = तथा प्रभूतं । [ अनाम- पदं ] नास्ति नामो नतिर्यस्येति अनामम्, अनम्रं पदं परराष्ट्रं साधयितुं = स्वायत्ती- कर्तुं क्षमा = समर्था स्यात् । अन्यत्र, साधुविभक्तिचिन्ता = सत्यविभक्तिविचारः क्रियेत चेत् तदा सा प्रथमा व्यक्तिः = प्रथमाविभक्तिः, अभिधेया = विचार्या, या स्वौजसां = सु, औ, जस्, इत्येतेषां प्रत्ययानां विलासैः = विस्तारैस्तावद्बहु = अनेकं नामपद = सुबन्तपदं, वृत्त इत्यादिकं पदं, साधयितुं = निष्पादयितुं, क्षमा ।