नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 170, कुल 226 में से
संदर्भ में पढ़ें१५४ नैषधचरितम् । [ तृतीयः बनायी है ? ) तो उस के पतित होने पर भी तुम्हारे नाम के अक्षरों की तरह ( मिलते-जुलते ) अक्षर, मेरे कानों में सुनायी पड़े ॥ ५० ॥ अन्येन पत्या त्वयि योजितायां विज्ञत्वकीर्त्या गतजन्मनो वा । जनापवादार्णवमुत्तरीतुं विधा विधातुः कतमा तरी स्यात् ॥५१॥ अन्येनेति । किं च, अन्येन = नलेतरेण पत्या, त्वयि योजितायां = घटितायां सत्यां विज्ञत्वकीर्त्या गतजन्मनः = अभिज्ञत्वख्यात्यैव नीतायुषो विधा- तुर्वा । जनापवादार्णवम् उत्तरीतुं = निस्तरीतुम् । ‘वतो वा’ इति दीर्घः । कतमा विधा = कः प्रकारः, तरी = तरणिः स्यात् ; न कापीत्यर्थः । ‘स्त्रियां नौस्तरणः तरिः’ इत्यमरः । अतो दैवगत्यापि स एव ते भर्तेति भावः ॥५१॥ अथवा, तुम्हारा नल के अतिरिक्त अन्य पति के साथ समागम करके, सर्वज्ञता की ख्याति के साथ जीवन व्यतीत करने वाले ब्रह्मा को, लोकापवाद रूप सागर के लिए, पार जाने के लिए किस तरह की नाव मिलेगी ? (अर्थात् यदि अन्य व्यक्ति के साथ तुम्हारा विवाह हुआ तो ब्रह्माजी की जिन्दगी भर की कमाई नेकनामी--में बट्टा लग जायगा । इस कलङ्क को वे किसी प्रकार भी मिटा न सकेंगे ) ॥ ५१ ॥ आस्तां तदप्रस्तुतचिन्तयालं मयासि तन्वि ! श्रमितातिवेलम् । सोऽहं तदागः परिमार्ष्टकामस्तवेप्सितं किं विदधेऽभिधेहि ॥५२॥ इत्थमाशामुत्पाद्य अस्याश्चित्तवृत्तिपरिज्ञानाय प्रसङ्गान्तरेण निगमयति— आस्तामिति । तत् = पूर्वोक्तम् , आस्तां = तिष्ठतु; अप्रस्तुतचिन्तया अलं, तया साध्यं नास्तीत्यर्थः । गम्यमानसाधनक्रियापेक्षया करणत्वात्तृतीया । अत एवाह ‘न केवलं श्रूयमाणक्रियापेक्षया कारकोत्पत्तिः । किन्तु गम्यमानक्रिया- पेक्षयाऽपि’ इति न्यासकारः । किन्तु हे तन्वि ! = कृशाङ्गि ! मया अतिवेल = अत्यर्थं श्रमिता = खेदिता असि । श्रमेण्यन्तात् कर्मणि क्तः । तत् = श्रमणरूपम् आगः = अपराधं, परिमार्ष्टकामः=परिहर्तुकामः । ‘तुं काममनसोरपि’इति मका- रलोपः । सोऽहं किं तवेप्सितं = तव मनोरथं विदधे = कुर्वे; अभिधेहि=ब्रूहि ॥ बस, इस प्रसङ्ग को यहीं समाप्त कर देना चाहिए । अप्रासङ्गिक विचार (विवाह सम्बन्धी चर्चा ) व्यर्थ है ( उससे क्या लाभ ? ) हे कृशोदरी ! मैंने तुम्हें बहुत देर थकाया है । सो इस (श्रमकष्टरूपी) अपराध के क्षमा कराने के