नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 176, कुल 226 में से
संदर्भ में पढ़ेंयमर्थम्, ईदृशं = द्विजराजपाणिग्रहणाभिलाषसदृशम्, सादरिणी = आदरवती सती आत्थ = ब्रवीषि । 'ब्रुवः पञ्चानाम्' इति ब्रुवो लटि सिपि थलादेशः । ब्रुवश्था- देशः । 'आहस्थः' इति हकारस्य थकारः । तमर्थम् । अन्ते भवोऽन्तिमो वर्णः = शूद्रः । 'अन्ताच्चेति वक्तव्यम्' इति इमच् । श्रुतेर्वर्णं = वेदाक्षरम् इव, श्रुतिभ्यां = श्रोत्राभ्यां पातुं = श्रोतुमपीत्यर्थः । नाधिकुर्वे=नाधिकार्यस्मि किं ? = अस्म्ये- वेत्यर्थः । अतः सोऽर्थो वक्तव्य इति तात्पर्यम् ॥६२॥ बोलने के लिए, मेरे आग्रह करने पर, आपने जो द्विज-राज को पाणि से ग्रहण करने की वाञ्छा के समान' इस प्रकार वाक्य कहा, उस विषय को श्रुति ( कानों ) से सादर पान करने ( स्पष्ट सुनने ) का क्या मैं उस प्रकार अधिकारी नहीं हूँ ?; जैसे अन्तिम वर्ण ( शूद्र ) श्रुति ( वेद ) के वर्ण ( अक्षर ) को सुनने का अधिकारी नहीं होता ( अर्थात् श्लेषमयी साहित्यिक भाषा का प्रयोग न करके, सर्वसाधारण की समझ में आने वाला सरलार्थ बताइए ) ॥६२॥ अर्थाप्यते वा किमियद्भवत्या चित्तैकपद्यामपि वर्त्तते यः । यत्रान्धकारः खलु चेतसोऽपि जिह्मेतरैर्ब्रह्म तदप्यवाप्यम् ॥६३॥ ननु तमर्थमत्यन्तदुर्लभत्वाद्वक्तुं जिह्मेमीत्याशङ्क्याह—अर्थाप्यत इति । हे भैमि ! भवत्या किंवा, इयत् = एतावद्यथा तथा अर्थाप्यते । किमर्थम् अय- मर्थो द्विजराजपाणिग्रहवदतिदुर्लभत्वेनाख्यायत इत्यर्थः । अर्थशब्दात्तदाचष्टे इत्यर्थे णिच् 'अर्थवेदसत्यानामापुग्वक्तव्यः' इत्यापुगागमः । कुतस्तथा नाख्येय इत्यत आह—योऽर्थः एकः पादो यस्यामित्येकपदी, एकपादसञ्चारयोग्यमार्गः । 'वर्त्त्येक- पदीति च' इत्यमरः । 'कुम्भपदीषु च' इति निपातनात् साधुः । चित्तैकपद्यां = मनोमार्गेऽपि वर्तते । चक्षुराद्यविषयत्वेऽपीत्यपिशब्दार्थः । स कथं दुर्लभ इति भावः । तथा हि, यत्र=यस्मिन् ब्रह्मणि विषये चेतसोऽप्यन्धकारः प्रतिबन्धः किल तद् ब्रह्म जिह्मेतरैः = अकुटिलैः, कुशलधीभिरिति यावत् । अवाप्यं = सुप्रापं । अमनोगम्यं ब्रह्मापि कैश्चिद्गम्यते, किमुत मनोगतोऽयमर्थः । अत एवार्थापत्तिरलंकारः । कैमुत्ये- नार्थान्तरापतनमर्थापत्तिरिति वचनात् ॥ ६३ ॥ जो मनोरथ आपके चित्त-पथ पर दौड़ रहा है, उसे आप ( 'मनस्तु यं नोज्झति' कहकर ) क्यों अर्थ ( धन ) के समान गुप्त रख रही हैं ? जिस ( ब्रह्म ) के बारे में ऐसा ( श्रुति प्रोक्त ) सुना गया है कि 'वह मन के विषय से परे है'—