भारतकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 177, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 177

[यः सर्गः ३ ] जीवातु-मदयन्तिकासहितम् । १६१ वह भी तो उद्योगी पुरुषों द्वारा ( योगाभ्यास से ) सुलभ हो जाता है ( तब भला, आपका मनोरथ प्रयत्न करने से क्यों न पूरा होगा ? ) ॥ ६३ ॥ ईशाणिमैश्वर्य-विवर्त-मध्ये ! लोकेश-लोकेशय-लोक-मध्ये । तिर्यञ्चमप्यञ्च मृषानभिज्ञ-रसज्ञतोपज्ञ-समज्ञमज्ञम् ॥ ६४ ॥ अथ मयि मृषावादित्वशङ्कया वक्तुं सङ्कोचस्तच्च न शङ्कितव्यमित्याह— ईशेत्यादिना त्रयेण । [ ईशाणिमैश्वर्य-विवर्त-मध्ये ! ] ईशस्य यदणि- मैश्वर्यं, तस्य विवर्त्तो रूपान्तरं मध्यो यस्याः सा तथोक्ते । हे कृशोदरीत्यर्थः । [ लोकेश-लोकेशय-लोकमध्ये ] लोकेशलोके शेरत इति लोकेशलोकेशयाः ब्रह्म- लोकवासिनः । 'अधिकरणे शेतेः' इत्यच्प्रत्ययः । 'शयवासवासिष्वकालात्' इत्यलुक् । तेषां लोकानां जनानां मध्ये अज्ञं=मूर्ढं, तिर्यञ्च = पक्षिणमपि, मामिति शेषः । [ मृषानभिज्ञ-रसज्ञतोपज्ञ-समज्ञं ] मृषा अनृतं, तस्य अनभिज्ञा रसज्ञा रसना, यस्य तस्य भावस्तत्ता, सत्यवादित्यर्थः । उपजायत इति उपज्ञा, आदावुपज्ञाता । 'उपज्ञा ज्ञानमाद्यं स्यात्' इत्यमरः । 'आतश्चोपसर्गे' इत्यङ्प्रत्ययः । बहुलग्रहणात् कर्मार्थत्वम् । तथात्वेन ज्ञातं तदुपशं, 'उपज्ञोपक्रमं तदाद्याचिख्यासायाम्' इति नपुंसकत्वं, समं साधारणं, सर्वैरज्ञायत इति समज्ञा कीर्तिः । तदुपज्ञं तथात्वेनादौ ज्ञाता समज्ञा कीर्तिर्येन तं, तथोक्तं मां अञ्च = सत्यवादिनं विद्धीत्यर्थः । अञ्चतेर्ग- त्यर्थत्वात् ज्ञानार्थत्वम् ॥६४॥ हे महेश के ( अणिमा-लघिमा आदि ८ प्रकार के ) ऐश्वर्यों में पहली अणिमा के विवर्त के समान सूक्ष्म मध्यभाग वाली (अर्थात् हे पतली कमर वाली) ! लोकेश ब्रह्मा के लोक ( ब्रह्माण्ड ) में रहने वाले लोगों में यद्यपि मैं केवल मूर्ख पक्षी हूँ; तथापि मेरी—रस को ग्रहण करने वाली—जीभ असत्य भाषण से अनभिज्ञ होने के कारण, मैं ( ब्रह्मलोक में सत्यवादियों की श्रेणी में ) सर्व-प्रथम उल्लेख होने वाली कीर्ति से संयुक्त हूँ ( अर्थात् सम्पूर्ण सत्यवादियों में अग्रणी हूँ )—इसे भली भाँति समझ लीजिए ॥ ६४ ॥ मध्ये श्रुतीनां प्रतिवेशिनीनां सरस्वती वासवती मुखे नः । ह्रियेव ताभ्यश्चलतायमद्यापथान्न संसगगुणेन बद्धा ॥ ६५ ॥ मध्य इति । किं च प्रतिवेशिनीनां=प्रावेश्यानां, श्रुतीनां=वेदानां, ब्रह्म- मुखस्थानां श्रुतीनां मध्ये वासवती = निवसन्ती, इयं सरस्वती=अस्माकं मुखे, सर- ११