नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 178, कुल 226 में से
संदर्भ में पढ़ें१६२ नैषधचरितम् । [ तृतीयः स्वती=वाग्देवी, सा, संसर्ग एव गुणः श्लाघ्यधर्मः तन्तुश्च तेन बद्धा सती, ताभ्यः = श्रुतिभ्यो ह्रिया इव इत्युत्प्रेक्षा । अद्धापथात् = सत्यमार्गात् न चलति, संसर्गजा दोषगुणा भवन्तीति भावः । 'सत्ये त्वद्धाञ्जसाद्वयम्' इत्यमरः ॥ हमारे मुख में ( किसी भवन में ) रहने वाली, यह सरस्वती ( वाणी; कोई महिला ) श्रुतियों ( वेदों; सतियों ) की पड़ोसिन है । ( यतः ब्रह्मा के मुख से श्रुतियाँ निकली हैं और ब्रह्मा के रथ में हंस रहते हैं, अतः वे एक गाँव की रहने वाली पड़ोसिन हुईं ) । यह—श्रुतियों ( वेदों ) के संसर्ग के गुण से बँधी रहने के कारण, मानों उन ( श्रुतिरुपी पड़ोसिनों ) की लज्जा से ही,—अद्धापथ ( सत्यमार्ग; सती- धर्म ) से स्खलित नहीं होती ( झूठ नहीं बोलती; विचलित हो व्यभिचारिणी नहीं होती ) ॥ ६५ ॥ पर्यङ्कतापत्रसरस्वदङ्कां लङ्कापुरीमप्यभिलाषि चित्तम् । कुत्रापि चेद्वस्तुनि ते प्रयाति तदप्यवेहि स्वशये शयालु ॥६६॥ ततः किमित्यत आह-पर्यङ्केति । कुत्रापि वस्तुनि-द्वीपान्तरस्थेऽपीति भावः । अभिलाषि=साभिलाषं, ते=तव, चित्तं कर्तृ, [ पर्यङ्कतापत्र-सरस्वदङ्कां ] पर्यङ्क- तां वाससद्थिकात्वमापन्नः सरस्वान् सागरोऽङ्कश्चिह्नं यस्यास्तामतिदुर्गमामित्यर्थः । तां लङ्कापुरीमपि, प्रयाति चेत् । तदपि=तद्दुर्गस्थमपि स्वशये=स्वहस्ते, शयालु = स्थितम् अवेहि । पर्यस्तमपि पर्यङ्कस्थमिव जानीहि ॥ ६६ ॥ तुम्हारा चित्त—समुद्र के अङ्क ( गोद ) को पर्यङ्क ( पलङ्ग ) बनाने वाली ( अर्थात् समुद्र के बीच में स्थित, अतः दुर्लङ्घ्य )—लङ्कापुरी की भी यदि अभि- लाषा करे; किंवा उससे भी अधिक दुर्लभ वस्तु के पाने की इच्छा करे तो ( दोनों ही को ) अपने हाथ में आया ही समझो ॥ ६६ ॥ इतीरिता पत्ररथेन तेन हीणा च हृष्टा च बभाण भैमी । चेतो नलं कामयते मदीयं नान्यत्र कुत्रापि च साभिलाषम् ॥६७॥ इतीति । तेन पत्ररथेन = पक्षिणा हंसेन, इति = इत्थम् ईरिता = उक्ता, भैमी, हीणा = स्वयमेव स्वाकूतकथनसंकोचात् लज्जिता । 'नुदविद' इत्यादिना विकल्पात्रिष्ठानत्वम् । हृष्टा = उपायलाभान्मुदिता च सती बभाण । किमिति मदीयं चेतो लङ्कां नायते = नैति किन्तु नलं राजानं कामयत इति श्लेषभङ्ग्या बभाणेत्यर्थः । अन्यत्र कुत्रापि = वस्तुनि च साभिलाषं न ॥ ६७ ॥