भारतकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 19, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 19

सर्गः १ ] ३ मम वाचं, कथं न पवित्रयिष्यति=अपि तु पवित्रां करिष्यत्येवेत्यर्थः । तथा चोक्तं- 'कर्कोटस्य नागस्य दमयन्त्या नलस्य च । ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम्' इति । या स्मृतिमात्रेण शोधनी सा कीर्तनात् किमुतेति कैमुत्यन्यायेनार्थान्तरापत्त्या अर्थाप- त्तिरलंकारः । तदुक्तम्-एकस्य वस्तुनो भावाद् यत्र वस्त्वन्यथा भवेत् । कैमुत्यन्यायतः सा स्यादर्थापत्तिरलङ्क्रिया' इति ॥ ३ ॥ जिनकी कथा का स्मरण इस कलियुग में जल से धुले हुए की भांति विश्व को पवित्र करनेवाली है । फिर भला, वह कथा मेरी वाणी को क्यों न पवित्र करेगी- जो कलुष (साहित्यिक दोषों) से पूर्ण होने पर भी उसकी आराधना में अनुरक्त है ॥ अधीतिबोधाचरणप्रचारणैर्दशाश्चतस्रः प्रणयन्नुपाधिभिः । चतुर्दशत्वं कृतवान् कुतः स्वयं न वेद्मि विद्यासु चतुर्दशत्वयम् ॥ ४ ॥ अस्य सर्वविद्यापारदर्शित्वमाह-अधीतीति । अयं = नलः, चतुर्दशसु विद्यासु=वेदवेदाङ्गादिषु । 'अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । धर्मशास्त्रं पुराणंश्च विद्या ह्येताश्चतुर्दश' इत्युक्तासु । [अधीतिबोधाचरणप्रचारणैः] अधी- तिरध्ययनं, गुरुमुखात् श्रवणमित्यर्थः । बोधः अर्थावगतिः, आचरणं तदर्थानुष्ठानं, प्रचारणम् अध्यापनं शिष्येभ्यः प्रतिपादनमित्यर्थः । तैश्चतुर्भिः उपाधिभिः=विशेषणैः, आचरणविशेषैरित्यर्थः । 'उपाधिर्धर्मचिन्तायां कैतवे च विशेषणे' इति विश्वः । चतस्रो दशाः = अवस्थाः, प्रणयन् = कुर्वन्नित्यर्थः । स्वयं चतस्रो दशा यासां तासां भावः चतुर्दशत्वं । 'त्वतलोर्गुणवचनस्येति पुंवद्भावो वक्तव्यः' इति स्त्रियाः पुंवद्भावः । संज्ञाजातिव्यतिरिक्ताश्च गुणवचना इति सम्प्रदायः । चतुर्दश- संख्याकत्वं, कुतः=कस्मात्, कृतवान्, न वेद्मि=न जाने इति, स्वतःसिद्धस्य स्वयं करणं कथं पिष्टपेषणवदिति चतुर्दशानां चतुरावृत्तौ षट्पञ्चाशत्त्वात् कथं चतुर्दशत्वमिति च विरोधाभासद्वयम् । चतुरवस्थत्वमिति तत्परिहारश्च । तदुक्तम्- 'आभासत्वे विरोधस्य विरोधाभास उच्यते' इति ॥ ४ ॥ नल ने चौदह विद्याओं (४ वेद, ६ वेदाङ्ग, मीमांसा, न्याय, धर्मशास्त्र और पुराण) की-अध्ययन, अर्थज्ञान, आचरण और शिक्षाप्रचाररूपी चार उपाधियों से, चार अवस्थाएँ बनाकर भी उनका चतुर्दशत्व कैसे बने रहने दिया ? (वे १४ X ४ = ५६ क्यों न हुई ?)-यह मुझे नहीं मालूम ॥ ४ ॥ अमुष्य विद्या रसनाग्रनर्तकी त्रयीव नीताऽङ्कगुणेन विस्तरम् ।