नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 18, कुल 226 में से
संदर्भ में पढ़ें२ नैषधचरितम् । [ प्रथमः ताऽथवा । व्यतिरेक इति मिथोऽपेक्षायै तेषां स्थितिः संसृष्टिरुच्यते' इति च । अस्मिन् सर्गे वंशस्थं वृत्तं, जतौ तु वंशस्थमुदीरितं जराविति तल्लक्षणात् ॥ १ ॥ जिस नरपति के उपाख्यान का रसास्वाद कर, बुध-जन (विद्वान् तथा विबुध गण) अमृत का भी वैसा समादर नहीं करते थे (जैसा उसकी मधुर कथाओं का करते थे)-ऐसे कीर्तिमण्डल को अपना श्वेतछत्र बनानेवाले, तेजशाली (सूर्य के समान), और महोज्ज्वल (नित्य उत्सव करनेवाले) नल नाम के एक राजा थे ॥१॥ रसैः कथा यस्य सुधावधीरिणी नलः स भूजानिरभूद्गुणाद्भुतः । सुवर्णदण्डैकसितातपत्रितज्वलत्प्रतापावलिकीर्त्तिमण्डलः ॥२॥ इममेवार्थमन्यथा आह-रसैरिति । यस्य=नलस्य कथा रसैः=स्वादैः । 'रसो गन्धः रसः स्वाद' इति विश्वः । [सुधावधीरिणी] सुधाम् अवधीरयति तिरस्करोति तथोक्ता, अमृतातद्रिच्यमानस्वादेति यावत् ताच्छील्ये णिनिः । [भूजानिः] भूर्जाया यस्य स भूजानिः, भूपतिरित्यर्थः । जायाया निङिति बहुव्रीहौ जायाशब्दस्य निडादेशः । स नलः [गुणाद्भुतः] गुणैः शौर्यदाक्षिण्यादिभिः अद्भुतः, लोकातिशयमहिमेत्यर्थः । अभूत् । कथम्भूतः ? [सुवर्णदण्डैकसितातपत्रितज्वलत्प्रतापावलिकीर्त्तिमण्डलः] सुवर्णदण्डश्च एकं सितातपत्रञ्च ते कृते । द्वन्द्वात् तत्कृताविति ण्यन्तात् कर्मणि क्तः । ज्वलत्प्रतापावलिः कीर्त्तिमण्डलञ्च यस्य तथाभूतः । अप्रतिहतकीर्तिप्रताप इत्यर्थः । इह कीर्तेः सितातपत्रत्वरूपणं पूर्वोक्तमपि सुवर्णदण्डवैशिष्ट्यात् राज्ञश्च गुणाद्भुतत्वेन वैचित्र्यात् न पुनरुक्तिदोषः । अत्रापि पूर्ववद् व्यतिरेक-रूपकयोः संसृष्टिः ॥ २ ॥ जिनकी कथा रसों (मधुर स्वादों, शृंगारादि रसों) द्वारा अमृत का भी तिर- स्कार करती है-ऐसे भूपाल नल अद्भुत गुणशाली, उज्ज्वल प्रताप को सुवर्ण दण्ड तथा कीर्तिमण्डल को श्वेत छत्र बनानेवाले थे ॥ २ ॥ पवित्रमत्रातनुते जगद्युगे स्मृता रसक्षालनयेव यत्कथा । कथं न सा मद्भिरमाविलामपि स्वसेविनीमेव पवित्रयिष्यति ॥ ३ ॥ सम्प्रति कविः स्वविनयमाविष्करोति-पवित्रमिति । अत्र युगे कलौ इति यावत् । [यत्कथा] यस्य नलस्य, कथा, स्मृता=स्मृतिपथं नीतेत्यर्थः । सती, जगत्= लोकं रसक्षालनयेव=जलक्षालनयेवेत्युत्प्रेक्षा । 'देहधात्वम्बुपारदाः' इति रसपर्याये विश्वः । पवित्रं=विशुद्धम्, आतनुते = करोति, सा=कथा, आाविलां=कलुषामपि, सदोषामपीति यावत् । स्वसेविनीमेव=केवलं स्वकीर्त्तनपरामेवेति भावः । मद्भिरं=