भारतकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 17, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 17

ॐ श्रीमहागणाधिपतये नमः ॐ नैषधमहाकाव्यम् जीवातु-मदयन्तिका-संस्कृत-हिन्दीटीकासहितम् । प्रथमः सर्गः निपीय यस्य क्षितिरक्षिणः कथां तथाद्रियन्ते न बुधाः सुधामपि । नलः सितच्छत्रितकीर्त्तिमण्डलः स राशिरासीन्महसां महोज्ज्वलः ॥१॥ अथ तत्रभवान् श्रीहर्षकविः 'काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे ॥' इत्यालङ्कारिकवचनप्रामाण्यात् काव्यस्यानेकश्रेयःसाधनत्वाच्च काव्यालापांश्च वर्जयेदिति तन्निषेधस्यासत्काव्यविषयतां पश्यन् नैषधाख्यं महाकाव्यं चिकीर्षुश्चिकीर्षितार्थाविघ्नपरिसमाप्तिहेतोराशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखमित्याशीराद्यन्यतमस्य प्रबन्धमुखलक्षणात् कथानायकस्य राज्ञो नलस्य भूतिलक्षणं परम-मङ्गलं वस्तु निर्दिशति-निपीयेति । क्षितिरक्षिणः= क्षमापालस्य यस्य=नलस्य कथाम्=उपाख्यानं, निपीय=नितरामास्वाद्य । 'पीड् स्वादे क्त्वो ल्यप्'इति ल्यबादेशः । न तु पिबतेः न ल्यपीति प्रतिषेधादीत्वासम्भवात् । बुधाः=तज्ज्ञाः, सुराश्च । 'ज्ञातृचान्द्रिसुरा बुधाः' इति क्षीरस्वामी । सुधामपि तथा= यथेयं कथा तद्वदित्यर्थः । नाद्रियन्ते=सुधामपेक्ष्य बहु मन्यन्ते इति यावत् । [ सितच्छत्रितकीर्तिमण्डलः ] सितच्छत्रितं सितच्छत्रं कृतं सितातपत्रीकृत- मित्यर्थः । 'तत्करोतीति' ण्यन्तात् कर्म्मणि क्तः । कीर्त्तिमण्डलं येन सः । महसां=तेजसां, राशिः=रवैरिवेति भावः । [ महोज्ज्वलः ] महैः उत्सवैः उज्ज्वलः दीप्यमानः, नित्यमहोत्सवशालीत्यर्थः । 'मह उद्धव उत्सवः' इत्यमरः । स=नलः आसीत् । अत्र नले महसां राशिरिति कीर्त्तिमण्डले च सितच्छत्रत्वरूपस्या- रोपात् रूपकं कथायाश्च सुधोपेक्षयाऽऽधिक्योक्तेर्व्यतिरेकश्चेत्यनयोः संसृष्टिः । तदुक्तं दर्पणे-रूपकं रूपितारोपाद् विषये निरपह्नवे' इति । 'आधिक्यमुपमेयस्योपमानान्न्यून-