नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 21, कुल 226 में से
संदर्भ में पढ़ेंसर्गः १ ] जीवातू-मदयन्तिकासहितम् । ५ नृपः' इति च स्मृतिः । दिशाम् ईशिता = ईश्वरः स = नलः, शास्त्राणि दिशामिति च बहुवचननिर्देशात् । इन्द्रादीनामेकैकदिगीशत्वम्, अस्य तु सर्वदिगीशितृत्वमिति व्यतिरेको व्यज्यते । [ कामप्रसभावरोधिनीं ] कामम् इच्छा मदनञ्च, मदनस्य प्रसभेन बलात् अवरुणद्धीति तथोक्तां स्वेच्छाप्रवृत्तिनिवारिणीं, कन्दर्पदहनकारिणी- मित्यर्थः । कामप्रसरावरोधिनीमिति पाठे कामस्य प्रसरः विस्तारः वृद्धिरिति यावत् तमवरुणद्धीति तथैवार्थः । [ निजत्रिनेत्रावतरत्वबोधिकां ] निजम् आत्मीयं यत् त्रिनेत्रावतरत्वं दिगीशेश्वरांशप्रभवत्वं तस्य बोधिकां ज्ञापिकाम् । अत्र 'तृजकाभ्यां कर्तरि' इति कृद्योगसमासस्यैव निषेधात् शेषषष्ठीसमासः । 'तत्प्रयोजकः' इत्यादि सूत्रकारप्रयोगदर्शनादिति बोध्यम् । द्व्यधिकाम् = तृतीयामित्यर्थः । [ शास्त्राणि ] दृशं = नेत्रं, बभार = दध्रे । एतेन अस्य शास्त्रेणैव कार्यदर्शित्वं व्यज्यते । शास्त्राणि दृशमिति उद्देश्यविधेयरूपकर्मद्वयम् । 'अवतार' इत्यत्राऽप्प्रत्ययान्तेन तरशब्देन 'सुप्सुपा' इति समासः । न तूपसूत्रात् प्रत्ययोत्पत्तिः । अत्र शास्त्राणि दृशमिति व्यस्तरूपकम् ॥६॥ दिग्पालों के अंशों की विभूति (उत्पत्ति, भस्म) धारण करनेवाले, दिशाओं के ईश (शासक, शिव) नल-काम की प्रबलता को रोकनेवाली (स्वेच्छाचारनिवारिणी; मदनदहनकारिणी) अपने त्रिनेत्र (शंकर) के अवतार का बोध करानेवाली दो से अधिक अर्थात् तीसरी शास्त्ररूपी आँख रखते थे ॥ ६ ॥ पदैश्चतुर्भिः सुकृते स्थिरीकृते कृतेऽमुना के न तपः प्रपेदिरे । भुवं यदेकाङ्घ्रिकनिष्ठया स्पृशन् दधावधर्मोऽपि कृशस्तपस्विताम् ॥ ७ ॥ अथास्य प्रभावं दर्शयति-पदैरिति । अमुना = नलेन, कृते = सत्ययुगे, सुकृते = धर्मे वृषरूपत्वात् । चतुर्भिः पदैः = चरणैः । 'तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते । द्वापरे यज्ञमेवाहुर्दानमेकं कलौ युगे' इत्युक्तचतुर्विधैरिति भावः । स्थिरीकृते = निश्चलीकृते इति यावत् । के = जनाः, तपः = चान्द्रायणादिरूपं कठिनं व्रतं, का कथा ज्ञानादीनामिति भावः । न प्रपेदिरे = अपि तु सर्व एव तपश्चे- रुरित्यर्थः । यत् यतः, अधर्मोऽपि, का कथा अन्येषामित्यपिशब्दार्थः । कृशः = दुर्बलः सन्, [ एकाङ्घ्रिकनिष्ठया ] एकया अङ्घ्रेः=चरणस्य, कनिष्ठया कनिष्ठया अङ्गुल्ये- त्यर्थः । भुवं स्पृशन् । कृतेऽपि अधर्मस्य लेशतः सम्भवादंशेनेति भावः । तपस्वितां =तापसत्वं, दीनत्वञ्च । 'मुनी द्वौ तपस्विनौ' इति विश्वः । दधौ = धारयामास । अस्य शासनादधर्मोऽपि धर्मेषु आसक्तोऽभूत् । किमुत अन्य इति । कैमुत्यन्यायादर्थान्तरा-