नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 22, कुल 226 में से
संदर्भ में पढ़ें६ नैषधचरितम् । [ प्रथमः पत्त्या अर्थापत्तिरलंकारः। अधर्मोऽपि धार्मिक इति विरोधश्चेत्यनयोः संसृष्टिः ॥ ७ ॥ इन्होंने कृत (सत्य) युग में धर्म को (तप, ज्ञान, यज्ञ, दान रूपी) चारों चरणों से स्थिर कर दिया था। फिर भला ऐसा कौन मनुष्य था-जो तप न करता ? यहाँ तक कि अधर्म भी दुर्बल होकर, एक पैर की एक कानी अंगुलि ( लेश मात्र ) से भूमि पर स्पर्श ( पृथ्वी पर खड़ा हो ) कर, तप में लग गया ॥ ७ ॥ यदस्य यात्रासु बलोद्धतं रजः स्फुरत्प्रतापानलधूममञ्जिम । तदेव गत्वा पतितं सुधाम्बुधौ दधाति पङ्कीभवदङ्कतां विधौ ॥ ८ ॥ अथास्य सप्तभिः प्रतापं वर्णयति—यदित्यादिभिः । अस्य = नलस्य, यात्रासु = जैत्रयानेषु, बलोद्धतं = सैन्योत्थितं [ स्फुरत्प्रतापानलधूममञ्जिम ] स्फुरतः ज्वलतः प्रतापानलस्य यो धूमः तस्येव मञ्जिमा मनोहारित्वं यस्य तथोक्तं । 'सप्तम्युप- माने'इत्यादिना बहुव्रीहिः । मञ्जुशब्दादिमनिच्प्रत्ययः । यत् रजः=धूलिः, तदेव गत्वा, उत्क्षेपवेगादिति भावः । सुधाम्बुधौ = क्षीरनिधौ [पङ्कीभवत्] पतितम् अत एव पङ्कीभवत् सत् । विधौ = चन्द्रे तद्वासिनीति भावः । अङ्कतां=कलङ्कत्वं दधाति । अत्रापि व्यञ्जकाप्रयोगात् गम्योत्प्रेक्षा तथाच कलङ्कत्वं दधातीवेत्यर्थः ॥८॥ दिग्विजय के अवसर पर, नल की सेना से उड़ायी गयी धूलि-जो प्रताप रूपी जलती हुई आग के धूँए के सौन्दर्य के समान थी, वह-क्षीरसागर में जाकर गिर पड़ी; इसी लिए अत्यधिक कीचड़ होकर चन्द्रमा में कालापन धारण करती है ॥८॥ स्फुरद्धनुर्निस्वनतद्घनाशुग-प्रगल्भवृष्टिव्ययितस्य सङ्गरे । निजस्य तेजःशिखिनः परःशता वितेनुरङ्गारमिवायशः परे ॥ ९ ॥ स्फुरदिति । सङ्गरे = युद्धे, शतात परे परःशताः = शताधिका इत्यर्थः, बहव इति यावत् । पञ्चमीति योगविभागात् समासः । राजदन्तादित्वादु- पसर्जनस्य परनिपातः पारस्करादित्वात् सुडागमश्च । परे = शत्रवः [ स्फुरद्धनुर्नि- स्वनतद्घनाशुगप्रगल्भवृष्टिव्ययितस्य] स्फुरन्तौ प्रसरन्तौ, धनुर्निस्वनौ चापघोषौ, इन्द्रचापगर्जिते च, यस्य यत्र वा तथोक्तः, सः नल एव घनः मेघः, तस्य आशुगानां शराणाम्, अन्यत्र आशुगा वेगगामिनी, यद्वा आशुगेन वेगगामिना वायुना, या प्रगल्भा महती वृष्टिः । 'आशुगौ वायुविशिखौ'इत्यमरः । तया व्ययितस्य निर्वापि- तस्य । विपूर्वाद्वयतेः कर्मणि क्तः । निजस्य तेजःशिखिनः = प्रतापाग्नेः, अङ्गार-