भारतकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 23, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 23

सर्गः १ ] जीवातु-मद्यन्तिकासहितम् । ७ मिव भयशः = अपकीर्तिं, बितेनुः = विस्तारितवन्तः, पराजिता इति भावः । अत्र रूपकोत्प्रेक्षयोरङ्गाङ्गिभावः सङ्करः ॥ ६ ॥ युद्ध में उसके असंख्य शत्रुओं ने-प्रकाशमान धनुष ( नल धनुष, इन्द्र धनुष) और गर्जते हुए घन (निरन्तर, बादल) की वर्षा की भाँति प्रबल शर-वर्षा करनेवाले (मेघरूपी) नल के सामने-अपनी बुझी हुई प्रतापाग्नि के अंगारों के समान-अपकीर्ति का विस्तार किया ॥ ६ ॥ अनल्पदग्धारिपुरानलोज्जवलैर्निजप्रतापैर्बलयं ज्वलद्भुवः । प्रदक्षिणीकृत्य जयाय सृष्ट्या रराज नीराजनया स राजघः ॥१०॥ अनल्पेति । राज्ञः प्रतिपक्षानिति भावः, हन्तीति राजघः = शत्रुघातीत्यर्थः । 'राजघ उपसंख्यानम्' इति निपातः । स = नलः [ अनल्पदग्धारिपुरान- लोज्जवलैः ] अनल्पं दग्धानि अरिपुराणि शत्रुराष्ट्राणि यैः तथोक्ताः । अनलवद् उज्ज्वलाः तैः । निजप्रतापैः = कोपदण्डसमुत्थतेजोभिः । 'स प्रतापः प्रभावश्च यत्तेजः कोषदण्डजम्' इत्यमरः । ज्वलत् = दीप्यमानं, भुवः वलयं = भूमण्डलं, प्रद- क्षिणीकृत्य = प्रदक्षिणं परिभ्रम्य । क्रमेण सर्वदिग्विजेतृत्वादिति भावः । जयाय सृष्टया = सर्वभूजयनिमित्तं कृतयेत्यर्थः, पुरोहितैरिति शेषः । नीराजनया = आरा- र्तिकया, रराज = शुशुभे । दिशो विजित्य प्रत्यावृत्तं विजिगीषुं स्वपुरोहिताः मङ्गल- संविधानाय नीराजयन्तीति प्रसिद्धिः । केचित्तु निजप्रतापैरिव जयाय सृष्ट्या जयार्थ- येवेत्यर्थः । नीराजनया आरार्तिकया ज्वलत् दीप्यमानं भुवो वलयं भूचक्रं प्रदक्षिणी- कृत्य प्रदक्षिणं परिभ्राम्य रराज । अत्र ज्वलत्प्रतापानलो नानादिग्जैत्रयात्रायां प्राच्या- दिप्रदक्षिण्येेन भूमण्डलं परिभ्रमन् निजप्रतापनीराजनया भूदेवतां नीराजयन्निव रराजेत्युत्प्रेक्षा । व्यञ्जकाप्रयोगाद्गम्या इति व्याचक्षते तन्न समीचीनं, निजप्रतापै- रित्यस्य नीराजनयेत्यनेन सामानाधिकरण्यासङ्गतेरिति ॥ १० ॥ राजोच्छेत्ता नल, विजय के लिए शत्रुओं की नगरियों को खूब जलानेवाली अग्नि से उज्ज्वल ( प्रकाशमान ) हुए, निज प्रताप से देदीप्यमान पृथ्वी की प्रद- क्षिणा करके, आरती द्वारा सुशोभित हुआ ॥१०॥ निवारितास्तेन महीतलेऽखिले निरीतिभावं गमितेऽतिवृष्टयः । न तत्यजुर्नूनमनन्यसंश्रयाः प्रतीपभूपालमृगीदृशां दृशः ॥११॥ निवारिता इति । तेन = नलेन, अखिले = समग्रे, महीतले, [ निरीति-