नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 24, कुल 226 में से
संदर्भ में पढ़ें८ नैषधचरितम् । [ प्रथमः भावं ] न सन्ति ईतयः अतिवृष्ट्यादयः यत्र तत् निरीतिः, तस्य भावः, तम् । ईतिराहित्यमित्यर्थः । ईतयश्चोक्ताः-यथा, अतिवृष्टिरनावृष्टिः शलभा मूषिकाः खगाः । प्रत्यासन्नाश्च राजानः षडेता ईतयः स्मृता इति । गमिते=प्रापिते सति निवारिताः= स्वराष्ट्रात् निराकृता इत्यर्थः । अतिवृष्टयः [अनन्यसंश्रयाः] नास्ति अन्यः संश्रयः आश्रयः यासां तथाभूताः सत्यः, [ प्रतीपभूपालमृगीदृशां ] प्रतीपभूपालानां प्रतिपक्षनृपतीनां, या मृगीदृशः मृगनयनाः कान्ताः, तासां । दृशः = नयनानि न तत्यजुः । नूनं=मन्ये इत्यर्थः । उत्प्रेक्षावाचकमिदं तदुक्तं दर्पणे-मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादयः । उत्प्रेक्षाव्यञ्जकाः शब्दा इवशब्दोऽपि तादृश इति । नल- निहतभर्तृका राजपत्न्यः सततं रुरुदुरिति भावः ॥ ११ ॥ उन नल के द्वारा अतिवृष्टि तो अखिल भूमण्डल से निरीतिभाव को प्राप्त हो गयी । तब वह शत्रु राजाओं की मृगनयनियों के नयनों में जाकर रहने लगी क्योंकि अतिवृष्टि को अन्यत्र आश्रय नहीं मिला—ऐसा मैं मानता हूँ ॥ ११ ॥ सितांशुवर्णैर्वयति स्म तद्गुणैर्महासिवेम्नः सहकृत्वरी बहुम् । दिगङ्गनाङ्गावरणं रणाङ्गणे यशःपटं तद्भटचातुरीतुरी ॥१२॥ सितांश्विति । [ महासिवेम्नः ] महान् असिरेव वेमा वायदण्डः । 'पुंसि वेमा वायदण्डः' इत्यमरः । तस्य । सहकृत्वरी=सहकारिणी । 'सहे च' इति करोतेः क्वनिप्प्रत्ययः । 'वनो र च' इति ङीप् रश्च । [ तद्भटचातुरीतुरी ] तस्य नलस्य, भटानां सैनिकानां, यद्वा स नल एव भटः वीरः, तस्य चातुरी चतुरता, नैपुण्यमिति यावत्, एव तुरी वयनसाधनं वस्तुविशेष इत्यर्थः । माकु इति प्रसिद्धा । [रणाङ्गणे] रण एव अङ्गनं चत्वरं तस्मिन् । सितांशुवर्णैः=शुक्लैरित्यर्थः । [ तद्गुणैः ] तस्य नलस्य गुणैः शौर्यादिभिः, तन्तुभिश्च । [ दिगङ्गनाङ्गाभरणं ] दिश एव अङ्गनाः, तासाम् अङ्गावरणम् अङ्गाच्छादनं । बहुं, [ यशःपटं ] यश एव पटः वसनं तं । वयति स्म = ततान । साङ्गरूपकमलङ्कारः । संग्रामे तथा नैपुण्यमनेन प्रकटितं यथा तेन सर्वा दिशो यशसा प्रपूरिता इति भावः ॥१२॥ नल के चन्द्रमा-तुल्य गुणों ( दया आदि गुण, तागा ) से, तलवार रूपी करघे के सहारे, उसके सैनिकों की चातुरी रूप तुरी ( ढरकी ) ने--रणाङ्गण में दिशा रूपी नायिकाओं के अङ्गों को ढँकने के लिए, बहुत लम्बी कीर्ति रूपी साड़ी बुनी ॥ १२ ॥ CC-0. Prof. Satya Vrat Shastri Collection.