भारतकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 25, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 25

सर्गः १ ] जीवातु-मदयन्तिकासहितम् । ९ Digitized by Sarayu Trust Foundation and eGangotri प्रतीपभूपैरिव किं ततो भिया विरुद्धधर्मैरपि भेत्तृतोज्झिता । अमित्रजिन्मित्रजिदोजसा स यद्विचारदृक् चारदृगप्यवर्त्तत ॥१३॥ प्रतीपेति । [प्रतीपभूपैः] प्रतीपाः प्रतिकूलाः भूपा राजानः तैः । विरुद्धधर्मैः = असमानाधिकरणधर्मैः । विपरीतवृत्तिभिरित्यर्थः । अपि, ततः = नलात्, भिया = भयेन, इव = हेतुना । भेत्तृता स्वाश्रयभेदकत्वं परोपजाप इत्यर्थः । उज्झिता = त्यक्ता किम् ? यत् = यस्मात्, स = नलः, ओजसा = तेजसा [अमित्रजित् ] अमित्रान् शत्रून् जयतीति तथोक्तः । [ मित्रजित् ] मित्रं सूर्य्यं जयतीति तथाभूतः । अत्र यः खलु अमित्रजित्, स कथं मित्रजिदिति विरोधाभासः, परिहारस्तु पूर्व्वमुक्तः [विचारदृक्] तथा विचारेण पश्यतीति विचारदृक् । [चारदृक्] चारैः गूढपुरुषैः पश्यतीति चारदृक् । 'राजानश्चारचक्षुषः' इति । 'चारैः पश्यन्ति राजानः' इति च नीतिशास्त्रम् । अत्रापि यो विचारदृक्, स कथं चारदृग् भवतीति विरोधाभासः, परिहारस्तु पूर्व्वमुक्तः । अवर्त्तत = आसीत् । अपिर्विरोधे । सूर्य्यतेजसं चारदृशञ्च नलं ज्ञात्वा शत्रवो भयात् परस्परोपजापादिवैरभावं तत्यजुरिति भावः । अत्र विरोधोत्प्रेक्षयोरङ्गाङ्गिभावः ॥१३॥ प्रतिकूल राजाओं के समान, उसके भय से विरोधी स्वभावों ने भी अपनी विरुद्धता छोड़ दी थी; क्योंकि वे तेज के द्वारा अमित्रजित् (वैरियों को जीतनेवाला) होकर भी मित्रजित् (१ मित्रों को जीतनेवाले २ सूर्य से बढ़कर प्रभावशाली) थे और चार-चक्षु (गुप्तचरों के द्वारा देखनेवाले) होकर भी विचार-चक्षु (१ बिना चारचक्षु के २ विचार शक्ति के द्वारा देखनेवाले) थे ॥१३॥ तदोजसस्तद्यशसः स्थिताविमौ वृथेति चित्ते कुरुते यदा यदा । तनोति भानोः परिवेषकैतवात्तदा विधिः कुण्डलनां विधोरपि ॥१४॥ तदिति । [तदोजसः] तस्य नलस्य ओजः तेजः प्रताप इत्यर्थः, तस्य तथा । [तद्यशसः ] तस्य नलस्य यशः तस्य, स्थितौ = सत्तायाम् । इमौ = भानु-विधू, वृथा = निरर्थकौ, इति चित्ते यदा यदा कुरुते = विवेचयतीत्यर्थः । विधिः । तदा तदा, [परिवेषकैतवात् ] परिवेषः परिधिः, 'परिवेषस्तु परिधिरुपसूर्यकमण्डले' इत्यमरः । एव कैतवं छलं तस्मात् । भानोः = सूर्य्यस्य, विधोरपि = चन्द्रस्य च, कुण्डलनां = अतिरिक्ततासूचकं वृत्तमित्यर्थः । तनोति = करोति ; अधिकाक्षरवर्जनार्थे लेखकादिवदिति भावः । विजितचन्द्रार्कौ अस्य कीर्त्तिप्रतापौ इति तात्पर्य्यम् । अत्र