नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 26, कुल 226 में से
संदर्भ में पढ़ें१०- नैषधचरितम् । [ प्रथमः प्रकृतस्य परिवेषस्य प्रतिषेधेन अप्रकृतस्य कुण्डलनस्य स्थापनाद् अपह्नुतिरलङ्कारः । तदुक्तं दर्पणे--'प्रकृतं प्रतिषिद्ध्यान्यस्थापनं स्यादपह्नुतिः' इति । प्राचीनास्तु-परि- वेषमिषेण सूर्याचन्द्रमसोः कुण्डलनोत्प्रेक्षणात् सापह्नवोत्प्रेक्षा, सा च गम्या व्यञ्जका- प्रयोगादित्याहुः ॥ १४ ॥ जब-जब ब्रह्माजी अपने मनमें यह सोचते हैं कि नल के प्रताप और यश के सामने ये—सूर्य तथा चन्द्र-वृथा हैं, तत्र-तत्र वे मण्डल के बहाने सूर्य-चन्द्र के चारों ओर शून्य ( गोल घेरा ) बना देते हैं ॥१४॥ अयं दरिद्रो भवितेति वैधसीं लिपिं ललाटेऽर्थिजनस्य जाग्रतीम् । मृषा न चक्रेऽल्पितकल्पपादपः प्रणीय दारिद्र्यदरिद्रतां नल. ॥१५॥ अस्य वदान्यतां द्वाभ्यां वर्णयति अयमिति । विभज्येति च । [अल्पितकल्प- पादपः ] अल्पितः अल्पीकृतः निर्जित इति यावत्, दानशौण्डत्वादिति भावः । कल्पपादपः कल्पतरुः, वाञ्छितफलप्रदवृक्ष इति यावत् , येन तथाभूतः, स नलः । [ दारिद्र्यदरिद्रतां ] दारिद्र्यस्य अभावस्य निर्धनत्वस्य इति यावत्, दरिद्र्ताम् अभावमिति यावत् । प्रणीय = कृत्वा, दरिद्रेभ्यः प्रभूतधनदानेन तेषां दारिद्र्यम् अपनीयेति भावः । अयं दरिद्रः अभाववानिति यावत्, भविता इति, अर्थिजनस्य = याचकजनस्य, ललाटे, जाग्रतीं = दीप्यमानामिति यावत् । [ वैधसीं ] वेधस इयं वैधसी तां, लिपिं, मृषा = मिथ्या, न चक्रे = न कृतवान् । विधातुलिपौ सामा- न्यतः दरिद्रशब्दस्य स्थितौ दरिद्रशब्दस्य यथायथं धनदरिद्रः पापदरिद्रः ज्ञानदरिद्र इत्यादिप्रयोगदर्शनाद् अभावमात्रबोधकत्वमङ्गीकृत्य राजा दरिद्राणां धनाभावरूपं दारिद्र्यमपाचकार इति निष्कर्षः ॥ १५ ॥ याचकों के ललाट पर लिखी हुई 'यह दरिद्र होगा' इस ब्रह्मा की लिपि को नल ने मिथ्या नहीं किया, उस में केवल इतना सुधार ( दान देकर ) कर दिया कि 'यह दारिद्र्य का दरिद्र होगा;' क्योंकि उन्होंने (अपने दान से) कल्पवृक्ष को भी छोटा बना दिया ॥ १५ ॥ विभज्य मेरुं न यदर्थिसात्कृतो न सिन्धुरुत्सर्गजलव्ययैर्मरुः । अमानि तन्नेन निजायशोयुगं द्विधाऽळबद्धाश्चिकुराः शिरःस्थितम् ॥१६॥ विभज्येति । मेरुः = हेमाद्रिः, विभज्य = विभक्तीकृत्य, अर्थिसात् = अर्थिभ्यो देयः, न कृतः । 'अर्थिने देयमिति' देये सात् इति सातिप्रत्ययः । सिन्धुः = समुद्रः