नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 217, कुल 226 में से
संदर्भ में पढ़ेंसर्गः ३ ] जीवातू-मदयन्तिकासहितम् २०१ है। दमयन्ती ने भी इसी प्रकार समान मात्रा में आस्वादन किया और उससे कुछ कुछ ही प्रभावित हुई। दूसरा अर्थ--दमयन्ती ने अतुल तृप्ति पाकर भी न असीम तृप्ति प्राप्त की, न सन्तप्त हुई और न मूर्च्छित ही हुई ] ॥१३०॥ तस्या दृशो वियति बन्धुमनुव्रजन्त्यास्तद्वाष्पवारि न चिरादवधिर्बभूव। पार्श्वेऽपि विप्रचकृषे तदनेन दृष्टेरारादपि व्यवदधे न तु चित्तवृत्तेः ॥१३१॥ तस्या इति । वियति = आकाशे, बन्धुमनुव्रजन्त्यास्तस्या दृशः = भैमी- दृष्टेः तद्वाष्पवारि = बन्धुजनविप्रयोगजन्यं तद्द्दग्जलं, न चिरात्=अ-चिरात् , अवधिर्बभूव । 'ओदकान्तं प्रियं पान्थमनुव्रजेत्' इति शास्त्रात्तद्दृक्सीमाभूदित्यर्थः । तत् तस्माद्वाष्पोद्गमादेव हेतोः, अनेन = हंसेन, दृष्टेः पार्श्वे=समीपेऽपि विप्र- चकृषे = विप्रकृष्टेनाभावि । वाष्पावरणात् समीपस्थोऽपि नालभ्यतेत्यर्थः । चित्त- वृत्तेस्तु, आरात्=दूरेऽपि न व्यवदधे = व्यवहितेन नाभावि । स्नेहबन्धनान्मनसो नापेत इत्यर्थः । उभयत्रापि भावे लिट् । समीपस्थस्य विप्रकृष्टत्वं, दूरस्थस्य सन्नि- कृष्टत्वं चेति विरोधाभासः ॥१३१॥ दमयन्ती के नेत्रों के आँसू-आकाश में उस हितकारी बन्धु (हंस) के पीछे जाते--शीघ्रही सीमित हो गये (अर्थात् अपने प्रिय को, बिदाई के समय, जलाशय तक पहुँचाना चाहिए, अतः दमयन्ती की दृष्टि-अपने नेत्र-जल तक ही आकाशगामी हंस के पास जाकर, लौट आयी। इसलिए (आँसू भर आने के कारण) दृष्टि के पास होते हुए भी, वह हंस दमयन्ती की दृष्टि से ओझल तो हो गया; पर दूर जाकर भी वह हंस, दमयन्ती की चित्तवृत्ति से ओझल (दूर) न हो सका ॥ १३१ ॥ अस्तित्वं कार्यसिद्धेः स्फुटमथ कथयन् पक्षयोः कम्पभेदै- राख्यातुं वृत्तमैतन्निषधनरपतौ सर्वमेकः प्रतस्थे। कान्तारे निर्गतासि प्रियसखि ! पदवी विस्मृता किन्तु मुग्धे ! मा रोदीरेहि यामेत्युपहृतवचसो निन्युरन्यां वयस्याः॥१३२॥ अस्तित्वमिति । अथ एकः = अनयोरेकतरो हंसः, पक्षयोः कम्पभेदैः= चेष्टाविशेषैः, कार्यसिद्धेरस्तित्वं सत्तां । अस्तीत्यव्ययं विद्यमानपर्यायं । तस्मात् त्वप्रत्ययः । स्फुटं कथयन् = व्यक्तं सूचयन्, वृत्तं = निष्पन्नमेतत्सर्वं । निषध- नरपतौ = नले विषये, आख्यातुं = तस्मै निवेदयिष्यामीत्यर्थः, प्रतस्थे । अन्याः=