नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 219, कुल 226 में से
संदर्भ में पढ़ेंसर्गः ३ ] जीवातु-दमयन्तिकारसहितम् २०३ परवति ! दमयन्ति ! त्वां न किञ्चिद्वदामि द्रुतमुपनम किं मामाह सा शंस हंस ! इति वदति नलेऽसौ तच्छशंसोपनम्रः प्रियमनु सुकृतां हि स्वस्पृहाया बिलम्बः ॥१३४॥ परवतीति । परवति ! = पराधीने ! दमयन्ति ! त्वां न किञ्चिद्वदामि = नोपालभे । किन्तु हे हंस ! द्रुतं = शीघ्रमुपनम = आगच्छ । सा = दमयन्ती मां किमाह, शंस = कथय इति नले वदति = भ्रान्त्या पुरोवर्तिनं इव सम्बोध्य आलपति सति । असौ = हंसः, उपनम्रः = पुरोगतः सन्, कार्यज्ञः शशंस = कथयामास। तथा हि, सुकृतां = साधुकारिणां, 'सुकर्मपापपुण्येषु कृञः' इति क्विप् । प्रियमनु = इष्टार्थं प्रति, स्वस्पृहायाः = स्वेच्छाया एव विलम्बः । न त्विच्छानन्तरं तत्सिद्धेर्विलम्ब इति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥१३४॥ हे पराये ( पिता के ) वश में रहने वाली दमयन्ती ! मैं तुमसे कुछ न कहूँगा ( कि तुम मेरे पास चली आओ ) । हे हंस ! तुम मेरे पास शीघ्र चले आओ और दमयन्ती ने मुझे जो सन्देश दिया हो, उसे बतला दो । नल के इस प्रकार कहने पर, उस हंस ने आकर, ( दमयन्ती के साथ जो बातचीत हुई थी सो ) सब वार्तालाप बता दिया; क्योंकि पुण्यात्मा जीवों को, अपने प्रिय ( अभीष्ट ) पदार्थ के सम्बन्ध में, अपनी इच्छा करने भर की देरी होती है ( उसकी कार्यसिद्धि में, अभीष्ट पदार्थ प्राप्ति में, विलम्ब नहीं होता ) ॥१३४॥ कथितमपि नरेन्द्रः शंसयामास हंसं किमिति किमिति पृच्छन् भाषितं स प्रियायाः । अधिगतमतिवेलानन्दमार्द्वीकमत्तः स्वयमपि शतकृत्वस्तत्तथान्वाचचक्षे ॥१३५॥ कथितमिति । स नरेन्द्रः = नलः, कथितमपि प्रियायाः = दमयन्त्याः, भाषितं = वचनं । किमिति किमिति पृच्छन् हंसं शंसयामास = पुनराख्यापया- मास । किं च, [अतिवेलानन्दमार्द्वीकमत्तः] अतिवेलो अतिमात्रो यः आनन्दः, स एव मार्द्वीकं मृद्वीकाविकारो द्राक्षामद्यं 'मृद्वीका गोस्तनी द्राक्षा' इत्यमरः । तेन मत्तः सन्, अधिगतं = सम्यक् गृहीतं तत् = उक्तं स्वयमपि शतकृत्वः = शतवारं ।