भारतकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 31, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 31

सर्गः १ ] जीवातु-मदयन्तिकासहितम् । १५ प्रतिपादनात् पदार्थहेतुकं काव्यलिङ्गमलङ्कारः । तदुक्तं दर्पणे-'हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गं निगद्यते' इति ॥ २३ ॥ उनका मुख-अपनी क्रीडा के लेशमात्र 'मन्द मुस्कराहट' से-चन्द्रमा को मात करता था; और अपने अवयव के एक भाग 'नेत्र' से कमलों की शोभा का तिरस्कार करता था। उन दोनों को जीतने की योग्यता किसी में नहीं थी (अर्थात् उनसे बढ़कर कुछ सुन्दर है ही नहीं) अतः जगत् में उनके मुख की उपमा कहाँ॥२३ सरोरुहं तस्य दृशैव तर्जितं जिताः स्मितेनैव विधोरपि श्रियः । कुतः परं भव्यमहो महीयसो तदाननस्योपमितौ दरिद्रता ॥२४॥ उक्तार्थं भङ्ग्यन्तरेणाह-सरोरुहमिति । तस्य = नलस्य, दृशैव = नयनेनैव, सरोरुहं = पद्मं तर्जितं = न्यक्कृतम् । स्मितेनैव = मन्दहासेनैव विधोः = चन्द्रस्य, श्रियः = कान्तयः, अपि जिताः=तिरस्कृताः । परम्=अन्यत् आभ्यामिति शेषः । भव्यं = रम्यं वस्तु कुतः ? = न कुत्राप्यस्तीत्यर्थः । अहो = आश्चर्य्य, [तदानन- स्योपमितौ ] तस्य नलस्य यत् आननं मुखं तस्य उपमितौ तोलने । महीयसी = अतिमहती, दरिद्रता = अभावः, अत्यन्ताभाव इत्यर्थः । सर्वथा निरुपममस्य मुख- मित्याश्चर्यम् । अत्र वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः ॥ २४ ॥ उनकी दृष्टि ने कमलों को जीत लिया और मन्द मुस्कराहट ने चन्द्रमा की कान्ति को जीत लिया । कमल और चन्द्रमा से बढ़कर कौन सी दूसरी वस्तु सुन्दर है ? उसके मुख की उपमा दिखाने में बड़ी दरिद्रता है। यही आश्चर्य की बात है ॥ स्वबालभारस्य तदुत्तमाङ्गजैः स्वयं चमर्यैव तुलाभिलाषिणः । अनागसे शंसति बालचापलं पुनः पुनः पुच्छविलोळनच्छलात् ॥२५॥ स्वबालेति । चमरी = मृगीविशेषः, [ तदुत्तमाङ्गजैः ] तस्य नलस्य, उत्त- माङ्गजैः शिरोरुहैः, समं सहैव । तुलाभिलाषिणः=सादृश्यकाङ्क्षिणः। स्वबालभारस्य = निजरोमनिचयस्य, अनागसे = अनपराध्याय । नीचस्य उत्तमैः सह साम्याभिग- मोऽपि महान् अपराध इति भावः । क्वचित्तदभावे नञ्समासो इष्यते । पुनः पुनः [ पुच्छविलोळनच्छलात् ] पुच्छस्य लाङ्गूलस्य, विलोलनं विचालनम्, एव छलं तस्मात् । बालचापलं = दोषं बालस्य, अथवा शिशुचापल्यं । शंसति = कथयति । बालचापल्यं सोढव्यमिति धियेति भावः । अत्र पुच्छविलोळनप्रतिषेधेन अन्यस्य बाल-