भारतकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 32, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 32

नैषधचरितम् । [ प्रथम चापलस्य स्थापनादपह्नुतिरलंकारः । तदुक्तं दर्पणे—‘प्रकृतं प्रतिषिध्यान्यस्थापनं स्यादपह्नुतिः’ इति ॥ २५ ॥ चमरी मृगी बार-बार अपनी पूँछ हिलाने के बहाने मानो यह जतलाती है कि उसके बाल नल के बालों के साथ जो समता चाहते हैं, उसका कारण उनका बाल-चापल्य है, इस सादृश्य में उनका कोई अपराध नहीं है ॥२५॥ महीभृतस्तस्य च मन्मथश्रिया निजस्य चित्तस्य च तं प्रतीच्छया । द्विधा नृपे तत्र जगत्त्रयीभुवां नतभ्रुवां मन्मथविभ्रमोऽभवत् ॥२६॥ महीभृत इति । तस्य महीभृतः = नलस्य, [ मन्मथश्रिया ] मन्मथस्येव श्रीः कान्तिः तया, च निजस्य चित्तस्य तं = नलं, प्रति इच्छया = रागेण च । तत्र, नृपे = नले जगत्त्रयीभुवां = त्रिभुवनवर्तिनीनां नतभ्रुवां = कामिनीनां, द्विधा = द्विप्रकारेण, मन्मथविभ्रमः । अयं मन्मथ इति विशिष्टा भ्रान्तिः कामा- वेशश्च, अभवत् । अत्र श्लेषसङ्कीर्णा यथासंख्यलङ्कारः ॥ २६ ॥ राजा नल में कामदेव का भ्रम होने से और अपने चित्त में नल के प्रति अत्यन्त आसक्ति होने से, तीनों लोकों की कामिनियों को उनके प्रति दोहरा काम- जन्य विभ्रम होता था ॥ २६ ॥ निमीलनभ्रंशजुषा दृशा भृशं निपाय तं यत्त्रिदशीभिरर्जितः । अमूस्तमभ्यासभरं विवृण्वते निमेषनिःस्वैरधुनाऽपि लोचनैः ॥२७॥ निमीलनेति । त्रिदशीभिः = सुराङ्गनाभिः, निमीलनभ्रंशजुषा = निमेष- निवृत्तिभाजा, निर्निमेषयेत्यर्थः । दृशा = नयनेन, तं = नलं, भृशम् = अतिमात्रं, निपीय = सतृष्णं दृष्ट्वेत्यर्थः । यः अभ्यासभरः अभ्यासातिशयः अर्जितः कृतः, अमूः=त्रिदिश्यः देव्यः, अधुनापि निमेषनिःस्वैः = निमेषशून्यैः, लोचनैः तम् अभ्यासभरं विवृण्वते = प्रकटयन्ति । तासां स्वाभाविकस्य निमेषाभावस्य तादृशनिरीक्षणाभ्यासवासनाय तद्धेतुकत्वमुत्प्रेक्ष्यते ॥ २७ ॥ देवाङ्गनाओं ने एकटक नजर से उनका पान कर के जो भारी अभ्यास कर लिया था, उसे ही वे निमेषशून्य नयनों से मानों आज भी प्रकट कर रही हैं ॥२७॥ अदस्तदाकर्णि फडाढ्ययोषित दृशोर्द्वयं नस्तदवीक्षि चाफलम् । इति स्म चक्षुःश्रवसां प्रिया नले स्तुवन्ति निन्दन्ति हृदा तदात्मनः ॥२८॥ अद इति । चक्षुःश्रवसां = नागानां, प्रियाः, पन्नग्य इत्यर्थः । अदः = इदं,