भारतकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 45, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 45

सर्गः १ ] जीवातु-मदयन्तिकासहितम् २९

  • Digitized by Sarayu Trust Foundation and eGangotri - कोकिलालापकोमलत्वेन उद्दीपकत्वातिशयाविवक्षयेत्यनुसन्धेयम् । मुमूर्च्छेत्यापि यत्तदु- भयम् । अनेन प्रकारेण निह्नोतुम् = आच्छादयितुं शशाक । 'अये' इति पाठे, विषादे इत्यर्थः । “अये क्रोधे विषादे च'इति विश्वः । एतेन ह्रीत्यागोन्मादमूर्च्छा- वस्थाः सूचिताः ॥५२॥ नल ने भ्रान्ति के कारण देखी गयी प्रियतमा दमयन्ती से राजदरबार में जो कहा उसे इस प्रकार छिपाने में समर्थ हुआ:--वीणा बजानेवालों द्वारा पञ्चम स्वर राग-रागिनी के साथ गाये गये आलाप से मुग्ध दरबारी न सुन सके ॥५२॥ अवाप सापत्रपतां सम्भूपतिर्जितेन्द्रियाणां धुरि कीर्तितस्थितिः । असंवरै शम्बरवैरिविक्रमे क्रमेण तत्र स्फुटतामुपेयुषि ॥५३॥ अवापेति । जितेन्द्रियाणां धुरि = अग्रे कीर्तितस्थितिः = ख्यातप्रतिष्ठः स भूपतिः = नलः तत्र = समाजे । न विद्यते संवरो यस्य तस्मिन् । असंवरै = संवर- णरहिते, संवरितुमशक्ये । 'गृधिवृषिनिश्रिगमश्च' इत्यप्रत्ययः । 'संवरणं संवरः शम- श्वेत्यपि ।' शम्बरवैरिविक्रमे = मनसिजविकारे क्रमेण स्फुटतामुपेयुषि = प्रकाशतां गते सति, सापत्रपतां = सलज्जताम् अवाप । धैर्यशालिनां तद्भङ्गस्त्रपाकर इति भावः ॥५३॥ जितेन्द्रिय-प्रवर लब्धप्रतिष्ठ नरपति नल राजसमाज में अपने कामविकार की बात को धीरे-धीरे प्रकट हुई जानकर, लज्जा के मारे गड़ गये ॥५३॥ अलं नलं रोद्धममी किलाभवन् गुणा विवेकप्रभवा न चापलम् । स्मरः स रत्यामनिरुद्धमेव यत्सृजत्ययं सर्गनिंसर्ग ईदृशः ॥५४॥ ननु विवेकिनः कुत इदं चापलम् इत्यत आह-अलमिति । [ विवेक- प्रभवाः ] युक्तायुक्तविचारो विवेकः, तत्प्रभवा अमी गुणा धैर्यादयः, नलमिदं स्त्रीलाभरूपं चापलं रोद्धम् । 'दुह-याच्'इत्यादिना रुधेर्द्विकर्मकत्वम् । अलं= समर्था नाभवन् किल=खलु । तथाहि-स स्मर =कामः, जनमिति शेषः । रत्यां= रागे, अनिरुद्धं सृजति=अनीश्वरमवशं करोति । रत्यां=रतिदेव्यां अनिरुद्धाख्यं= कुमारं सृजति इति ध्वनिः । इति यत् अयं सर्गनिंसगः=सृष्टिस्वभावः, ईदृशः । 'रतिः स्मरप्रियायां च रागेऽपि च', 'अनिरुद्धः कामपुत्रे चारे चानीश्वरेऽपि च'इति विश्वः । अत्र स्मररागतुर्वारतायाः सर्वसृष्टिसाधारण्येन चापलदुर्व्वारतासमर्थनात् सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥५४॥