नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 44, कुल 226 में से
संदर्भ में पढ़ें२८ नैषधचरितम् । [ प्रथमः तु=किन्तु, एकम्=अद्वितीयम्, अयाचितव्रतम्=अयाञ्चानियमं तु न त्यजन्ति । मानिनां प्राणत्यागदुःखद्दुःसहं याच्ञाया ःखमिति भावः । सामान्येन विशेष- समर्थनरूपोऽर्थान्तरन्यासः ॥ ५० ॥ अत्यन्त काम-सन्तप्त होने पर भी सहनशील नल ने विदर्भ-नरेश से उनकी पुत्री दमयन्ती को नहीं माँगा ; क्योंकि मनस्वी पुरुष प्राण तथा सुख—इन दो को भले छोड़ दें, पर एक 'याच्ञा न करने' का व्रत नहीं छोड़ते ॥ ५० ॥ मृषाविषादाभिनयादयं क्वचिज्जुगोप निःश्वासततिं वियोगजाम् । विलेपनस्याधिकचन्द्रभागताविभावनाचापललाप पाण्डुताम् ॥५१॥ मृषेति । अयं = नलो वियोगजां = दमयन्तीवियोगजन्यां, निःश्वासततिं = निःश्वासपरम्परां, क्वचित् = कुत्रचिद्वस्त्वन्तरे विषये [ मृषाविषादाभिनयात् ] मिथ्याभूतदुःखस्याभिनयात् छलेन जुगोप = संववार । प्रियाविरहसन्तापसम्भूतं दीर्घनिःश्वासम्, आरोपितमनःपीडाव्यक्तीकरणादाच्छादयामासेत्यर्थः । तथा पाण्डुतां = विशदतां शरीरपाण्डिमानं च, सन्ततकान्ताचिन्तासमुत्पन्नं वर्ष्मशौक्ल्यं विलेपनस्य [ अधिकचन्द्रभागताविभावनाच्च ] चन्दनाधिकः चन्द्रभागः कर्पूरांशो यस्मिन् विलेपने । 'घनसारश्चन्द्रसंज्ञः सिताभ्रो हिमवालुका' इत्यमरः । तस्य भावस्तत्ता यस्या विभावनादारोपणात् अपललाप = निह्नुते स्म ; शरीरवैवर्ण्यदृष्टृ- नपि चन्दने घनसाराधिक्यव्याजेन प्रतारयामासेत्यर्थः । अत्रापह्नवप्रभेदः ॥५१॥ किसी वस्तु के बारे में खेद का बहाना कर के, नल ने दमयन्ती विरहजन्य आहों की परम्परा छिपायी; और शरीर पीला होने का कारण यह कह कर छिपाया कि लेप किए जानेवाले चन्दन में कपूर की मात्रा अधिक हो गयी थी ॥५१॥ शशाक निह्नोतुमनैन तत्प्रियामयं बभाषे यदळीकवीक्षताम् । समाज एबालपितासु वैणिकैर्मुमुच्छ यत्पञ्चममूर्च्छनास्वपि ॥५२॥ शशाकेति । अयं = नलोऽलीकवीक्षितां = भ्रान्तिदृष्टां प्रियां = दमयन्तीं समाजे = सभायाम् एव यत् बभाषे = बभाण । [ वैणिकैः ] वीणा शिल्पमेषां तैर्वैणिकैः = वीणावादैः । 'शिल्पम्' इति ठञ् । आलपितासु = सूच्चरितासु, व्यक्तिं गतास्वित्यर्थः । 'रागव्यञ्जक आलाप' इति लक्षणात् [ पञ्चममूर्च्छनासु ] पञ्चमस्य पञ्चमाख्यस्य स्वरस्य, मूर्च्छनासु आरोहावरोहणेषु । 'क्रमात् स्वराणां सप्तानाम् आरोहिश्चावरोहिणं मूर्च्छनेत्युच्यते' इति लक्षणात् । पञ्चमग्रहणं तस्य