नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 49, कुल 226 में से
संदर्भ में पढ़ेंसर्गः १ ] ३३ अत्र मिषशब्देनांशूनामसत्यत्वमापाद्य हासत्वोत्प्रेक्षणात् सापह्नवोत्प्रेक्षेयं गम्या च व्यञ्जकाप्रयोगात् । 'रदना दशना दन्ता रदाः' इत्यमरः ॥ ६१॥ वह घोड़ा-महारथी, चक्रवर्ती नल को-मार्ग में, बिना किसी दूसरे घोड़े की सहायता के--ले जाने के यश से सफेद था; और अपने दाँतों की निर्मल चमक के बहाने, मानों सूर्य के घोड़ों के आन्तरिक बल का उपहास करता था ॥६१॥ सितत्विषश्चञ्चलतामुपेयुषो मिषेण पुच्छस्य च केसरस्य च । स्फुटं चलच्चामरयुग्मचिह्नकैरनिह्नुवानं निजवाजिराजताम् ॥ ६२॥ सितत्विष इति । पुनः कथम्भूतं ? सितत्विषः = विशदप्रभस्य, चञ्चलता- मुपेयुषः = चञ्चलस्येत्यर्थः । पुच्छस्य = लाङ्गूलस्य, केसरस्य = सटासमूहस्य च मिषेण = च्छलेन [चलच्चामरयुग्मचिह्नकः] चलत्श्चामरयुग्मस्य, चिह्नकैः लक्षणैः । स्फुटां = प्रसिद्धां, [ निजवाजिराजताम् ] निजां, वाजिराजताम् = अश्वेश्वरत्वम्, अनिह्नुवानं = प्रकाशयन्तमिव । अराजः कथं चामरयुग्ममिति भावः । पूर्ववद- लङ्कारः ॥ ६२ ॥ सफेद चमकवाली चञ्चल पूँछ और गर्दन पर के सफेद चञ्चल बाल के बहाने- राजचिह्नरूपी दो चँवरों से मानों वह अपने को 'अश्वराज' प्रकट कर रहा था ॥६२॥ अपि द्विजिह्वाभ्यवहारपौरुषे मुखानुषक्तायतवल्गुवल्गया । उपेयिवांसं प्रतिमल्लतां रयस्मये जितस्य प्रसभं गरुत्मतः ॥६३॥ अपीति । पुनः कथम्भूतं स्थितं ? रयस्मये = वेगप्रयुक्ताहङ्कारे, प्रसभं = प्रसह्य, जितस्य = प्रागेव निर्जितस्य, गरुत्मतः, [मुखानुषक्तायतवल्गुवल्गया] मुखानुषक्ता वक्त्रलग्ना, आयता दीर्घा, वल्गू रम्या च या वल्गा मुखरज्जुः तया, तन्मिषेणेत्यर्थः । [ द्विजिह्वाभ्यवहारपौरुषे ] द्विजिह्वानाम् अहीनाम्, अभ्यवहारे आहारे यत् पौरुषे सर्पभक्षणपुरुषकारेऽपि, प्रतिमल्लतां = प्रतिद्वन्द्विताम्, उपेयि- वांसं = प्राप्तम् इवेत्यर्थः । तथा च गम्योत्प्रेक्षेयं 'उपेयिवाननाश्वाननूचानश्च' इति क्वसुप्रत्ययान्तो निपातः ॥६३॥ अपनी चाल की गर्व में, बलात् जीते गये गरुड के सर्पों के खाने के पौरुष में, वह घोड़ा-मुँह में लगी हुई सुन्दर और लम्बी लगाम (रूपी सर्प) से-गरुड की प्रतिद्वन्द्विता करता था ॥६३॥