नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 48, कुल 226 में से
संदर्भ में पढ़ें३२ नैषधचरितम्। [ प्रथम करते थे जो ऐसा मालूम पड़ता था कि मानों उससे द्रुतगति सीखने के लिए आए हुए अणुपरिमाण रूप में लोगों के चित्त हों ॥ ५६ ॥ चलाचलप्रोथतया महाभृते स्ववेगदर्पानिव वक्तुमुत्सुकम् । अलं गिरा वेद किलायमाशयं स्वयं हयस्येति च मौनमास्थितम् ॥६०॥ चलाचलेति । पुनः, चलाचलप्रोथतया = स्वभावतः स्फुरमाणघोणतया 'चरिचलिपतिवदीनामुपसंख्यानम्' इत्यनेन चलेर्द्विर्वचनं दीर्घश्च । 'घोणा तु प्रोथम- स्त्रियाम्' इत्यमरः । महाभृते=नलाय, स्ववेगदर्पान् = वेगातिरेकान् वक्तुमुत्सुकम् = उद्युक्तम्, इव इत्युत्प्रेक्षा ! अथावचने हेतुमुत्प्रेक्षते-अलमिति । गिरा=उक्त्या, अलं कुतः ? अयं = नलः, स्वयं हयस्य = अश्वस्य आशयम् = अभिप्रायं वेद = वेत्ति, किल । 'विदो लटो वा' इतिणलादेशः । इति हेतोरित्येतदनुषङ्गः । मौनं = तूष्णीम्भावं च, आस्थितं = प्राप्तम् । 'अश्वहृदयवेदी नल' इति प्रसिद्धिः ॥६०॥ चलने के समय अपने नथुनों को फुलाता हुआ वह घोड़ा ऐसा मालूम होता था मानों अपने वेग के बारे में दर्पभरी बात कहने को उत्सुक हो; पर वाणी से क्या कहें ? क्योंकि नल स्वयं घोड़े के अभिप्राय को जानते हैं—इस लिए मौन धारण कर लिया ॥ ६० ॥ महारथस्याध्वनि चक्रवर्तिनः परानपेक्षोद्वहनाद्यशःसितम् । रदावदातांशुमिषादनीदृशां हसन्तमन्तर्बलमवतां रवेः ॥६१॥ महारथस्येति । महान् रथो यस्य तस्य महारथस्य । 'आत्मानं सारथिञ्चाश्वं रक्षन् युद्ध्येत यो नरः । स महारथसंज्ञः स्यादित्याहुर्नीतिकोविदाः ।' इत्युक्तलक्षणस्य रथिकविशेषस्येत्यर्थः । अन्यत्र, महारथो नलस्तस्य महारथस्य । [चक्रवर्तिनः] चक्रं राष्ट्रं वर्त्तयतीति चक्रवर्त्ती सार्वभौमः, तस्य नलस्य । 'हरिश्चन्द्रो नलो राजा पुरुः कुत्सः पुरूरवाः । सगरः कार्त्तवीर्य्यश्च षडेते चक्रवर्त्तिनः' इत्यागमात् । अन्यत्र, चक्रेणैकेन वर्त्तनशीलस्येत्यर्थः । अध्वनि=मार्गे, [परानपेक्षोद्वहनाद् यशःसितम् ] नापेक्षित इत्यनपेक्षं । 'पचाद्यच्' । परेषामनपेक्षं, तस्मादुद्वहनादसहायोद्वहनाद्धेतोः, यशःसितं कीर्त्तिविशदं, अत एव अनीदृशाम् = ईदृग्यशोरहितानाम् । 'सप्त युञ्जन्ति रथमेकचक्रम्' इति समानां सम्भूयोद्वहनश्रवणादिति भावः । रवेः=सूर्यस्य, अवताम् = अश्वानाम्, अन्तर्बलम् = अन्तःसारं, [रदावदातांशुमिषात्] रदानां दन्तानां, ये अवदाताः सिताह०तांशुभिषेण, हसन्तं = हसन्तमिव स्थितमित्यर्थः ।