नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 51, कुल 226 में से
संदर्भ में पढ़ेंसर्गः १ ] नैषधमहाकाव्यम् ३५ भलङ्कृत्य चलन्=स्वयं हयस्य भूषणीभूय गच्छन्नित्यर्थः । [ प्रमोदनिष्पन्दत- राक्षिपक्ष्मभिः ] प्रमोदेन निष्पन्दतराणि अत्यन्तनिश्चलानि, अक्षिपक्ष्माणि येषां तैः= अनिमेषदृष्टिभिरित्यर्थः । नगरालयैः = नगरनिवासिभिरित्यर्थः । लोकैः = जनैः व्यलोकि = विस्मयहर्षाभ्यां विलोकित इत्यर्थः । वृत्यनुप्रासोऽलङ्कारः ॥ ६६॥ घुड़सवारी के वेश से मनोहर और हवा से बात करनेवाले घोड़े पर जाते हुए नल को—नागरिक जनता हर्ष के कारण निर्निमेष दृष्टि से देख रही थी ॥६६॥ क्षणादथैष क्षणदापतिप्रभः प्रभञ्जनाध्येयजवेन वाजिना । सहैव ताभिर्जनदृष्टिवृष्टिभिर्बहिः पुरोऽभूत् पुरुहूतपौरुषः ॥६७॥ क्षणादिति । अथ = अनन्तरं क्षणदापतिप्रभः = चन्द्रद्युतितुल्यस्तथा पुरु- हूतपौरुषः = इन्द्रस्येव पौरुषं कर्म तेजो वा यस्य तादृश एष = नलः । [ प्रभञ्ज- नाध्येयजवेन ] प्रभञ्जनेन वायुना, अध्येयः शिक्षणीयः, जवो वेगो यस्य तथाविधेन, ततोऽप्यधिकवेगेनेत्यर्थः । वाजिना = अश्वेन, क्षणात् ताभिः = पूर्वोक्ताभिः, [जन- दृष्टिवृष्टिभिः ] जनानां दृष्टिवृष्टिभिः दृक्पातैः सह, जनैर्दृश्यमान एव इत्यर्थः । बहिःपुरः = पुराद्वहिः, बहिःस्थित अभूत् । बहिर्योगे पञ्चमी । पूर्वे पुरे दृष्टः, क्षणादेव पुराद्बहिर्दृष्ट इति वेगातिशयोक्तिः ॥ ६७ ॥ फिर निशानायक चन्द्र के समान कान्तिवाले और इन्द्र के समान पराक्रम- शाली नल—पवन भी जिस की तीव्रगति से शिक्षा ले सकता था ऐसी तेज चाल- वाले—घोड़े पर सवार होकर, मिनटों में लोगों की नज़र पड़ते-पड़ते, नगर के बाहर निकल गये ॥ ६७ ॥ ततः प्रतीक्ष प्रहरेति भाषिणी परस्परोल्लासितशल्यपल्लवे । मृषामृधं सादिबले कुतूहलान्नलस्य नासीरगते वितेनतुः ॥६८॥ तत इति । ततः = पुराद्बहिर्गमनानन्तरं, प्रतीच्छ = गृहाण, प्रहर = जहि इति भाषिणी = भाषमाण इत्यर्थः । [ परस्परोल्लासितशल्यपल्लवे ] परस्पर- मन्योन्योपरि, उल्लसितानि प्रसारितानि, शल्यपल्लवानि तोमराग्राणि याभ्यां ते तथोक्ते । 'शल्यं तोमरम्' इति अमरः । नलस्य नासीरगते = नासिकाग्रवर्तिनि । 'सेना- मुखं तु नासीरम्'इत्यमरः । सादिबले=तुरङ्गसैन्ये, कुतूहलात् ,मृषामृध=मिथ्या- युद्धं, युद्धनाटकमित्यर्थः वितेनतुः = चक्रतुः । 'मृधमाहवं समानीकं' इत्यमरः ॥६८॥ वहाँ पहुँच कर 'लो मारो, मेरी भी मार सहो'—ऐसा कह कर उस सेना ने