भारतकोश
संग्रह पर लौटें

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

सर्गः १ ] नैषधमहाकाव्यम् ३५ भलङ्कृत्य चलन्=स्वयं हयस्य भूषणीभूय गच्छन्नित्यर्थः । [ प्रमोदनिष्पन्दत- राक्षिपक्ष्मभिः ] प्रमोदेन निष्पन्दतराणि अत्यन्तनिश्चलानि, अक्षिपक्ष्माणि येषां तैः= अनिमेषदृष्टिभिरित्यर्थः । नगरालयैः = नगरनिवासिभिरित्यर्थः । लोकैः = जनैः व्यलोकि = विस्मयहर्षाभ्यां विलोकित इत्यर्थः । वृत्यनुप्रासोऽलङ्कारः ॥ ६६॥ घुड़सवारी के वेश से मनोहर और हवा से बात करनेवाले घोड़े पर जाते हुए नल को—नागरिक जनता हर्ष के कारण निर्निमेष दृष्टि से देख रही थी ॥६६॥ क्षणादथैष क्षणदापतिप्रभः प्रभञ्जनाध्येयजवेन वाजिना । सहैव ताभिर्जनदृष्टिवृष्टिभिर्बहिः पुरोऽभूत् पुरुहूतपौरुषः ॥६७॥ क्षणादिति । अथ = अनन्तरं क्षणदापतिप्रभः = चन्द्रद्युतितुल्यस्तथा पुरु- हूतपौरुषः = इन्द्रस्येव पौरुषं कर्म तेजो वा यस्य तादृश एष = नलः । [ प्रभञ्ज- नाध्येयजवेन ] प्रभञ्जनेन वायुना, अध्येयः शिक्षणीयः, जवो वेगो यस्य तथाविधेन, ततोऽप्यधिकवेगेनेत्यर्थः । वाजिना = अश्वेन, क्षणात् ताभिः = पूर्वोक्ताभिः, [जन- दृष्टिवृष्टिभिः ] जनानां दृष्टिवृष्टिभिः दृक्पातैः सह, जनैर्दृश्यमान एव इत्यर्थः । बहिःपुरः = पुराद्वहिः, बहिःस्थित अभूत् । बहिर्योगे पञ्चमी । पूर्वे पुरे दृष्टः, क्षणादेव पुराद्बहिर्दृष्ट इति वेगातिशयोक्तिः ॥ ६७ ॥ फिर निशानायक चन्द्र के समान कान्तिवाले और इन्द्र के समान पराक्रम- शाली नल—पवन भी जिस की तीव्रगति से शिक्षा ले सकता था ऐसी तेज चाल- वाले—घोड़े पर सवार होकर, मिनटों में लोगों की नज़र पड़ते-पड़ते, नगर के बाहर निकल गये ॥ ६७ ॥ ततः प्रतीक्ष प्रहरेति भाषिणी परस्परोल्लासितशल्यपल्लवे । मृषामृधं सादिबले कुतूहलान्नलस्य नासीरगते वितेनतुः ॥६८॥ तत इति । ततः = पुराद्बहिर्गमनानन्तरं, प्रतीच्छ = गृहाण, प्रहर = जहि इति भाषिणी = भाषमाण इत्यर्थः । [ परस्परोल्लासितशल्यपल्लवे ] परस्पर- मन्योन्योपरि, उल्लसितानि प्रसारितानि, शल्यपल्लवानि तोमराग्राणि याभ्यां ते तथोक्ते । 'शल्यं तोमरम्' इति अमरः । नलस्य नासीरगते = नासिकाग्रवर्तिनि । 'सेना- मुखं तु नासीरम्'इत्यमरः । सादिबले=तुरङ्गसैन्ये, कुतूहलात् ,मृषामृध=मिथ्या- युद्धं, युद्धनाटकमित्यर्थः वितेनतुः = चक्रतुः । 'मृधमाहवं समानीकं' इत्यमरः ॥६८॥ वहाँ पहुँच कर 'लो मारो, मेरी भी मार सहो'—ऐसा कह कर उस सेना ने

३६ नैषधचरितम् । [ प्रथमः Digitized by Sarayu Trust Foundation and eGangotri एक दूसरे पर भाले की नोक चलायी ; इस प्रकार नल की सेना के अगले मोर्चे पर स्थित घुड़सवारों की दो टुकड़ियों ने-कुतूहल से नकली लड़ाई का अभ्यास किया ॥ प्रयातुमस्माकमियं कियत्पदं धरा तदम्भोधिरपि स्थलायताम् । इतीव बाहैर्निजवेगदर्पितैः पयोधिरोधक्षममुत्थितं रजः ॥६९॥ प्रयातुमिति । इयं धरा = भूः, समुद्रातिरिक्तेति भावः । अस्माकं प्रयातुं = प्रस्थातुं कियत्पदं = गन्तव्यं स्थानं न किञ्चित् पर्याप्तमित्यर्थः । [ तदम्भोधि- रपि ] तस्माद् समुद्रोऽपि स्थलायतां = स्थलवदाचरतु, भूरेव भवत्वित्यर्थः । 'कर्तुः क्यङ् सलोपश्च' इति क्यङ् प्रत्ययः । इतीव = इति मत्वेत्यर्थः । इतिनैव गम्यमानार्थ- त्वादप्रयोगः, अन्यथा पौनरुक्त्यात् । क्रियानिमित्तोत्प्रेक्षा । [ निजवेगदर्पितैः ] निजवेगेन दर्पितैः सञ्जातदर्पः, बाहैः = नलाश्वैः पयोधिरोधक्षमं = समुद्रच्छादन- पर्याप्तं, रज उत्थितम् = उत्थापितं, तथा सान्द्रमिति भावः ॥ ६६ ॥ 'हमारे चलने पर, यह पृथ्वी रह ही कितनी कदम जायगी--इस लिए समुद्र भी स्थल हो जाय।' ऐसा विचारकर, अपने वेग पर गर्व करनेवाले घोड़ों ने, मानों समुद्र को पाटने के लिए पर्याप्त, धूलि उड़ायी ॥ ६६ ॥ हरेर्यदक्रामि पदैककेन खं पदैश्चतुर्भिः क्रमणेऽपि तस्य नः । त्रपा हरीणामिति नम्रिताननैर्न्यवर्ति तैरर्धनभःकृतक्रमैः ॥७०॥ हरेरिति । यत् खम् = आकाशं हरेः = विष्णोः, एककेन = एकाकिना 'एकादाकिनिच्चासहाये' इति चकारात् कन्प्रत्ययः । पदा = पादेन । 'पदङ्घ्रि- श्चरणोऽस्त्रियाम्' इत्यमरः । 'पद्दन्' इत्यादिना पदादेशः । अक्रामि = अलङ्घि, तस्य = खस्य चतुर्भिः पदैः क्रमणे = लङ्घने, कृते सत्यपीति शेषः । हरीणां = वाजिनां, विष्णूनां चेति गम्यते । 'यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु । शुका- हिकपिभेकेषु हरिर्ना कपिले त्रिषु' इत्यमरः । उभयत्रापि नः = अस्माकं त्रपा इति वा इत्यर्थः । गम्यार्थत्वादिवशब्दस्याप्रयोगः । अत एव गम्योत्प्रेक्षा । [नम्रिताननैः] नम्रीकृतानिः, निम्रीकृतानि आननानि यै स्तैः=हरिभिः । [अर्धनभःकृतक्रमैः] अर्धे नभसि कृतक्रमैः कृतलङ्घनैः सद्भिः न्यवर्त्ति = निवर्त्तितम्, भावे लुङ् । यदन्येन पुंसा लघूपायेन साधितं तस्य गुरूपायेन करणं समानस्य लाघवाय भवेदिति भावः । एतेन प्लुतगतिरुक्ता, तत्र गगनलङ्घनस्य सम्भवादिति भावः ॥७०॥ CC-0. Prof. Satya Vrat Shastri Collection जिस आकाश को विष्णु ने (वामनावतार में) एक पग से आक्रान्त किया

सर्गः १ ] जीवातू-मदयन्तिकासहितम् । ३७ था, उसी (आकाश) को हम चार पैरों से आक्रान्त करेंगे—ऐसा सोचकर, घोड़े नीचा मुँह कर, आकाश में आधी दूर जाकर, रुक गये ॥७०॥ चमूचरास्तस्य नृपस्य सादिनो जिनोक्तिषु श्राद्धतयेव सैन्धवाः । विहारदेशं तमवाप्य मण्डलीमकारयन् भूरि तुरङ्गमानपि ॥७१॥ चमूचरा इति । तस्य नृपस्य, चमूचराः=सेनाचराः । 'चरेष्टन्' । सिन्धु- देशभवाः सैन्धवाः = अश्वाः । 'हयसैन्धवसप्तयः' इत्यमरः । 'तत्र भवः' इत्यण्- प्रत्ययः । तत्सम्बन्धिनोऽपि सैन्धवाः 'तस्येदम्' इत्यण् । ते सादिनः = अश्वसादिन इत्यर्थः । जिनोक्तिषु श्राद्धतया इव = जैनदर्शनश्रद्धालुतयैवेत्युत्प्रेक्षा । 'श्रद्धा- चाँवृत्तिभ्योऽणः'इतिमत्वर्थीयोऽणप्रत्ययः । तं विहारदेश = सञ्चारभूमि, सुगाताल- यञ्च । 'विहारो भ्रमणे स्कन्धे लीलायां सुगतालये'इति विश्वः । अवाप्य तुरङ्गमान् भूरि = बहुलं मण्डलीमपि = मण्डलाकारं च, अकारयन् । अपिशब्दोऽवाप्ति- समुच्चयार्थः । अन्यत्र मण्डलीं मण्डलासनमित्यर्थः । बौद्धाः स्वकर्मानुष्ठाने प्रायेण मण्डलानि कुर्वन्ति इति प्रसिद्धिः ॥७१॥ उस राजा के सिन्धुदेशीय घोड़ों के सवार सैनिकों ने—जिस प्रकार बुद्ध के उपदेश पर श्रद्धा करनेवाले अपने विहार (बौद्धमठ) में आकर, मण्डलाकार खड़े हो जाते हैं—उसी प्रकार विहार (विहारभूमि) में पहुँचकर, घोड़ों को मण्डला- कार खड़ा कराया ॥७१॥ द्विषद्विरेवास्य विलङ्घिता दिशो यशोभिरेवान्धिरकारि गोष्पदम् । इतीव धारामवधीर्य मण्डलीक्रियाश्रियामण्डि तुरङ्गमैः स्थली ॥७२॥ द्विषद्विरिति । अस्य = नलस्य द्विषद्विरेव, पलायमानैरिति भावः । दिशो विलङ्घिताः, अस्य यशोभिरेवान्धिः । गोः पदं गोष्पदमकारि = गोष्पदमात्रः कृतः । 'गोष्पदं सेवितासेवितप्रमाणार्थे'इति सुडागमषत्वयोर्निपातः । इतीव = इति मत्वा इवेत्युत्प्रेक्षा; अन्यसाधारणं कर्म नोत्कर्षाय भवेदिति भावः । तुरङ्गमैः धारां= गतिं । जातावेकवचनं; पञ्चापि धारा इत्यर्थः । 'आस्कन्दितं धौरितकं रेचितं वल्गितं प्लुतम् । गतयोऽमूः पञ्च धाराः'इत्यमरः । अवधीर्य = अनादृत्य मण्डली- क्रियाश्रिया = मण्डलीकरणलक्ष्म्या, मण्डलगत्यैवेत्यर्थः । स्थली = कृत्रिमा भूः । 'जानपद'इत्यादिना कृत्रिमार्थे ङीप् । अमण्डि = अभूषि । मडि भूषणायमिति धातोर्ण्यन्तात् कर्मणि लुङ्-०, इदित्त्वान्नुमागमः ॥७२॥

३८ नैषधचरितम् । [ प्रथमः इनके शत्रुओं ने माँगकर, दिशाओं का उल्लङ्घन किया है, इनके यश ने सागर को गौ के खुर के समान (गड़ही) बना दिया है-ऐसा विचारकर, घोड़ों ने अपनी (टेढ़ी-मेढ़ी) चाल छोड़कर, उस स्थल को मण्डलाकार खड़े होकर, अलंकृत किया ॥ अचीकरच्चारुहयेन या भ्रमीर्निजातपत्रस्य तलस्थले नलः । मरुत् किमद्यापि न तासु शिक्षते वितत्य वात्यामयचक्रचंक्रमान् ॥७३॥ अचीकरदिति । नलः [ चारुहयेन ] चारु यथा भवति तथा हयेन प्रयो- ज्येन कर्त्रा । निजातपत्रस्य, तलस्थले = अधःप्रदेशे । 'अधः स्वरूपयोरस्त्री तलम्' इत्यमरः । याः भ्रमीः = मण्डलगतीः अचीकरत् = कारितवान् ; करोतेर्णौ चङ् । तासु = भ्रमीषु विषये मरुन् अद्यापि । [ वात्यामयचङ्क्रमान् ] वातानां समूहो वात्याः, वातादिभ्यो यः । अत्र तन्मयो लक्ष्यन्ते । तन्मयान् तद्रूपान्, चक्र- चंक्रमान् मण्डलगतीः, वितत्य = विस्तीर्य न शिक्षते किं ? = नाभ्यस्यते किमित्यु- त्प्रेक्षा । शिक्षितश्चेत् तथा सोऽपि गतिं कुर्यादित्यर्थः । वायोरप्यसम्भाविता गतीरची- करदिति भावः ॥७३॥ नल ने अपने राजछत्र के नीचे सुन्दर घोड़े द्वारा जो मण्डल गति करायी, उसको पवन अब भी आँधीके रूपमें गोल-गोल घूमकर क्या नहीं सीख रहा है ? ॥ विवेश गत्वा स विलासकाननं ततः क्षणात् क्षोणिपतिर्धृतीच्छया । प्रवालरागच्छुरितं सुषुप्सया हरिर्घनच्छायमिवाम्भसां निधिम् ॥७४॥ विवेशेति । ततः स क्षोणीपतिः क्षणाद्गत्वा धृतीच्छया = सन्तोष- काङ्क्षया । [ प्रवालरागच्छुरितं ] प्रवालाः पल्लवाः; अन्यत्र विद्रुमाः । 'प्रवालो वल्लकीदण्डे विद्रुमे नवपल्लवे' इत्यमरः । तेषां रागेणारुण्येन, छुरितं रूपितं । घनच्छायं = सान्द्रानातपम्, अन्यत्र मेघकान्तिम् । 'छाया त्वनातपे कान्तौ'इति विश्वः । विलासकाननं = क्रीडावनम्; अन्यत्र वबयोरभेदात्, बिलासकानां बिलेश- यानां सर्पाणाम् , आननं प्राणनं । सुषुप्सया = स्वप्तुमिच्छया, हरिः = विष्णुः, अम्भसां निधिम् = अब्धिम्, विवेश ॥७४॥ जिस तरह विष्णु--मूँगे के रङ्ग से व्याप्त और मेघ की कान्तिवाले सागर में सर्पराज की पीठ पर शयन की अभिलाषा से जाते हैं,उसी तरह राजा नल सन्ताप दूर करने के लिए लाल-लाल पल्लवों की कोरों से रञ्जित और घनी छायावाले विलास-कानन में क्षणमात्र में जाकर पहुँचे ॥७४॥

सर्गः १ ] जीवातु-मदयन्तिकासहितम् । ३९ वनान्तपर्यन्तमुपैत्य सस्पृहं क्रमेण तस्मिन्नवतीर्णदृक्पथे । न्यवर्त्ति दृष्टिप्रकरैः पुरौकसामनुव्रजद्वन्धुसमाजबन्धुभिः ॥७५॥ वनान्तेति । अनुव्रजद्वन्धुसमाजबन्धुभिः = स्नेहादनुगच्छद्बन्धुसङ्घसदृशैरित्यर्थः । अत एवोपमालङ्कारः । पुरौकसां = नगरनिवासिनां दृष्टिप्रकरैः = दृष्टिसमूहैः कर्तृभिः । वनान्तपर्यन्तं = काननोपान्तसीमाम्; उदकप्रान्तपर्यन्तञ्चेति गम्यते । 'वने सलिलकानने' इत्यमरः । सस्पृहं = साभिलाषं यथा तथा उपेत्य = गत्वा; क्रमेण तस्मिन् = नले अवतीर्णदृक्पथे = अतिक्रान्तदृष्टिविषये सति । न्यवर्त्ति = निवृत्तं । भावे लुङ् । यथा बन्धुभिः 'उदकात् प्रियं पान्थमनुव्रजेत्' इत्यागमात् प्रवसन्त- मनुव्रज्य निवर्त्त्यते तद्वदित्यर्थः ॥७५॥ तब पीछे पीछे जानेवाले आत्मीयजनों के तुल्य नगर-निवासियों की आँखें— प्रेमपूर्वक वन की छोर तक जाकर, नल के नजरों से ओझल होने पर—क्रमशः लौटीं ॥ ७५ ॥ ततः प्रसूने च फले च मञ्जुले स सम्मुखीनाङ्गुलिना जनाधिपः । निवेद्यमानं वनपालपाणिना व्यलोकयत् काननरामणीयकम् ॥७६॥ तत इति । ततः = वनप्रवेशानन्तरं, स जनाधिपः = नलः, मञ्जुले = मनोज्ञे प्रसूने = कुसुमे च फले च विषये, [सम्मुखीनाङ्गुलिना] सम्मुखीना सन्दर्शिनी, सम्मुखावस्थितवस्तुप्रकाशिकेति यावत् । 'यथामुखसम्मुखस्य दर्शनः खः'इति खप्रत्य- यान्तो निपातः । तादृशी अङ्गुली यस्य तेन । वनपालपाणिना निवेद्यमानम् ; इदमिदमित्यङ्गुल्या पुष्पफलादिनिर्देशेन प्रदर्श्यमानमित्यर्थः । काननरामणीयकं = वनसौन्दर्यम् । 'योपधाद्गुरूपोत्तमद्वुञ्' इति वुञ्प्रत्ययः । व्यलोकयत् =अपश्यदिति स्वभावोक्तिः ॥७६॥ फिर नल ने सुन्दर फूलों और फलों से लदे हुए उपवन की शोभा देखी—जिसे माली ने सामने अंगुलि करके दिखाया ॥७६॥ फलानि पुष्पाणि च पल्लवे करे वयोऽतिपातोद्गतवातवेपिते । स्थितैः समाधाय महर्षिवाङ्मुखाद्वने तदातिथ्यमशिक्षि शाखिभिः॥७७॥ फलानीति । [ वयोऽतिपातोद्गतवातवेपिते ] वयोऽतिपातेन पक्षिपातेन, बाल्याद्यपगमेन च, उद्गतेन उत्थितेन, वातेन वायुना वातदोषेण च, वेपिते कम्पिते । 'खगबाल्यादिनोर्वयः' इत्यमरः । पल्लवे एव करे इति समस्तं रूपकं । फलानि

४० नैषधचरितम्। [ प्रथमः Digitized by Sarayu Trust Foundation and eGangotri पुष्पाणि च समाधाय = निधाय स्थितैः = तिष्ठद्भिः वने शाखाभिः = वृक्षैः, वेदशाखाध्यायिभिश्च । ‘शाखाभेदे द्रुमे शाखा वेदेऽपि’ इति वैजयन्ती । तदातिथ्यं = तस्य नलस्यातिथ्यम् अतिथ्यर्थं कर्म । ‘अतिथेर्यः’ इति ण्यप्रत्ययः । [ महर्षि- वार्द्धकात् ] महर्षीणां वार्धकाद्वृद्धसमूहात्, तत्रत्यवृद्धमहर्षिसङ्घादित्यर्थः । शिवभाग- वतवत्समासः । ‘वृद्धसङ्घे तु वार्द्धकम्’ इत्यमरः । ‘वृद्धाच्चेति वक्तव्यम्’ इति समूहार्थे वुञ् प्रत्ययः । अशिक्षि=शिक्षितमभ्यस्तम्; अन्यथा कथमिदमाचरितमिति भावः । कर्मणि लुङ् । उत्प्रेक्षेयं, सा च व्यञ्जकप्रयोगाद्गम्या । पूर्वोक्तरूपकश्लेषाभ्यामुत्थापिता चेति सङ्करः ॥७७॥ वन में स्थित वृक्षों ने-(वन में स्थित) महर्षि-वृद्धों से, पक्षियों के उड़ने से उत्पन्न हुई वायु से हिले हुए (अवस्था ढलने के कारण वातरोग से काँपते हुए), पल्लव रूपी हाथ (पल्लव के समान दृढ हाथ) में फल और फूल रख कर, मानों उस नल का अतिथि सत्कार करना सीखा ॥७७॥ विनिद्रपत्रावलिगतालिकैतवान्मृगाङ्कचूडामणिवर्जनाज्जितम् । दधानमाशासु चरिष्णु दुर्यशः स कौतुकी तत्र ददर्श केतकम्॥७८॥ विनिद्रेति । विनिद्रपत्रावलिगतालिकैतव त् = विकचदलावलिस्थितभृङ्ग- मिषात् । [ मृगाङ्कचूडामणिवर्जनाज्जितम् ] मृगाङ्कचूडामणेरीश्वरस्य कर्तुः, वर्ज- नेन परिहारेण, अर्जितं सम्पादितं । ‘न केतकया सदाशिवम्’ इति निषेधादिति भावः । आशासु, चरिष्णु=सञ्चरणशीलं । ‘अलङ्कृञ्’ इत्यादिना चरेरिष्णुच्प्रत्ययः । दुर्यशः = अपकीर्त्तिं, दधानं केतक = केतकीकुसुमं, तत्र = वने स = नलः कौतुकी सन् ददर्श । अर्हस्य महापुरुषस्य बहिष्कारो दुष्कीर्त्तिकर इति भावः । अत्राऽलिकैतवा- दित्यह्निवापह्नवेन तेषु दुर्यशस्त्वारोपादपह्नुत्यलङ्कारः । ‘निषेध्य विषये साम्यादन्या- रोपेऽपह्नुतिः’ इति लक्षणात् ॥ ७८ ॥ उपवन देखने की उत्कण्ठा वाले नल ने, वहाँ विकसित पत्तों की कतार पर बैठे हुए भौरों के बहाने, मृगाङ्कचूडामणि शिवजी के ऊपर न चढ़ने वाले और चारो दिशाओं में फैलने वाली अपनी बदनामी को धारण करने वाले, केतकी के फूल को देखा ॥७८॥ वियोगभाजां हृदि कण्टकैः कटैर्निधीयसे कर्णिकारः स्मरेण यत् । ततो दुराक्रपत्तया तदन्तकृद्दिगीयसे मन्मथदेहदाहिना ॥७९॥

An exact line-by-line transcription of the text from the image:

सर्गः १ ] जीवातू-मदयन्तिकासहितम् । ४१ Digitized by Sarayu Trust Foundation and eGangotri अथ त्रिभिः केतकोपालम्भमाह - वियोगेत्यादि । हे केतक !, यत् = यस्मात् त्वं स्मरेण वियोगभाजां हृदि, कण्टकैः = निजतीक्ष्णावयवैः । कटुः = तीक्ष्णः, केतकविशेषणस्यापि कर्णीशरत्वं विशेषणविवक्षया पुंल्लिङ्गनिर्देशः, किन्तु उद्देश्य- विशेषस्य विधेयविशेषणत्वं क्लिष्टम् । कर्णवत् कर्णि प्रतिलोमशल्यं, तद्वान् शरः कर्णीशरः सन् निधीयसे । कण्टककटोः केतकस्य कर्णीशरत्वरूपणाद्रूपकालङ्कारः । ततः कर्णीशरत्वादिवद्दुराकर्षतया = दुरुद्धारतया, तदन्तकृत् = तेषां वियोगिनां मारकं, मन्मथदेहदाहिना = स्मरहरेण, विगीयसे = विगर्ह्यसे । द्वेष्यवत् द्वेष्योप- करणमप्यसह्यमेव, तदपि हिंस्रं चेत् किमु वक्तव्यमिति भावः । अत्रेश्वरकर्तृकस्य केतकी- विगर्हणस्य तद्गतवियोगिहिंस्रताहेतुकत्वोत्प्रे क्षणाद्धेतूत्प्रेक्षा, व्यञ्जकाप्रयोगाद्गम्या; सा चोक्तरूपकोत्थापितेति सङ्करः ॥ ७६ ॥ अरी केतकी ! जो तू कामदेव के द्वारा, वियोगियों के हृदय में नुकीले बाण की तरह, अपने काँटों से भीषण रूप में चुभा दी जाती हो और अन्त में काम-बाण न निकल सकने. के कारण वियोगियों की प्राणान्तकारिणी हो जाती हो तभी तो काम- देव के नाश करने वाले शिवजी तुम्हारी निन्दा करते हैं ॥ ७६ ॥ त्वदग्रसूचीसचिवः स कामिनोर्मनोभवः सीव्यति दुर्यशःपटौ । स्फुटञ्च पत्रैः करपत्रमूर्तिभिर्वियोगिहृद्दारुणि दारुणायते ॥८०॥ त्वदिति । [ त्वदग्रसूचीसचिवः ] तवाग्राण्येव सूच्यः सचिवाः सहकारिणो यस्य स तथोक्तः । स = प्रसिद्धो मनोभवः [ कामिनोः ] कामिनी च कामी च कामिनौ तयोः । 'पुमान् स्त्रिया'इत्येकशेषः । [ दुर्यशःपटौ ] दुर्यशांसि अपकीर्त्त- यस्ताः पटाविति रूपकं । तानि सीव्यति=कण्टकच्यूतं करोतीत्यर्थः । किञ्चेति चार्थः । स्फुटं = स्पष्टं करपत्रमूर्त्तिभिः = क्रकचारैः । 'क्रकचोऽस्त्री करपत्रम्'इत्यमरः । पत्रैस्तैः, [ वियोगिहृद्दारुणि ] वियोगिनां हृद्येव दारुणि । दारयतीति दारुणो विदारको भेत्ता । स इवाचरतीति दारुणायते । 'कत्तुः क्यङ् सलोपश्च'इति क्यङ- न्तात् लट् । दारुणायत इत्युपमा; सा च हृद्दारुणीति रूपकानुप्राणितेति सङ्करः ॥ ( अरी केतकी ) तुम्हारे काँटे रूपी सूई के सहारे, वह कामदेव कामी तथा कामिनी के दुर्यशरूपी दो वस्त्रों को बुनता है और तुम्हारे स्पष्ट आरे के तुल्य पत्तों से वियोगियों के हृदयरूपी काठ पर आरा चलाया करता है ॥ ८० ॥ धनुर्मधुस्विम्वकरीडति भीमजापरं परागैस्तव धूलिहस्तयन् ।

४२ नैषधचरितम् । [ प्रथमः प्रसूनधन्वा शरसात्करोति मामिति क्रुधाऽक्रुश्यत तेन केतकम् ॥८१॥ धनुशिति । हे केतक ! प्रसूनं धनुर्र्यस्येति प्रसूनधन्वा पुष्पचापः । 'वा संज्ञा- याम्' इत्यनङादेशः । अत एव [ धनुर्मधुस्विन्नकरः ] धनुषो मधुना मकरन्देन, स्विन्नकरः आर्द्रपाणिः सन्, अत एव तव परागैः=रजोभिः, धूलिहस्तयन् = पुनः पुनः धूत्युद्भावितहस्तमात्मानं कुर्वन्; अन्यथा धनुस्संसनादिति भावः । तत्करोतेर्ण्य- न्ताल्लटः शत्रादेशः । अति भीमजापरम् = अतिमात्रं दमयन्त्यासक्तं, मां शरसात् शराधीनं करोति । 'तदधीने च'इति सातिप्रत्ययः । अन्यथा स्रस्तचापः मां किं कुर्या- दिति भावः । इतीत्थं श्लोकत्रयोक्तिरिति । तेन = राज्ञा इति क्रुधा केतकमा- क्रुश्यत = अपराधोद्घाटनेन आक्रोश्यातेत्यर्थः ॥ ८१ ॥ ( अरी केतकी ) पुष्पवाणधारी कामदेव-पुष्पमय धनुष में से रिसते हुए रस से गीले हाथवाला होकर भी, तुम्हारी ( फूल की) धूलि के समान पराग से हाथ मलकर, दमयन्ती के प्रति अत्यन्त आसक्त हुए मुझे अपने बाण का निशाना बनाता है। इस प्रकार क्रोधपूर्वक नल ने केतकी के फूल की लानत-मलामत की ॥८१॥ विदर्भसुभ्रूस्तनतुङ्गताप्तये घटानिवाऽपश्यदलं तपस्यतः । फलानि धूमस्य धयानधोमुखान् स दाडिमे दोहदधूपिनि द्रुमे ॥८२॥ विदर्भेति । स = नलः । 'तरुगुल्मलतादीनामकाले कुशलैः कृतम् । पुष्पाद्युत्पादितं द्रव्यं दोहदं स्यात्तु तत्क्रिया'इति शब्दार्णवे । [ दोहदधूपिनि ] दोह- दश्चासौ धूपश्च । तदुक्तं-मेषामिपाम्बुसंसेकस्तत्केशामिप्रधूपनम् । श्रेयानयं प्रयोगः स्यात् दाडिमीफलवृद्धये । मत्स्याज्यत्रिफलालेपैर्मासैराजाविकोद्भवैः । लेपिता धूपिता सूते फलं तालीव दाडिमी । आविक्राथेन संसिक्ता धूपिता तत्रोमभिः । फलानि दाडिमी सूते सुबहूनि पृथुनि च इति । तद्वति दाडिमे द्रुमे फलानि [ विदर्भसु- भ्रूस्तनतुङ्गताप्तये ] विदर्भसुध्रुवो दमयन्त्याः, स्तनयोर्या तुङ्गता, तदाप्तये ताह- गौन्नत्यलाभायेत्यर्थः । अलम् = अत्यर्थं तपस्यतः = तपश्चरतः । 'कर्मणो रोमन्थ- तपोभ्यां वर्त्तिचरोः'इति क्यङ्प्रत्यये 'तपसः परस्मैपदञ्च' वक्तव्यं । धूमस्य = दोहदधूमस्य धयन्तीति धयान् = पातॄन् , धेट्पाने अत्र'आतश्चोपसर्गे' इति उपसर्गग्रहणं नानुवर्ति पश्चात् 'पा घ्रा' इत्यादिनाऽनुपसृष्टादपि धेटः शप्रत्यय इति गतिः । अत एव काशिकायां 'केचिदुपसर्ग इति नानुवर्त्तयन्ति'इति अधोमुखान् घटान् इव । अपश्यत् , इत्युत्प्रेक्षा, महोदरेण इत्थं उग्रं तपस्यन्तीति भावः ॥ ८२ ॥

सर्गः १ ] जीवातु-मदयन्तिकासहितम् । ४३ जिस में फल अधिक आने के लिए धूप दी जाती थी-ऐसे अनार के पेड़ में नल ने फल लगे हुए देखे । जो ऐसे प्रतीत होते थे मानों विदर्भकुमारी दम- यन्ती के स्तनों का औन्नत्य प्राप्त करने के लिए, धुँआ पीकर और नीचे की ओर मुँह कर के, घड़े (कलश) तपस्या कर रहे हों ॥ ८२ ॥ वियोगिनीमैक्षत दाडिमीमसौ प्रियस्मृतेः स्पष्टमुदीतकण्टकाम् । फलस्तनस्थानविदीर्णरागिहृद्विशच्छुकास्यस्मरकिंशुकाशुगाम् ॥८३॥ वियोगिनीमिति । असौ=नलः प्रियस्मृतेः=दमयन्तीस्मरणादिव स्पष्टं व्यक्तम् । उदीतेति ईङ्गताविति धातोः कर्त्तरि क्तः । [ उदीतकण्टकम् ] उदीरिताः उद्गताः कण्टकाः स्वावयवसूचय एव कण्टका रोमाञ्चा यस्यास्तामिति श्लिष्टरूपकम् । 'वेणौ- द्रुमाङ्गे रोमाञ्चे क्षुद्रशत्रौ च कण्टकः' इति वैजयन्ती । फलस्तनस्थानविदीर्णरागि- हृद्विशच्छुकास्यस्मरकिंशुकाशुगां = फलान्येव स्तनौ तावेव स्थानं, तत्र विदीर्णो रागो यस्यास्तीति रागि, रक्तवर्णमनुरक्तञ्च, यत्तस्मिन् हृदि, विशत् बीजभक्षणान्तः- प्रविशत् शुकास्यरूपं शुकतुण्डमेव, स्मरस्य किंशुकं पलाशकुङ्मलमेवाशुगो बाणो, यस्यास्तां । दाडिमीमेव वियोगिनीं = विरहिणीम्, ऐक्षत = अपश्यत् । रूपका- लङ्कारः । विः पक्षी, तद्योगिनीमिति च गम्यते ॥ ८३ ॥ जिस प्रकार वियोगिनी नायिका अपने प्रियतम की सुधि कर के, रोमाञ्चित हो जाती है और उससे स्तनस्थल के बीच में चुभने का अनुभव करती है, उधर कामदेव रागि (अनुरक्त) हृदय में लाल टेसू के बाण से विदीर्ण करता है ; उसी प्रकार नल ने (वियोगिनी नायिका की भाँति दाडिमी (अनारप्रेयसी) को देखा- जिसके शरीर कण्टकित थे ( मानो अपने प्रियतम की सुधि कर के रोमाञ्चित हो रही हो), जिस के गोल आकार मानो उरोज थे, जिस के रागि (प्रियतम पर अनुरक्त) हृदय (भीतर के लाल-लाल दाने) को सुग्गे अपनी चोंच से विदीर्ण कर रहे थे (मानो कामदेव ने अपने टेसू के बाणों से उसे विदीर्ण किया हो) ॥८३॥ स्मरार्द्धचन्द्रेषुनिभे कृशीयसां स्फुटं पलाशोऽध्वजुषां पलाशनात् । स बृन्तमालोकत् खण्डमन्वितं वियोगिहृत्खण्डिनि कालखण्डजम्॥८४॥ स्मरार्द्धेति । स = नलः [स्मरार्द्धचन्द्रेषुनिभे] स्मरस्य योऽर्द्धचन्द्रः, अर्द्ध- चन्द्राकार इषुस्तन्निभे तत्सदृशे, नित्यसमासत्वादस्वपदविग्रहः । अत एवामरः- 'स्युरुत्तरपदे त्वमी-निभ-सङ्काश-नीकाश-प्रतीकाशोपमादयः' इति । [ वियोगि-

४४ नैषधचरितम् । [ प्रथमः हृत्खण्डिनि ] वियोगिनां हृत्खण्डिनि हृदयवेधिनि, क्रशीयसां = कृशतराणाम् अध्वजुषां = अध्वगामिनाम् । पलाशनात् = मांसभक्षणात्, पलाशो पलमश्नन्तीति व्युत्पत्त्या पलाशसंज्ञाभाजि, किंशुककलिकायामित्यर्थः । अन्वितं = सम्बद्धं स्फुटम् वृत्तं = प्रसवबन्धनं, तदेव कालखण्डजं खण्डं यकृत्खण्डमिति व्यस्तरूपकम् । आलोकित = आलोकितवान् । 'कालखण्डं यकृत्समम्' इत्यमरः । तच्च दक्षिणपार्श्वस्थः कृष्णवर्णो मांसपिण्डविशेषः ॥ ८४ ॥ नल ने कामदेव के अर्द्धचन्द्र बाण के समान एवं वियोगियों के हृदय को टुकड़े-टुकड़े करनेवाले 'पलाश' में वृत्त देखा । (जिसके देखने से) स्पष्ट हो रहा था कि वह अतीव दुर्बल विरही बटोहियों के यकृत् (जिगर) में चिपका हुआ मांस खण्ड है (इसीसे उसका पलाश नाम पल = मांस, का अशन करनेवाला हुआ)॥८४॥ नवा लता गन्धवहेन चुम्बिता करम्बिताङ्गी मकरन्दशीकरैः । दृशा नृपेण स्मितशोभिकुङ्मला दरादराभ्यां दरकम्पिनी पपे ॥८५॥ नवेति । गन्धवहेन = वायुना चुम्बिता = स्पृष्टा; अन्यत्रानुलिप्तेन पुंसा वीक्षिता। मकरन्दसीकरैः = पुष्परसकणैः । करम्बिताङ्गी = व्यामिश्रितरूपा; अन्यत्र स्विन्ना- ङ्गीति च गम्यते । [स्मितशोभितकुङ्मळा] स्मितशोभिनः विकासम्यः, कुड्मला मुकुला रदनाश्च यस्याः सा मन्दहासमधुरदन्तमुकुला च गम्यते। दरकम्पिनी = वायु- स्पर्शादीषत्कम्पिनी; सात्त्विकवेपथुमती च । नवा, लता = वल्ली, तत्सदृशी कान्ता च गम्यते । नृपेण = कर्त्रा । दृशा करणेन । दरादराभ्यां = भयसृष्णाभ्यां उपलक्षितेन सता । पपे = पीता; गाढं दृष्टा इत्यर्थः । उद्दीपकत्वात् दरः, प्रियासादृश्यादादरश्च। 'दरोऽस्त्री शङ्काभीगर्त्तष्वल्पार्थे त्वव्ययम्' इति वैजयन्ती । अत्र प्रस्तुतविशेषणसाम्या- दप्रस्तुत नायिकाप्रतीतेः समासोक्तिरलङ्कारः । 'विशेषणस्य तौल्येन यत्र प्रस्तुतवर्णनात् । अप्रस्तुतस्य गम्यत्वे सा समासोक्तिरिष्यते' इति लक्षणात् ॥ ८५ ॥ वायु (इत्र, कपूर सुगन्ध लगाये हुए नायक) से चुम्बित (स्पृष्ट, चुम्बन की गयी) पुष्परस के कणों से व्याप्त अङ्ग वाली (पसीने से लथपथ शरीरवाली), मन्द मुस्कि राहट के समान सुन्दर कली वाली (मन्द मुस्कराहट से सुन्दर दाँत वाली) और ज़रा-ज़रा हिलनेवाली (नायक स्पर्श के कारण काँपने वाली) नव लता (न बालता = तरुणी) को राजा नल ने दर (डर) और आदर के साथ नेत्रों द्वारा पान किया॥८५॥ विचिन्वती पान्थपतङ्गहिंसनेरपुण्यकर्माण्यलिकज्जलच्छलात् ।

सर्गः १ ] जीवातु-मदयन्तिकासहितम् । ४५ व्यलोकयच्चम्पककोरकावलीः स शम्बरारेर्बलिदीपिका इव ॥८६॥ विचिन्वतीरिति । [ पान्थपतङ्गहिंसनैः ] पन्थानं गच्छन्ति नित्यमिति पान्थाः, नित्यपथिकाः । ‘पन्थोऽण् नित्यम्’ इत्यण्प्रत्ययः पन्थादेशश्च । त एव पतङ्गाः पक्षिणः । ‘पतङ्गः पक्षिसूर्य्ययोः’ इत्यमरः । तेषां, हिंसनैर्वधैः, [ अपुण्यकर्माणि अलिकज्जलच्छलात् ] अपुण्यकर्माण्येव, अलयः कजलानीवेत्युपमितसमासः । तेषां छलादित्यपह्नुवालङ्कारः । विचिन्वतीः = संगृह्णतीः, हिंसापापकारिणीरित्यर्थः । चम्पककोरकावलीः, शम्बरारेः = मनसिजस्य, बलिदीपिकाः = पूजादीपिका इव इत्युत्प्रेक्षा । स = नलो व्यलोकयत् ॥८६॥ नल ने चम्पे की कलियों की कतारें देखीं, मानो वे कामदेव की बलि-प्रदीप हों--जो विरही पथिक रूपी फतिङ्गा के जलाने से, भौरें रूपी काजल के बहाने, मानों पाप बटोर रही थीं ॥८६॥ अमन्यतासौ कुसुमेशुगर्भजं परागमन्धङ्करणं वियोगिनाम् । स्मरेण मुक्तेषु पुरा पुरारये तदङ्गभस्मेव शरेषु सङ्गतम् ॥८७॥ अमन्यतेति । असौ = नलः । [ कुसुमेशुगर्भजं ] कुसुमान्येव इषवः काम- बाणास्तेषां गर्भजं गर्भजातं । वियोगिनाम् इति कर्मणि षष्ठी । अनन्धा अन्धाः क्रियन्तेऽनेनेत्यन्धङ्क रणं । ‘आढ्यसुभगे’ इत्यादिनाच्च्यर्थे ख्युन् प्रत्ययः । ‘अरुर्द्विषत्’ इत्यादिना मुमागमः । तं परागं पुरा = पूर्वं, पुरारये = पुरहराय स्मरेण मुक्तेषु शरेषु सङ्गत = संसक्तं । [ तदङ्गभस्म ] तस्य पुरारेरङ्गे यद्भस्म, तदिव मन्यत इति उत्प्रेक्षितवानित्यर्थः । पुरा पुरारये ये मुक्तास्त एवैते पुरोवर्त्तिनः, कुसुमेशव इत्यभिमानः । अन्यथैषां तदङ्गभस्मसङ्गोत्प्रेक्षानुत्थानादिति ॥८७॥ नल ने फूलों के भीतर पराग को—इस प्रकार विरहियों को कामान्ध करने- वाला—समझा; जैसे प्राचीनकाल में कामदेव से, पुरारि शिव पर चलाये गये फूल रूपी बाण में, लगी उनके अङ्ग की भस्म हो ॥८७॥ पिकाहूने शृण्वति भृङ्गहुङ्कृतैर्दशामुदञ्चत्करुणं वियोगिनाम् । अनास्थया सूनकरप्रसारिणीं ददर्श दूनः स्थलपद्मिनीं नलः ॥८८॥ पिकादिति । वने =उपवने श्रोतरि, पिकाद् वक्तुः सकाशात् , भृङ्गहुङ्कृतैः वियोगिनां दशाम् = अलिहुङ्कारकृतां दुःखावस्थामित्यर्थः । उदञ्चत्करुणं = विक- सद्बुद्धिविशेषम्, उद्यत् कृपं च यथा तथा शृण्वति सति, "करुणस्तु रसे वृक्षे कृपायां

४६ नैषधचरितम् । [ प्रथमः करुणा मता' इति विश्वः । अनास्थया = श्रोतुमनिच्छया, [ सूनकरप्रसारिणी ] सूनं प्रसूनमेव करं प्रसारयतीति प्रसारिणी, पुष्परूपहस्तविस्तारिणी, तथोक्तामनिष्टकथां करे वारयन्तीमिव स्थितामित्यर्थः । सूनकरेति प्रसारिणीमितिरूपकानुप्राणिता गम्यो- त्प्रेक्षेयम् । स्थलपद्मिनीं नलो दूनः = परितप्तः सन् । 'दूङः कर्त्तरि क्तः ।' 'ल्वादि- भ्यश्च' इति निष्ठानत्वं । ददर्श ॥८८॥ खिले हुए फूल युक्त करुण नामक पेड़ वाले ( वियोगियों के सन्ताप से उत्पन्न करुणा वाले ) उस उपवन में कोयलों की कूक से और भौंरों की हुँकार से विरही- जनों की कष्ट-गाथा सुनते हुए ( दमयन्ती-विरहजन्य सन्ताप से ) दुखी हो नल ने स्थलकमलिनी को देखा-जो ( वियोगियों की कथा सुनने से ) अपनी उदासीनता को मानों फूल रूपी हाथ पसार कर व्यक्त कर रही थी ॥८८॥ रसालसालः समदृश्यतामुना स्फुरद्विरेफारवरोषहुङ्कृतिः । समीरलोलैर्मुकुलैर्वियोगिने जनाय दित्सन्निव तर्जनाभियम् ॥८९॥ रसालेति । अमुना = नलेन, [ स्फुरद्विरेफारवरोषहुंकृतिः ] स्फुरन्तो द्विरेफास्तेषामारवो भ्रमरझङ्कार एव रोषणे या हुङ्कृतिर्हुङ्कारो यस्य सः । समीर- लोलै = वायुचलैर्मुकुलैरङ्गलिभिरिति भावः । वियोगिने जनाय तर्जनाभियं दित्सन् = दातुमिच्छन्निव स्थितः । ददातेः सन् प्रत्ययः । 'सनि मीमा' इत्यादिना इसादेशः । 'अत्र लोपोऽभ्यासस्य' इत्यभ्यासलोपः । 'सस्यार्द्धधातुके' इति सकारस्य तकारः । रसालसालः = चूतवृक्षः समदृश्यत = सम्यग्दृष्टः । द्विरेफेत्यादिरूपको- त्थापितेयं तर्जनाभयजननत्प्रेक्षेति सङ्करः ॥८६॥ नल ने आम का पेड़ देखा--जिसके ऊपर उड़-उड़कर भौंरे गुंजार कर रहे थे, मानो वह क्रोधपूर्वक हुँकार कर रहा हो । और वायु से हिलायी गयी कलियों से जो विरहियों को मानो फटकारने का भय दिखा रहा हो ॥८६॥ दिने दिने त्वं तनुरेधि रेऽधिकं पुनः पुनर्मूच्छ च मृत्युमृच्छ च । इतीव पान्थं शपतः पिकांन् द्विजान् सखेदमैक्षिष्ट स लोहितेक्षणान् ॥९०॥ दिने दिने इति । रे इति हीनसम्बोधने । त्वं दिने दिने अधिकं तनुः एधि = अधिकं कृशो भव । आस्तेर्लोट् सिप् । 'हुझल्भ्यो हेर्धि' इति धित्वम्, 'ध्वसोरे- दावभ्यासलोपश्च' इत्येत्वं । पुनः पुनः मूर्च्छ = मूर्च्छां लभस्व, मृत्युमृच्छ च इति पान्थं = नित्यपथिकं शपतः = शपमानानू इव स्थितानित्युत्प्रेक्षा । लोहितेक्षणान्

सर्गः १ ] जीवातु-मदयन्तिकासहितम् । ४७ Digitized by Sarayu Trust Foundation and eGangotri = रक्तदृष्टीन् । एकत्र स्वभावतोऽन्यत्र रोषाच्चेति द्रष्टव्यं, पिकान् = कोकिलान्, द्विजान् = पक्षिणो, ब्राह्मणांश्च ; स = नलः खेदमैक्षिष्ट स्वस्यापि उक्तशङ्क्येति भावः ॥ ६० ॥ उन्होंने लाल आँख वाली कोयल चिड़ियों को विषाद के साथ देखा-जो पथिकों (वियोगियों) को मानों यों शाप दे रही थीं कि अरे ! तुम दिन पर दिन दुबले होते जाओ, बार-बार मूर्च्छित होते रहो और मरते रहो ॥ ६० ॥ अळिस्रजा कुङ्मलमुच्चशेखरं निपीय चाम्पेयमधीरया दृशा । स धूमकेतुं विपदे वियोगिनामुदीतमातङ्कितवानशङ्कत ॥ ६१ ॥ अलिस्रजेति । अलिस्रजा = भ्रमरपङ्क्त्या, उच्चशेखरम् = उन्नतशिरो- भूषणं, अलिमलिनाङ्कमित्यर्थः । 'शिखास्वापीडशेखरौ'इत्यमरः । चाम्पेयं = चम्पक- विकारं, कुङ्मलं । 'अथ चाम्पेयः चम्पको हेमपुष्पकः'इत्यमरः । नन्वयुक्तमिदं, 'न षट्पदो गन्धफलीमजिघ्रत्'इत्यादौः अलीनां चम्पकस्पर्शाभावप्रसिद्धेरिति चेत् नैवं; किन्तु स्पृष्टेयं तावतैवास्पर्शोक्तिः क्वचित् केषाञ्चित् उक्तिपरिहारः । अथ वा चाम्पेयं = नागकेसरं । 'चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः'इत्यमरः । अधी- रया दृशा निपीय = विप्लवदृष्ट्या गाढं दृष्ट्वा आशङ्कितवान् किञ्चिदनिष्टमुत्प्रेक्षि- तवान् स = नलः । 'अनिष्टाभ्यागमोत्प्रेक्षां शङ्कामाचक्षते बुधाः' इति लक्षणात् । वियोगिनां विपदे उदीतम् = उत्थितं धूमकेतुम् अशङ्कत = अतर्कयत् इत्यु- त्प्रेक्षालङ्कारः ॥ ६१ ॥ भौरों की पंक्ति से उच्च शेखर वाली चम्पा की कली (अथवा नागकेसर के फूल) को अधीरदृष्टि से खूब गौर के साथ देख कर, नल ने आशंका की कि यह वियोगियों के विनाश के लिए उदय हुआ कोई धूमकेतु है ॥ ६१ ॥ गलत्पराग भ्रमद्भङ्गिभिः पतत् प्रसक्तभृङ्गावलि नागकेशरम् । स मारनाराचनिघर्षजस्खलज्ज्वलत्कणं शाणमिव व्यलोकयत् ॥ ६२ ॥ गलदिति । स = नलो गलत्परागं = निर्यद्रजस्कं भ्रमद्भङ्गिभिः = भ्रमण- प्रकारैरुपलक्षितं पतत् = भ्रंश्यत् प्रसक्तभृङ्गावलि = सक्तालिकुलं नागकेसरं = कुसुमविशेषं, [ मारनाराच-निघर्षण-स्खलज्ज्वलत्कणं ] मारनाराचनिघर्षणैः स्मरशरकर्षणैः, स्खलन्तः लुठन्तः ज्वलन्तश्च कणाः स्फुलिङ्गाः, यस्य तं । शाणं = निकषोत्पलम् इत्युत्प्रेक्षा । व्यलोकयत् । 'शाणस्तु निकषः कषः'इत्यमरः ॥ ६२ ॥

४८ नैषधचरितम् । [ प्रथमः Digitized by Sarayu Trust Foundation and eGangotri उन्होंने पराग निकलते हुए नागकेसर के फूल को देखा—जिस पर बैठी हुई भौरों की पंक्तियां रह-रह कर उड़जाती थीं। यह देख कर नल को ऐसा आभास हुआ मानों सान रखने का पत्थर हो और उस पर कामदेव के बाणों पर धार धरने से जलती हुई चिनगारियां छिटक रही हैं ॥ ६२ ॥ तदङ्गमुद्दिश्य सुगन्धि पातुकाः शिलीमुखालीः कुसुमाद्गुणस्पृशः । स्वचापदुर्निर्गतमार्गणाभ्रमात् स्मरः स्वनन्तीरवलोक्य लज्जितः ॥६३॥ तदङ्गमिति । सुगन्धि = शोभनगन्धं ‘गन्धस्य’इत्यादिना समासान्त इकारः, तदङ्गं = तस्य नलस्य अङ्गमुद्दिश्य = लक्ष्यीकृत्य । [ गुणस्पृशः ] गुणो गन्धादिः मौर्वी च, ‘गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु’इति वैजयन्ती । तत्स्पृशस्तद्युक्ताः । ‘स्पृशोऽनुदके’इति क्विन्, कुसुमात् आपादानात् पातुकाः = धावन्तीः । ‘लषपत’ इत्यादिना उकञ्प्रत्ययः । स्वनन्तीः = ध्वनन्तीः शिलीमुखालीः = अलिपङ्क्तीश्च अवलोक्य स्मरः । [ स्वचापदुर्निर्गतमार्गणाभ्रमात् ] स्वचापात् पौरुषाद्- दुर्निर्गताः विषमनिर्गताः, ये मार्गणा बाणास्तद्भ्रमाद्धेतोः लज्जितोऽभवत्ः, न्यून- मिति शेषः । दुर्निर्गतप्रवो ह्यधिकं स्वनन्तीति प्रसिद्धेः । अत्र स्वनच्छिलीमुखेषु दुनिं- र्गतमार्गणाभ्रमाद्भ्रान्तिमदलङ्कारः, स च शिलीमुखेति श्लेषानुप्राणितादुत्थापिता चेयं स्मरस्य लज्जितवोत्प्रेक्षेत्यनयोरङ्गाङ्गिभावेन सङ्करः ॥ ६३ ॥ गुण-( सुगन्धित द्रव्य, प्रत्यञ्चा ) ग्राही, शिलीमुखां ( भौरों, बाणों ) की पंक्तियां, नल के अङ्ग की ओर गुञ्जन ( शब्द ) करती हुईं, कुसुमों ( वृक्षस्थ- फूलों, कामदेव के पुष्पमय धनुष ) से ( उन्हें छोड़ कर ) चली आयीं—इसे देख कर, कामदेव को भ्रम हो गया कि अपने धनुष से छूटे हुए बाण लक्ष्यभ्रष्ट हो गये, अतः वह लज्जित हो गया ॥ ६३ ॥ मरुल्ललत्पल्लवकण्टकैः क्षतं समुच्चरच्चन्दनसारसौरभम् । स वारनारीकुचसञ्चितोपमं ददर्श माल्लूरफलं पचेलिमम् ॥६४॥ मरुदिति । [ मरुल्ललत्पल्लवकण्टकैः ] मरुता वायुना, ललत्पल्लवानां चलकिसलयानां, कण्टकैस्तीक्ष्णाग्रैरवयवैः क्षतं अन्यत्र विलसद्भिर्नखैः क्षतमिति गम्यते । [ समुच्चरच्चन्दनसारसौरभम् ] समुच्चरत् परितः प्रसर्पत्, चन्दना- सारस्येव सौरभं यस्य तत् । अन्यत्र तत् [ वारनारीकुचसञ्चितोपमं ] वारनारी- कुचेन वेश्यास्तनेन, सञ्चितोपमं सम्पादितसादृश्यमित्युपमालङ्कारः । ‘वारस्त्री गणिका

सर्गः १ ] जीवातु-मदयन्तिकासहितम् ४१ वेश्या'इत्यमरः। कुलङ्गनानखक्षतचिह्नोचितगद्दारविशेषणं । पचेलिम = स्वतः- पक्कं। 'कर्म कर्त्तरि केलिमच उपसंख्यानम्'इति पचेः केलिमच् प्रत्ययः। मालूरफलं =बिल्वफलं। 'बिल्वे शाण्डिल्यशैलूषौ मालूरः श्रीफलावपि'इत्यमरः। स = नलो ददर्श ॥ ६४ ॥ नलने--हवा से हिलायी गयी बेलपत्ती की नोंक से क्षत (काम-मरुत् से चञ्चल हुए नख-पल्लव से क्षत ) किया गया, चारो ओर चन्दन के समान उत्कृष्ट गन्ध फैलाता ( विलिप्त चन्दन की सुरभि युक्त )--वाराङ्गना के स्तन के तुल्य-पका ( बढ़ा ) हुआ बेल का फल देखा ॥ ६४ ॥ युवद्वयीचित्तनिमज्जनोचितप्रसूनशून्येत र गर्भ ग ह्वरम् । स्मरेषुधीकृत्य धिया भियान्धया स पाटलायाः स्तबकं प्रकम्पितः ॥६५॥ युवेति । [युवद्वयी-चित्त निमज्जनोचित-प्रसूनशून्येत र-गर्भ ग ह्वरं ] युवा च युवती च तयोर्यूनोर्द्वयी मिथुनं, तस्याश्चित्तयोः कर्मगोर्निमज्जने ण्यन्ताल्ल्युट् । उचितैः क्षमैः, प्रसूनैः पुष्पवाणैः, शून्येत रदशून्यं पूर्णं, गर्भ ग ह्वरं गर्भकुहरं यस्य तत्। पाटलायाः = पाटलवृक्षस्य स्त बकं=कुसुमगुच्छं, भियाऽन्धया=भयमूढ्या, धिया भयजन्यभ्रान्त्येत्यर्थः। स्मरेषुधीकृत्य = कामतूणीकृत्य, तथा विभ्रम्य इत्यर्थः । अत एव भयात् स प्रकम्पितः = चकम्पे । अत्र पाटलस्तबके मदनतूणीरभ्रमात् भ्रान्ति- मदलङ्कारः । 'कविसम्मतसादृश्याद्विषये विहितात्मनि । आरोप्यमाणानुभवो यत्र स भ्रान्तिमान् मतः' इति लक्षणात् ॥६५॥ काम-पीडा के भय के कारण, चकराई हुई बुद्धि से, पाटल के फूल के गुच्छे को-जिसका मध्यभाग युवक-युवतियों के हृदय में प्रवेश होने लायक पुष्परूपी काम-बाणों से परिपूर्ण था उसे-कामदेव का तरकस समझकर, नल काँप उठा॥६५॥ मुनिद्रुमः कोरकितः शितियुतिर्वनेऽमुनामन्यत सिंहिकासुतः । तमिस्रपक्षत्रटिकूटभक्षितं कलाकलापं किउ वैधबं वमन् ॥६६॥ मुनीति । अमुना=नलेन वने कोरकितः=सञ्जातकोरकः, शितियुति =पत्रेषु कृष्णच्छविः मुनिद्रुमः=अगस्त्यवृक्षः । [तमिस्रपक्षत्रुटिकूटभक्षितं ] तमिस्रपक्षे त्रुटिकूटेन क्षयव्याजेन, भक्षितम्, अभक्षितत्वे कुतः क्षय इति भावः । अत्र कूटशब्देन क्षयापह्नवेन भक्षणारोपादपह्रवभेदः । वैधवं=चन्द्रसम्बन्धि । 'विधुः सुधांशुः शुभ्रांशुः' इत्यमरः। कलाकलापं = कलासमूहं वमन्=उद्गिरन् सिंहिकासुतः=राहुः, अमन्यत ४

५० नैषधचरितम् । [ प्रथमः किल = खलु। अत्र कोरकौतशितद्युतित्वाभ्यां मुनिनु मस्येन्दु कलाकलापवमनविशिष्ट- राहुत्वोत्प्रेक्षा, सा चोक्तापह्नवोत्थापितेति सङ्करः ॥६६॥ नल ने उपवन में काले रंग की पत्ती वाले अगस्त्य वृक्ष को (कृष्णवर्ण दैत्य) राहु समझा । जिसमें (सफेद रंग की अर्द्धचन्द्राकार ) कलियाँ खिली हुई थीं-- जो ऐसा प्रतीत होता था कि कृष्णपक्ष में छल से धीरे-धीरे निगले हुए विधु के कलासमूह को मानों (राहु) उगल रहा है ॥६६॥ पुरो हठाक्षिप्ततुषारपाण्डरच्छदावृतेर्वीरुधि नद्धविभ्रमाः । मिलन्निमीलं विदधुर्विलोकिता नभस्वतस्तं कुसुमेषुकैलयः ॥९७॥ पुर इति । [पुरोहठाक्षिप्ततुषारपाण्डरच्छदावृतेः ] पुरोऽग्रे, हठात् झटित्याक्षिप्ता आकृष्टा, तुषारेण हिमेन, पाण्डराणां छदानां पत्राणां, तुषारवत् पाण्ड- रस्य च्छदस्याच्छादकस्य वस्त्रस्य च आवृत्तिरावरणं येन तस्य । नभस्वतः = वायोः, वीरुधि = लतायां । [ नद्धविभ्रमाः ] नद्धाः अनुबद्धाः, विभ्रमा भ्रमणानि विलासाश्च यासां ताः । [ कुसुमेषुकैलयः ] कुसुमेषु विषये केलयः क्रीडाः, कुसुमेषु- केलयः कामक्रीडाश्च विलोकिताः सत्यस्तं = नृपं नलं [ मिलन्निमीलं ] मिल- न्निमीलो मिलनं यस्य तं विदधुः = निमीलिताक्षं चक्रुरित्यर्थः । विरहिणामुद्दीपकदर्शनस्य दुःसहदुःखहेतुत्वात् ; अन्यत्र 'नेक्षेताकं न नग्नां स्त्रीं न च संसक्तमैथुनाम्'इति निषेधादिति भावः । अत्र प्रस्तुत नभस्वद्विशेषणसामर्थ्यादप्रस्तुतकामुकविरहप्रतीतेः समासोक्तिरलङ्कारः ॥६७॥ पहले बर्फ के सफेद रंग के पत्ते रूप आवरण (साड़ी) को हठपूर्वक (बलात् ) हटाकर नभस्वान् (वायु, नवयुवक ) ने लता ( लतारूपी कृशाङ्गी नव- युवती) के भ्रमण ( विभ्रमविलास = हाव भाव नखरे ) पर अनुरक्त हो, कुसुम- क्रीडा (कामकेलि ) आरम्भ की-- यह देख कर, नल ने अपने नेत्र मूँद लिये ॥ गता यदुत्सङ्गतले विशालतां द्रुमाः शिरोभिः फलगौरवेण ताम् । कथं न धात्रीमतिमात्रनामितैः स वन्दमानानाभिनन्दति स्म तान् ॥९८॥ गता इति । द्रुमाः, [ यदुत्सङ्गतले ] यस्या धात्र्या उत्सङ्गतले, उपरि देशे अङ्कदेशे च । विशालतां =विवृद्धिं गताः तां धात्रीं = भुवञ्च उपमातरं वा । 'धात्री जनन्यामलके वसुमत्युपमातृषु' इति विश्वः । 'धा कर्मणि ष्ट्रन्' इति दधातेष्ट्रन् प्रत्ययः । फलगौरवेण =फलभारेण, अतिमात्रं नामितैः = प्रह्वी-

सर्गः १ ] जीवातु-मदयन्तिकासहितम् ५१ कृतैः, नमेरिमित्तविकल्पाद्भूतस्वाभावः । शिरोभिः = अग्रैः, उत्तमाङ्गैश्च, वन्दमानान् = स्पृशतोऽभिवादयमानांश्च, तान् = प्रकृतान् द्रुमान्, अत एव यच्छब्दानपेक्षा स = नलः कथं नाभिनन्दति स्म = अभिननन्देवेत्यर्थः । वृक्षाणां क्षेत्रानुरूपफलस्य सम्पत्ति, अपत्यानां च मातृभक्तिञ्च को नाम नाभिनन्दतीति भावः । अत्रापि विशे- पणसामर्थ्यात् पुत्रप्रतीतेः समासोक्तिरलङ्कारः ॥९८॥ वृद्ध लोग जिसके उत्सङ्गतल ( ऊपर, गोद ) में विशालता ( वृद्धि ) को प्राप्त होते हैं, उस धात्री ( धरित्री, धाई ) की, फल-गौरव ( फलों की समृद्धि, सुकर्म ) के कारण, बहुत नीचे झुके हुए अगले हिस्सों ( शिरों ) से, वन्दना करते हुए उन वृक्षों ( कृतज्ञ पुत्रों ) का, नल क्यों न अभिनन्दन करते ? ॥९८॥ नृपाय तस्मै हिमितं वनानिलैः सुधाकृतं पुष्परसैरहर्महः । विनिर्मितं केतकरेणुभिः सितं वियोगिनेऽधत्त न कौमुदी मुदः ॥९९॥ अत्रातपस्य चन्द्रिकात्वनिरूपणाय तद्धर्मान् सम्पादयति-नृपायेति । वना- निलैः=उद्यानवातैः, हिमं शीतलं कृतं हिमितं । 'तत्करोति'इतिण्यन्तात् कर्मणि क्तः। पुष्परसैः = वनवातानीतैः मकरन्दैः, सुधीकृतम् = अमृतीकृतं तथा केतकरेणुभिः सितं विनिर्मित=शुभ्रीकृतं । अह्नो महस्तेजः अहर्महः=आतपः । 'रोः सुपि' इति रेफादेशः । तदेव कौमुदी इति व्यस्तरूपकं । वियोगिने तस्मै नृपाय मुदः = प्रमोदान् नाधत्त = न कृतवती । प्रत्युतोद्दीपकैवाभूदिति भावः ॥६६॥ उद्यान वायु से ठंडी, पुष्परस ( मकरन्द ) से सुधामय, केतकी के फूलों के पराग से सफेद बनी हुई-दिन की प्रभा तथा रात्रि की चाँदनी-उन वियोगी राजा नल को आनन्ददायक न हुई ॥६६॥ वियोगभाजोऽपि नृपस्य पश्यता तदेव साक्षादमृतांशुमाननम् । पिकेन रोषारुणचक्षुषा मुहुः कुहूरुताहूयत चन्द्रवैरिणी ॥१००॥ वियोगेति । वियोगभाजोऽपि = वियोगिनोऽपि नृपस्य तदाननमेव साक्षादमृतांशुं = प्रत्यक्षचन्द्रं पश्यता अत एव [रोषारुणचक्षुषा] रोषादद्यापि चन्द्रतां न जहातीति क्रोधादिवारुणचक्षुषा पिकेन चन्द्रवैरिणी [कुहूरुता] कुहूः= निजालाप एव कुहूर्नष्टचन्द्रममवास्येति श्लिष्टरूपकं । 'कुहूः स्यात् कोकिलालाप- नष्टेन्दुकलयोरपि'इति विश्वः । मुहुराहूयत = आहूता, किमित्युत्प्रेक्षा पूर्वोक्तरूपकसा-

५२ नैषधचरितम् । [ प्रथमः पेक्षेति सङ्करः। अस्य चन्द्रस्ययमव कुहूराह्वानाया स्यात् , तत्कान्तिराहित्यसम्भवा- दिति भावः ॥॥१००॥ साक्षात् चन्द्रमा के समान, वियोगी राजा नल के ( अम्लान ) मुख को देख- कर, लाल-लाल आँखें निकाल कर कोयल ने—बार-बार ‘कुहू’ ‘कुहू’ की आवाज करके चन्द्रमा की वैरिन ‘कुहू’ (अमावस्या) को बुलाया ॥१००॥ अशोकमर्थान्वितनामताशया गतान् शरण्यं गृहशोचिनोऽध्वगान्। अमन्यतावन्तमिवैष पल्लवैः प्रतीष्टकामज्वलदस्त्रजालकम् ॥१०१॥ अशोकमिति । एष = नलः, पल्लवैः [ प्रतीष्टकामज्वलदस्त्रजालकं ] प्रतीष्टानि प्रतिगृहीतानि, संच्छन्नानि, कामस्य ज्वलदस्त्राणि तद्रूपकाणि जालकानि क्षारकानि बालमुकुलगुच्छा येन तं; पल्लवसंच्छन्नकुसुमरूपकामास्त्रमित्यर्थः । अन्यथा, तद्दर्शनादेव ते म्रियेरन्निति भावः । अशोकम्, अत एव [अर्थान्वितनामताशया] अर्थान्वितनामता नास्ति शोकोऽस्मिन्नित्यन्वर्थसंज्ञा, तत्कृतया आशया; अस्मानप्य- शोकान् करिष्यतीत्यभिलाषेण । [शरण्यं] शरणे रक्षणे साधुं समर्थं शरण्यं, मत्वेति शेषः । ‘शरणं रक्षणे गृहे’ इति विश्वः । ‘तत्र साधु’ इति यत्प्रत्ययः । आगतान् = शरणागतानित्यर्थः । गृहान् दारान् शोचन्तीति गृहशोचिनः = गृहानुद्दिश्य शोचन्त इत्यर्थः । ‘गृहः पत्न्यां गृहे स्मृतः’ इति विश्वः । अध्वगान् = प्रोषितान् अवन्त- मिव = शरणागतरक्षणे महाफलस्मरणादन्यथा महादोषस्मरणाच्च रक्षन्तमिवेत्यर्थः । अमन्यत = ज्ञातवान् । अस्त्रभीरूणां तद्गोपनमेव रक्षणोपाय इति भावः ॥१०१॥ नल ने—पल्लवों ( कर-पल्लवों ) के रूप में, कामदेव के जलते हुए ( प्रदीप्त कुसुम ) अस्त्र-समूह ग्रहण करने वाले, अशोक पेड़ को—उसका नाम सार्थक होने की (अर्थात् अशोक के पास जाने से, हम वियोग के शोक से रहित हो जायंगे इस) आशा से शरण में आए हुए, घरनी की चिन्ता करने वाले बटोहियों का—रक्षक समझा ॥१०१॥ विलासवापीतटवीचिवादनात् पिकालीगीतेः शिखिलास्यलाघवात् । वनेऽपि तौर्यत्रिकमारराध तं क भोगमाप्नोति न भाग्यभाग्जनः ॥१०२॥ विलासेति । [ विलासवापी-तट-वीचि-वादनात् ] विलासवापी विहार- दीर्घिका, तस्यास्तटे वीचीनां वादनात्, [पिकालीगीतेः] पिकानामलीनाञ्च गीतेर्गा- नात्; [शिखिलास्यलाघवात्] शिखिनां मयूराणां, लास्यलाघवात् नृत्यनैपुण्यात्

सर्गः १ ] जीवातु-मदयन्तिकासहितम् ५३ च। वनेऽपि तं = नलं, तौर्यत्रिकं = नृत्यगीतवाद्यत्रयं, कर्तृ, आरराध = आरा- धयामास। तथा-हि भाग्यभाक् = भाग्यवान् जनः, कं [ भोगं ] भुज्यत इति भोगः सुखं तं, नाप्रोति = सर्वत्रैवाप्नोतीत्यर्थः । सामान्येन विशेषसमर्थनरूपोऽर्थान्त- रन्यासः ॥ १०२ ॥ विहार क्रीडा की बावलियों ने अपने तीर की लहरों के शब्द (वादन) से, कोयलों और भ्रमरियों ने अपनी गीत (गायन) सुनाकर, तथा मोरों ने अपने लास्य (नृत्य) के सौन्दर्य से, उस वन में नाचने-गाने-बजाने वाले नल को आनन्द दिया। ठीक है, भाग्यशाली जन कहाँ नहीं सुख पाते ? ॥१०२॥ तदर्थमध्याप्य जनेन तद्वने शुका विमुक्ताः पटवस्तमस्तुवन् । स्वरामृतेनोपजगुश्च शारिकास्तथैव तत्पौरुषगायनीकृताः ॥१०३॥ तदर्थमिति । जनेन=सेवकजनेन, तदर्थं = नलप्रीत्यर्थम्, अध्याप्य = स्तुतिं पाठयित्वा [ तद्वनं ] तस्मिन् वने, विमुक्ताः=विसृष्टाः पटवः = स्फुटगिरः शुकास्तं =नलम्, अस्तुवन् तथैव=शुकवदेव; तदर्थमध्याप्य मुक्ताः । [ तत्पौरुषगायनीकृताः ] तत्पौरुषस्य नलपराक्रमस्य, गायिन्यो गायकाः कृता गायनीकृताः, शारिकाः = शुक- वध्वः स्वरामृतेन = मधुरस्वरेणेत्यर्थः, उपजगुश्च ॥१०३॥ जनता द्वारा नल की स्तुति के लिए सिखा-पढ़ाकर, उनके पराक्रम के गायन में निपुण, उस वन में (पिंजड़े से) छोड़े गये सुग्गे उनकी स्तुति करते थे । उसी प्रकार (जनता द्वारा नल की स्तुति के लिए०) छोड़ी गयी मैना अपने अमृत (मधुर) स्वर से उनकी प्रशंसा गान करती थीं ॥१०३॥ इतीष्टगन्धाढ्यमटन्नसौ वनं पिकोपगीतोऽपि शुकस्तुतोऽपि च । अविन्दतामोदभरं बहिश्चरं विदर्भसुभ्रूविरहेण नान्तरम् ॥१०४॥ इतीति । इति=इत्थम् इष्टगन्धाढ्यं = इष्टसौगन्धसम्पन्नं वनमटन् । 'देश- कालाध्वगन्तव्याः कर्म्मसंज्ञा ह्यकर्म्मणाम्' इति वनस्य देशत्वात् कर्म्मत्वं । असौ = नलः [पिकोपगीतः] पिकैः कोकिलैरुपगीतोऽपि, शुकैः स्तुतोऽपि च, परं केवलं । 'परं स्यादुत्तमानाप्तवैरिदूतो केवले' इति विश्वः । बहिरामोदभरं = सौरभ्यातिरेक- मेव अविन्दत विदर्भसुभ्रुविरहेण हेतुना । आन्तरम्=आमोदभरम्, आनन्दाति- रेकरूपं नाविन्दत = न लब्धवान्, प्रत्युत दुःखमेवान्वभूदिति भावः । 'आमोदो गन्धहर्षयोः' इति विश्वः ॥१०४॥

५४ नैषधचरितम् । [ प्रथमः इस तरह अभीष्ट सुगन्ध से व्याप्त उपवन में, विचरण करते हुए नल ने— कोयलों से गाये जाने तथा सुग्गों से स्तुति किये जाने पर—( उपवनसौन्दर्य, फूल आदि देख-सूँघकर ) वाह्यरूप से तो प्रमोद प्राप्त किया; पर विदर्भतनया दमयन्ती के विरह के कारण वे आभ्यन्तरिक ( मानसिक ) आनन्द न पा सके ॥१०४॥ करेण मीनं निजकेतनं दधत् द्रुमालवालाम्बुनिवेशशङ्कया । व्यतर्कि सर्वर्तुघने वने मधुं स मित्रमत्रानुसरन्निव स्मरः ॥१०५॥ करेणेति । स = नलः, निजकेतनं = निजलाञ्छनं मीनं [द्रुमालवालाम्बु- निवेशशङ्कया] द्रुमालवालाम्बुषु निवेशशङ्कया प्रवेशभिया, करेण दधत् = तादृक्- शुभरेखाव्याजेन दधान इत्यर्थः । सर्वर्तुघने = सर्वर्तुसङ्कुले अत्र = अस्मिन् वने मित्रं = सखायं मधु = वसन्तम् अनुसरन् = अन्विष्यन्, स्मर इव व्यतर्कि = तर्कितः । इत्युत्प्रेक्षा ॥१०५॥ पेड़ों के थाले के जल में मछली न चली जाय—इस शङ्का से अपने चिह्न- मत्स्य को हाथ में धारण करने वाले नल को लोगों ने, मत्स्यचिह्नधारी कामदेव समझा— जो सब ऋतुओं से परिपूर्ण उपवन में मानो अपने मित्र वसन्त को ढूँढ़ रहा हो ॥ लताबलालास्यकलागुरुस्तरुप्रसूनगन्धोत्करपश्यतोहरः । असेवतामुं मधुगन्धवारिणि प्रणीतलीलाप्लवनो वनानिलः ॥१०६॥ लतेति । [लताऽबला-लास्य-कला-गुरुः] लता एवाऽबलास्तासां लास्यकलासु मधुरनृत्तविद्यासु, गुरुरुपदेष्टेति मान्योक्तिः । [तरुप्रसून-गन्धोत्कर-पश्यतोहरः] तरुप्रसूनगन्धोत्कराणां द्रुमकुसुमसौरभसम्पदां, पश्यतो हरः पश्यन्तमनादृत्य हरः, प्रसह्मापहर्तेत्यर्थः । 'पश्यतो यो हरत्यर्थं स चौरः पश्यतोहरः' इति हलायुधः, पचा- द्यच् । 'षष्ठी चानादरे' इति षष्ठी । 'वाग्दिक्पश्यन्द्भ्यो युक्तिदण्डहरेषु' इति वक्त- व्यादलुक् । एतेन सौरभ्यमुक्तं । [मधु-गन्धवारिणि] मधु मकरन्द एव, गन्धवारि गन्धोदकं, तत्र प्रणीतलीलाप्लवनः = कृतलीलावगाहनः, इति शैत्योक्तिः । ईदृग्- वनानिलोऽमुं=नलम्, असेवत । गुणवान् सेवकः सेव्यप्रियो भवतीति भावः॥१०६॥ लतारूपी अबलाओं को नृत्य-कला सिखाने वाले, पेड़ों के फूल के सुगन्धि-समूह को नज़रों के सामने चुराने वाले, फूलों के रस (मकरन्द) के गन्धयुक्त जलाशय में लीलापूर्वक विहार करने वाले-उपवन-पवन ने, नल की सेवाशुश्रूषा की ॥१०६॥