भारतकोश
संग्रह पर लौटें

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

३. दमयन्ती स्वयंवर व पञ्चनली रहस्य (सर्ग १०-१४)

सर्गः २ ] जीवातु-मदयन्तिकासहितम् ११५ बहुकम्बुमणिर्वराटिकागण-नाटत्-कर-कर्कटोत्करः । हिमवालुकयाच्छवालुकः पटु दध्वान यदापणार्णवः ॥८८॥ बह्विति । [ बहुकम्बुमणिः ] बहवः कम्बवः शङ्खा मणयश्च यस्मिन् सः । [ वराटिकागण-नाटत्-कर-कर्कटोत्करः ] वराटिकागणनाय कपर्दिकासंख्यानाय, अटन्तः तिर्यक् प्रचरन्तः, कराः पाणय एव कर्कटोत्कराः कुलीरसंघाः, यस्मिन् सः । हिमवालुकया = कर्पूरेण, अच्छवालुकः = स्वच्छसिकतः, [ यदापणार्णवः ] यस्या पुरः आपणो विपणिरेवार्णवः पटु=धीरं दध्वान=ननाद । 'कपर्दो वराटिका' इति हलायुधः । 'शङ्खः स्यात् कम्बुरस्त्रियाम्' इत्यमरः । 'सिताभ्रो हिमवालुका,' 'स्यात्कुलीरः कर्कटकः' इति चामरः ॥८८॥ बहुत शंख तथा ( वहाँ उत्पन्न होनेवाली एवं विक्रय के निमित्त लायी जाने वाली मुक्ता, प्रवाल आदि ) मणियोंवाला, कौड़ियों के गिनने में लोगों के हिलने वाले हाथ ( की अंगुलि ) रूप केकड़े के समूहवाला तथा कपूररूप निर्मल बालू वाला उस नगरी का हाटरूपी सागर खूब आवाज कर रहा था ॥८८॥ यदगार-घटाट्ट-कुट्टिम-स्रवदिन्दूपल-तुन्दिलापया । मुमुचे न पतिव्रतौचिती प्रतिचन्द्रोदयमभ्रगङ्गया ॥८९॥ यदिति । [ यदगार-घटाट्ट-कुट्टिम-स्रवदिन्दूपल-तुन्दिलापया ] यस्याः नगर्याः अगारघटासु गृहपङ्क्तिषु, अट्टानामहट्टालिकानां, कुट्टिमेषु निबद्धभूमिषु । 'कुट्टिमोऽस्त्री निबद्धा भूः' इत्यमरः । स्रवद्भिरिन्दुसम्पर्कात् स्यन्दमानैरिन्दूपलैश्चन्द्र- कान्तैः हेतुभिः, तुन्दिलाः प्रवृद्धा आपो यस्याः तया । 'तुन्दादिभ्य इलच्' 'ऋक्पूः' इत्यादिना समासान्तः । अभ्रगङ्गया = मन्दाकिन्या । 'मन्दाकिनी वियद्गङ्गा' इत्यमरः । चन्द्रोदये चन्द्रोदये प्रतिचन्द्रोदयम् । वीप्सायामव्ययीभावः । [ पति- व्रतौचिती ] पतिव्रतानामौचिती औचित्यम् । 'ब्राह्मणादित्वात् गुणवचन' इत्यादिना ष्यञ्प्रत्ययः । 'षिद्गौरादिभ्यश्च' इति ङीष् । स च 'मातरि षिच्च इति षित्वादेव सिद्धे मातामहशब्दस्य गौरादिपाठेनानित्यत्वज्ञापनाद्वैकल्पिकः । अत एव वामनः 'ष्यञः पित्र्कार्य्यं बहुलम्' इति स्त्रीनपुंसकयोर्भाविक्रियोः ष्यञ्, क्वचिच्च वुञ् । 'औचित्यमौचिती मैत्र्यं मैत्री वुञ् प्रागुदाहृतम्' इत्यमरश्च । न मुमुचे = न तत्यजे । भर्तुः समुद्रस्य चन्द्रोदये वृद्धिदर्शनात्तस्या अपि तथा वृद्धिरुचिता । "आर्त्तार्त्ते मुदिते हृष्टा प्रोषिते मलिना कृशा । मृते हि म्रियते या सा साध्वी ज्ञेया पतिव्रता॥" इति

स्मरणाच्चन्द्रोदये तस्या वृद्धिरिति दर्शनात्तत्सम्बन्धेऽपि सम्ब- न्धोक्तेरतिशयोक्तिः । तथा च यद्गाराणामतीन्दुमण्डलमौन्नत्यं गम्यते । तदुत्था- पिता चेयमस्याः पातिव्रत्यधर्मापरित्यागोत्प्रेक्षेति सङ्करः । सा च व्यञ्जकाप्रयो- गात् गम्या ॥ ८६ ॥ उस नगरी के भवनों की ऊँची अटारियों के फर्श में लगी हुई चन्द्रकान्त मणियों में से बहुत-से झरते हुए जल के कारण, वृद्धि को प्राप्त हुई आकाश-गङ्गा (मन्दा- किनी)—प्रत्येक चन्द्रोदय के समय, अपना पातिव्रत धर्म नहीं छोड़ती थी [जिस प्रकार चन्द्रोदय के समय सरित्पति सागर का जल बढ़ता है, उसी प्रकार उसकी पतिव्रता पत्नी आकाशगङ्गा का जल भी प्रत्येक चन्द्रोदय के समय चन्द्रकान्त के जल से बढ़ता था ] ॥ ८६ ॥ रुच्योऽस्तमितस्य भास्वतः स्खलिता यत्र निरालयाः खलु । अनुसायमसुर्विलेपनापण-कश्मीरज-पण्यवीथयः ॥९०॥ रुच्य इति । यत्र = नगर्याम्, अनुसायं = प्रतिसायम् । वीप्सायामव्ययीभावः । [ विलेपनापण-कश्मीरज-पण्यवीथयः ] विलेपनापणेषु सुगन्धद्रव्यनिषद्यासु, कश्मीरजानि कुङ्कुमान्येव, पण्यानि पणनीयद्रव्याणि, तेषां वीथयः श्रेणयः, अस्त- मितस्य = अस्तङ्गतस्य, भास्वतः सम्बन्धिन्यः स्खलिताः = अस्तमयक्षोभात् च्युताः । अत एव निरालयाः = निराश्रया रुच्यः = प्रभाः अभुः खलु । कथञ्चित्प्रच्युताः सायन्तनाकर्त्विष इव भान्ति स्मेत्यर्थः । कुंकुमराशीनां तदा तत् सावर्ण्यदियमुत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या भातेर्लुङि, झेर्जुसादेशः ॥६०॥ उस नगरी में प्रत्येक सन्ध्या समय, अङ्गराग द्रव्यों की दुकानों में बिकनेवाले कुंकुम रूप (लाल रंग वाले) पदार्थों की गलियाँ—ऐसी चमक रही थीं, मानो अस्त होते हुए सूर्य से गिरी हुई आधारहीन किरण हों ॥ ६० ॥ बिततं वणिजाऽपणेऽखिलं पणितुं यत्र जनेन वीक्ष्यते । मुनिनेव मृकण्डुसूनुना जगतां वस्तु पुरोदरे हरेः ॥९१॥ विततमिति । यत्र = नगर्यां, वणिजा = वणिग्जनेन, पणितुं = व्यवहर्तुं आपणे = पण्यवीथ्यां, विततं = प्रसारितम्, अखिलं जगतां लोके स्थितं वस्तु = पदार्थजातं, पुरोदरे = अग्रे स्थिते उदरे, मृकण्डुसूनुना मुनिना = मार्क-

सर्गः २ ] जीवातु-मदयन्तिकासहितम् ११७ ण्डेयेन इव जनेन = लोकेन वीक्ष्यते; —विष्णूदरमिव समस्तवस्वाकरोऽयमवभासत इत्यर्थः । पुरा किल मार्कण्डेयो हरेरुदरं प्रविश्य विश्वं तत्राद्राक्षीदिति कथयन्ति ॥६१॥ उस नगरी में व्यापारियों द्वारा, बेंचने के लिए फैलायी गयी समस्त संसार की (प्राप्य) वस्तुएँ, इस भाँति दीख पड़ती थीं, जैसे मार्कण्डेय मुनि ने--पूर्वकाल में, बालमुकुन्द भगवान् विष्णु के उदर में-अखिल भूमण्डल के पदार्थों का दर्शन किया था ॥ ६१ ॥ सममेणमदैर्यदापणे तुलयन् सौरभलोभनिश्चलम् । पणिता न जनारवैरवैदपि कूजन्तमलिं मलीमसम् ॥६२॥ सममिति । [ यदापणे ] यस्या नगर्या आपणे, सौरभलोभनिश्चलं = गन्धग्रहणनिष्पन्दं, ततः क्रियया दुर्बोधमित्यर्थः । मलीमस = मलिनं, सर्वाङ्गनील- मित्यर्थः । अन्यथा पीतमध्यस्यालेः पीतिम्नैव व्यवच्छेदात् अतो गुणतोऽपि दुर्ग्रह- मित्यर्थः । 'ज्योत्स्ना तमिस्रा' इत्यादिना निपातः । अलिं = भृङ्गं एणमदैः समं = कस्तूरीभिः सह, तुलयन् = तोलयन् पणिता = विक्रेता कूजन्तमपि [जनारवैः] जनानामारवैः कलकलैः, न अवैत् = शब्दतोऽपि न ज्ञातवान् इत्यर्थः । इह निश्च- लस्यालेः गुञ्जनं कविना प्रौढवादेनोक्तमित्यनुसन्धेयम् । अत्रालेर्नैल्यादेणमदोक्तेः सामान्यालङ्कारः । 'सामान्यं गुणसामान्ये यत्र वस्त्वन्तरैकता' इति लक्षणात् । तेन भ्रान्तिमदलङ्कारो व्यज्यते ॥ ६२ ॥ उस नगरी के हाटों में बेंचनेवाले दुकानदार-सुगन्धि के लोभ से कस्तूरी पर, निश्चलरूप से बैठे हुए, कस्तूरी के समान काले रंग वाले तथा गुञ्जार करते हुए, भौरों को भी-कस्तूरी के साथ तौलते समय जनता के कोलाहल के कारण, जान नहीं पाते (कि ये वस्तुतः भौंरें हैं, कस्तूरी नहीं ) ॥ ६२ ॥ रविकान्तमयेन सेतुना सकलाहज्वलनाहितोष्मणा । शिशिरे निशि गच्छतां पुरा चरणौ यत्र दुनोति नो हिमम् ॥६३॥ रविकान्तेति । यत्र = नगर्यां सकलाहः = कृत्स्नमहः । 'राजाः सखिभ्यष्टच्' । 'रात्राहाहाः पुंसि' इति पुंलिङ्गता । अत्यन्तसंयोगे द्वितीया । योगविभागात्समासः । [ ज्वलनाहितोष्मणा ] ज्वलनेन तपनकराभिघातात्प्रज्वलनेन आहितोष्मणा जनि- तोष्मणा जनितोष्णेन, रविकान्तमयेन सेतुना = सेतुसदृशेनाध्वना, सूर्यकान्त- कुट्टिमाध्वनेत्यर्थः । गच्छतां = सञ्चरतां चरणौ=चरणानित्यर्थः । स्तनादीनां द्वित्व-

११८ नैषधचरितम् । [ द्वितीयः विशिष्टा जातिः प्रायेणेति जातौ द्विवचनम् । शिशिरे = शिशिरर्तौ । तत्रापि निशि हिमं पुरा नो दुनोति = नाऽपीडयत् । 'यावत्पुरानिपातयोर्लट्' । अत्र सेतोरूष्मा- सम्बन्धेऽपि तत्सम्बन्धोक्तेरतिशयोक्तिः । तत्रोत्तरस्याः पूर्वसापेक्षत्वात् सङ्करः ॥६३॥ उस नगरी में शिशिर ऋतु में पाला (तुषार ) - सूर्यकान्त मणि से बने हुए और समूचे दिन भर जलने से गरम हुए पुल (तथा राजमार्ग) पर, रात के समय चलने वालों के पैरों को उस पूर्वकाल में—कष्ट नहीं पहुँचाता था ॥६३॥ विधुदीधितिजेन यत्पथं पयसा नैषध-शील-शीतलम् । शशिकान्तमयं तपागमे कलितीव्रस्तपति स्म नातपः ॥६४॥ विध्विति । विधुदीधितिजेन = इन्दुक रसम्पर्कजन्येन, पयसा = सलिलेन [ नैषध-शील-शीतल ] नैषधस्य नलस्य, शीलं वृत्तं, स्वभावो वा, तद्वच्छीतलं, शशिकान्तमयं यत्पथं = यस्या नगर्याः पन्थानं तपागमे = ग्रीष्मप्रवेशे कलितीव्रः = कलिकालवच्चण्डः, आतपः न तपति स्म । नलकथायाः कलिनाशकत्वादिति भावः । अत्र नगरपथस्य इन्दूपलपयःसम्बन्धोक्तेरतिशयोक्तिः । तत्सापेक्षत्वादुप- मयोः सङ्करः ॥ ६४ ॥ उस नगरी के मार्ग, चन्द्रकान्तमणि के बने होने के कारण, चन्द्र-किरण से रिसते हुए जल के द्वारा, ग्रीष्मऋतु में—नल के शील (सदाचार, स्वभाव) के समान, शीतल थे । अतः उन पर चलने से, कलियुग के तुल्य प्रखर धूप सन्ताप नहीं पहुँचाती थी ॥ ६४ ॥ परिखावलयच्छलेन या न परेषां ग्रहणस्य गोचरा । फणि-भाषित-भाष्य-फक्किका विषमा कुण्डलनामवापिता ॥६५॥ परिखेति । परिखावलयच्छलेन = परिखावेष्टनव्याजेन, कुण्डलनां = मण्डला- काररेखाम् अवापिता इव परेषां = शत्रूणां ग्रहणस्य = आक्रमणस्य, अन्यत्र अन्येषां ग्रहणस्य ज्ञानस्य, न गोचरा = अविषया या = नगरी, विषमा = दुर्बोधा, फणिभाषितभाष्यफक्किका = पतञ्जलिप्रणीतमहाभाष्यस्थकुण्डलिग्रन्थः, तद्वदिति शेषः । अत्र नगर्याः कुण्डलिग्रन्थत्वेनोत्प्रेक्षा । सा च परिखावलयच्छुलेनेति अपह्णवो- त्थापितत्वात् सापह्नवा व्यञ्जकाप्रयोगाद् गम्या ॥ ६५ ॥ चारो ओर गोल खाई के बहाने कुण्डली (मण्डलाकार रेखा) पायी हुई वह नगरी – शत्रुओं के ग्रहण (आक्रमण) के उसी प्रकार परे है, जिस प्रकार

सर्गः २ ] श्रीनैषधीयचरितम् १११ शेषनाग रचित महाभाष्य की पक्तिका ( पूर्वपक्ष ) कुण्ठित बुद्धिवाले व्यक्तियों के ग्रहण ( आलोचनात्मक ज्ञान ) के परे है और वे उस पर, कुण्डलना लगा कर छोड़ देते हैं ॥ ६५ ॥ मुख-पाणि-पदाक्षिण पङ्कजै रचिताङ्गेष्वपरेषु चम्पकैः । स्वयमादित यत्र भीमजा स्मर-पूजा-कुसुम-स्रजः श्रियम्॥६६॥ मुखेति । यत्र = नगर्यां [ मुख-पाणि-पदाक्षिण ] मुखञ्च, पाणी च, पदे च, अक्षिणी च, यस्मिन् तस्मिन् । प्राण्यङ्गत्वार्द्वन्द्वैकवद्भावः । पङ्कजैः रचिता = सृष्टा अपरेषु = मुखादिव्यतिरिक्तेषु, अङ्गेषु चम्पकैः = चम्पकपुष्पैः रचिता सर्वत्र सादृश्याद्व्यपदेशः, भीमजा = भैमी, स्वयं स्मरपूजाकुसुमस्स्रजः श्रियं= शोभाम् आदित = आत्तवती । ददातेर्लङि । 'स्थाघ्वोरिच्च' इतीत्वम् 'ह्रस्वाद्ङ्गात्' इति सलोपः । अत्र अन्यश्रियोऽन्यथा सम्भवात् श्रियमिव सदृश्याक्षेपान्निदर्शना- भेदः । तथा तदङ्गानां पङ्कजाद्यभेदोक्तेरतिशयोक्तिः । तदुत्थापिता चेयं निदर्श- नेति सङ्करः ॥ ६६ ॥ उस नगरी में—जिस के मुँह, हाथ, पैर और नेत्र ( क्रमशः श्वेत, रक्त तथा नीले ) कमल के फूलों के तथा ( बाहु, उदर आदि ) दूसरे अवयव चम्पा के फूलों के बने थे--ऐसी भीमराजकुमारी दमयन्ती ने, कामदेव की पूजा में चढ़ने वाली, फूलमाला की शोभा स्वयं धारण की थी ॥ ६६ ॥ जघन-स्तन-भार-गौरवाद्वियदालम्ब्य विहर्तुमक्षमाः । ध्रुवमप्सरसोऽवतीर्य यां शतमध्यासत तत्सखीजनः ॥६७॥ जघनेति । [ जघन-स्तन-भार-गौरवात् ] जघनानि च स्तनौ च जघन- स्तनम् । प्राण्यङ्गत्वार्द्वन्द्वैकवद्भावः । तदेव भारः, तस्य गौरवात् गुरुत्वात् विय- दालम्ब्य विहर्तुमक्षमाः शतं = शतसंख्याकाः । 'विंशत्याद्याः सदैकत्वे संख्याः संख्येयसंख्ययोः' इत्यमरः । अप्सरसोऽवतीर्य= स्वर्गादागत्य, तत्सखीजनः सत्यः । जातावेकवचनम् । यां = नगरीम्, अध्यासत = अध्यतिष्ठन् । 'अधिशीङ्स्थासां कर्म' इति कर्मत्वम् । ध्रुवम् = इत्युत्प्रेक्षा । अप्सरः कल्पाः शतं सख्य एनामुपासत इत्यर्थः ॥ ६७ ॥ नितम्बों तथा कुचों के भार से भारी होने के कारण, आकाश का सहारा

१२० नैषधचरितम्। [ द्वितीयः लेकर, विहार करने में असमर्थ हो, सैकड़ों (बहुत सी) अप्सराएँ, यह एकदम सत्य बात है, कि धरती पर आ, दमयन्ती की सखियाँ होकर, उस नगरी में रहती थीं ॥ स्थितिशालि-समस्तवर्णतां न कथं चित्रमयी बिभर्तु या । स्वरभेदमुपैतु या कथं कलितानल्पमुखारवा न वा ॥६८॥ स्थितीति । चित्रमयी = आश्चर्यप्रचुरा, आलेख्यमयी च । 'आले- ख्याश्चर्ययोश्चित्रम्' इत्यमरः । या = नगरी [ स्थिति-शालि-समस्तवर्णतां ] स्थित्या मर्यादया स्थायित्वेन च, शालन्ते ये ते समस्ता वर्णा ब्राह्मणायः, शुक्लादयश्च, यस्याः तस्या भावं तत्ताम् । 'वर्णो द्विजादौ शुक्लादौ' इत्यमरः । कथं न बिभर्तुः = बिभर्त्ये- वेत्यर्थः । [ कलितानल्पमुखारवा ] कलितः प्राप्तः, अनल्पानां बहूनां, मुखाना- मारवो बहुमुखानां ब्रह्ममुखानां षण्मुखानां च आरवः शब्दो यस्यः सा । या=पुरी [ स्वरभेदं ] स्वरस्य ध्वनेर्भेदं नानात्वं स्वः स्वर्गाद्भेदं च कथं वा नोपैतु, उपै- त्वेवेत्यर्थः । उभयत्रापि सति कारणे कार्यं भवेदेवेति भावः । अत्र केवलप्रकृत- श्लेषालङ्कारः । उभयोरप्यर्थयोः प्रकृतत्वात् . किन्तु एकनाले फलद्वयवदेकस्मिन्नेव शब्दे अर्थद्वयप्रतीतेरर्थश्लेषः प्रथमार्थे; द्वितीये तु जतुकाष्ठवदेकवद्भूतशब्दद्वयप्रतीतेः शब्दश्लेषः ॥ ६८ ॥ चित्रमयी ( आश्चर्यमयी; तस्वीर वाली ) वह नगरी--स्थिति-शाली ( मर्यादा का पालन करनेवाले; दीर्घकाल तक ठहरनेवाले ) समस्त वर्णों ( ब्राह्मण-क्षत्रिय- वैश्य-शूद्रों; सफेद-लाल-पीले-काले रंगों ) के भाव को क्यों न धारण करे ? और अनल्प-मुखारव होने के कारण ( बहुत से मनुष्यों पशुओं आदि के मुखों से शब्द होने के कारण; बहुत से ब्राह्मणों के मुखों से वेदध्वनि होने के कारण ) वह नगरी--स्वरभेद ( कण्ठध्वनि की विषमता; उदात्त आदि स्वरों की विषमता ) को क्यों न प्राप्त करे ? ॥ ६८ ॥ स्वरुचारुणया पताकया दिनमर्केण समीयुषोष्टृपः । लिलिहुर्बहुधा सुधाकरं निशि माणिक्यमया यदाल्याः ॥६९॥ स्वरुचेति । माणिक्यमयाः = पद्मरागमयाः, यदालयाः = यस्यां नगर्यां गृहाः, दिनं = दिने । अत्यन्तसंयोगे द्वितीया । समीयुषा = सङ्गतेन, अर्केण हेतुना । उष्ट्रपः = अर्कसम्पर्कादत्युष्णतया पिपासव इवोष्ट्राः, निशि स्वरुचा = स्वप्रभया, अरुणया = आरुण्यं प्राप्तेयेति तद्गुणालङ्कारः । 'तद्गुणः स्वगुणत्यागादन्यो-

सर्गः २ ] जीवातु-मदयन्तिकासहितम् १२१ कृष्टगुणावृत्तिः' इति लक्षणात् । पताकया रसनामानयेति भावः । सुधाकरं बहुधा लिलिहुः = आस्वादयामासुरित्यर्थः । अह्नि सन्तप्ता निशि शीतोपचारं कुर्व- न्तीति भावः । अत्र गृहाणां सन्तापनिमित्तः सुधाकरलेहनात्मकशीतोपचारः उत्प्रे- क्ष्यते । सा चोक्ततद्गुणोत्प्रेति सङ्करः । व्यञ्जकाप्रयोगाद्गम्या ॥ ९६ ॥ उस नगरी के मानिक के बने हुए घर—दिन भर अपने सामने तपने वाले सूर्य के कारण प्यासे होकर, रात्रि के समय अपनी (मानिक की) चमक से लाल रंग की बनी हुई पताका के द्वारा, चन्द्रमा की सुधा का बार-बार आस्वादन करते थे ॥ ९६ ॥ लिलिहे स्वरुचा पताकया निशि जिह्वानिभया सुधाकरम् । श्रितमर्ककरैः पिपासु यन्नृपसद्मामलपद्मरागजम् ॥१००॥ अथानयैव भङ्ग्या राजभवनं वर्णयति--लिलिह इति । अमलपद्मरागजं [ यन्नृपसद्म-स्वरुचा ] यस्यां नगर्यां नृपसद्म राजभवनं, अर्ककरैः श्रितमति- सामीप्यादभिव्याप्तं । श्रयतेः कर्मणि क्तः । श्रिणातेः पक्कार्थादिति केचित् । तदा ह्रस्वश्चिन्त्यः, प्रकृत्यन्तरं मृग्यमित्यास्तां तत् । अत एव पिपासु = तृषितं सत् । पिवतेः सन्नन्तादुप्रत्ययः । स्वकीया रुग्यस्यां तया स्वरुचा, तद्भूषितेत्यर्थः । अत एव जिह्वानिभया पताकया निशि सुधाकरं लिलिहे = आस्वादयामास । लिहः कर्त्तरि लिट् । स्वरितत्त्वादात्मनेपदम्, अलङ्कारश्च पूर्ववत् जिह्वानिभयेत्युपमा सङ्करश्च विशेषः ॥ १०० ॥ सूर्य की किरणों के सम्पर्क से प्यासे की भाँति स्थित, निर्मल पद्मराग मणि के बने हुए जिस नगरी के राजमहल—रात्रि के समय अपनी (मणि की) प्रभा से लाल रंग की बनी हुई, जिह्वा-तुल्य पताका के द्वारा, चन्द्रमा के अमृत का पान करते थे ॥ १०० ॥ अमृतद्युतिलक्ष्ण पीतया मिलितं यद्वलभीपताकया । वलयायितशेषशायिनः सखितामादित पीतवाससः ॥१०१॥ अमृतेति । पीतया = पीतवर्णया, [ यद्वलभीपताकया ] यस्या नगर्याः, वलभ्याम् । ‘कूटागारं तु वलभिः' इत्यमरः । पताकया मिलितं = सामीप्यात् सङ्गतम्, अमृतद्युतिलक्ष्ण = चन्द्रलाञ्छनं [वलयायित-शेषशायिनः] वलयायिते वलयी-

१२२ नैषधचरितम्। [द्वितीयः भूते शेषे शेते इति तच्छायिनः, पीतवाससः = पीताम्बरस्य विष्णोः सखितां = सदृशताम्, आदित = अगृहीत्। इत्युपमालङ्कारः ॥१०१॥ अमृतद्युति (चन्द्रमा) का (काले रङ्ग का मृग) लाञ्छन-उस नगरी की वलभी (सबसे ऊपरी मञ्जिल) पर लगी हुई, पीतवर्ण वाली पताका से मिलकर- मण्डलाकार हुए शेषनाग के ऊपर शयन करनेवाले, पीताम्बरधारी विष्णु की समानता करता था ॥१०१॥ अश्रान्त-श्रुति-पाठ-पूत-रसनाऽऽविर्भूत-भूरि-स्तवा- जिह्म-ब्रह्म-मुखौघ-विघ्नित-नव-स्वर्गक्रिया-केलिना। पूर्वं गाधिसुतेन सामिघटिता मुक्ता नु मन्दाकिनी यत्प्रासाद-दुकूल-वल्लिरनिलान्दोलैरखेलद्दिवि ॥१०२॥ अश्रान्ते। [ यत्प्रासाद-दुकूल-वल्लिः ] यस्याः नगर्याः, प्रासादे दुकूलं वल्लिरिव दुकूलवल्लिः, दुकूलमयी पताकेत्यर्थः। [अश्रान्त-श्रुति-पाठ-पूत-रसना- विर्भूतभूरि-स्तवाजिह्म-ब्रह्म-मुखौघ-विघ्नित-नव-स्वर्ग क्रिया-केलिना ] अश्रा- न्तेन श्रुतिपाठेन नित्यवेदपाठेन, पूताभ्यः पवित्राभ्यः, रसनाभ्यो जिह्वाभ्यः, आविर्भूतेषु भूरिस्तवेषु अनेकस्तोत्रेषु, अजिह्वेन अकुण्ठेन, ब्रह्मणो मुखानामोघेन हेतुना। विघ्निती सञ्जातविघ्ना, नवस्वर्गक्रिया नूतनस्वर्गसृष्टिरेव केलिः लीला यस्य तेन, गाधिसुतेन = विश्वामित्रेण, पूर्वं = ब्रह्मप्रार्थनात्पूर्वं सामि-घटिता = अर्धसृष्टा । 'सामि त्वर्द्धे जुगुप्सने' इत्यमरः। मुक्ता = पश्चान्मुक्ता, मन्दाकिनी नु = आकाशगङ्गा किम्, [ अनिलान्दोलैः ] अनिलस्य कर्तुरान्दोलनैश्चलनैर्दिवि = आकाशे, अखेलत् = विजहार, इत्युत्प्रेक्षा। एषा कथा त्रिशंकूपाख्याने द्रष्टव्या। शार्दूलविक्रीडितवृत्तम्। 'सूर्याश्वैर्मसजास्तताः सगुरवः शार्दूलविक्रीडितम्' इति लक्षणात् ॥१०२॥ उस नगरी के महल पर, लता के समान फहराती महीन रेशमी कपड़े की बनी हुई पताका-आँधी के झोंके के साथ-साथ-निरन्तर वेदपाठ से पवित्र हुई जिह्वा से निकले हुए, बहुत-से स्तोत्रों के पढ़ने में व्यस्त हुए, ब्रह्मा के चारो मुखों के द्वारा विघ्न पड़े हुए, और नये स्वर्गलोक के निर्माण करने की क्रीडा में पटु, गाधि-तनय विश्वामित्र के द्वारा, प्राचीन समय में, आधी बनी हुई और फिर बाद में (ब्रह्मा की प्रार्थना पर) परित्यक्त-मन्दाकिनी (स्वर्गगंगा) के समान, आकाश में अठखेलियाँ कर रही थी ॥१०२॥

सर्गः २ ] जीवातु-मदयन्तिकासहितम् १२३ Digitized by Sarayu Trust Foundation and eGangotri यदतिविमल-नील-वेश्म-रश्मि-भ्रमरितभाः शुचि-सौध-वस्त्र-वल्लिः । अलभत शमनस्वसुः शिशुत्वं दिवसकराङ्कतले चला लुठन्ती ॥१०३॥ यदिति । [यदतिविमल-नील-वेश्म-रश्मि-भ्रमरितभाः] यस्या नगर्याः, अतिविमलैर्नीलवेश्मनः इन्द्रनीलनिकेतनस्य रश्मिभिः, भ्रमरिता भ्रमरीकृता, भ्रमर- शब्दात्तत्करोतीति ण्यन्तात् कर्मणि क्तः । वल्ल्याश्च भ्रमरैर्भाव्यमिति भावः । तथाभूता भाः छाया यस्याः सा, श्यामीकृतप्रभेत्यर्थः । अत एव तद्गुणालङ्कारः [ शुचि- सौध-वस्त्र-वल्लिः ] शुचिः स्वभावतः शुभ्रा, सौधस्य वस्त्रमेव, वल्लिः, पताके- त्यर्थः । रूपकसमासः । भ्रमरितभा इति रूपकादेव साधकात् [दिवस-कराङ्कतले] दिवसकरस्य सूर्यस्य, अङ्कतले समीपदेशे उत्सङ्गप्रदेशे च, चला = चपला, लुठन्ती = परिवर्त्तमाना सती, शमनस्वसुः = यमुनायाः, शिशुत्वं=शैशवम्, अलभत = बाल्यमुनेव बभावित्यर्थः । बालिकाश्च पितुरङ्के लुठन्तीति भावः । अत्रान्यस्य शैशवेना- न्यसम्बन्धासम्भवेऽपि तत्सदृशमिति सादृश्याक्षेपान्निदर्शना पूर्वोक्ततद्गुणरूपकाभ्यां सङ्कीर्णा ॥ १०३ ॥ उस नगरी के अत्यन्त निर्मल नीलम मणि के बने हुए मकानों की किरणों से, भौंरे के समान नीले रंग की प्रभावाली, राजभवनों पर लता के समान लटकती हुई सफेद पताकाओं की पंक्ति—सूर्य के अङ्कतल ( समीप नीचे की ओर, गोद में) चपल होकर, खेलती हुई ( विलीयमान )—यमभगिनी यमुना के (अल्हड़) शैशव का अनुकरण कर रही थी ॥ १०३ ॥ स्व-प्राणेश्वर-नर्म-हर्म्य-कटकातिथ्य-महाद्योत्सुकं पाथोदं निज-केलि-सौध-शिखरादारुह्य यत्कामिनी । साक्षादप्सरसो विमान-कलित-व्योमान एवाभव- न्नद्य प्राप निमेषमभ्रतरसा यान्ती रसाद्ध्वनि ॥१०४॥ स्वेति । यत्कामिनी = यन्नगराङ्गना, [ विमान-कलित-व्योमानः ] विमा- नेन कलितं क्रान्तं, व्योम याभिस्ताः, साक्षाद् अप्सरसः=दिव्याङ्गना एवाभवन् । 'स्त्रियां बहुष्वप्सरसः' इत्यभिधानादेकत्वेऽपि बहुवचनप्रयोगः कृतः । यत् = यस्मात्, निजकेलिसौधशिखरात् अपादानात् [ स्व-प्राणेश्वर-नर्म-हर्म्य-कटकातिथ्य- प्रहाय ] स्वप्राणेश्वरस्य नर्महर्म्यं क्रीडासौधं, तस्य कटकान्नितम्बादातिथ्यस्य ग्रहाय स्वीकाराय, तत्र विश्रमार्थमित्यर्थः । उत्सुकम् = उद्युक्तं, गच्छन्तमित्यर्थः । पाथोदं

१२४ नैषधचरितम् । [ द्वितीयः = मेघम्, आरुह्य रसात् = रागाद् यान्ती = गच्छन्ती । अध्वनि अभ्रतरसा = मेघवेगेन हेतुना, निमेषं न प्राप । अत्र नगरामराङ्गनयोर्भेदेऽपि अनिमेषमेवारो- हणव्योमयानैः सैव इत्यभेदोक्तेरतिशयोक्तिभेदः । शार्दूलविक्रीडितं वृत्तम् ॥ १०४ ॥ अपने प्राण-नाथ के केलि-गृह के मध्य-देश का आतिथ्य ग्रहण करने के लिए उत्सुक (वहाँ गमन के निमित्त तैयार) - जलद (मेघ) पर अपने विलास-भवनों की अटारियों से चढ़ती हुई, उस नगर की रमणियाँ- विमान में बैठकर, आकाश- मार्ग से जाती हुई साक्षात् अप्सराएँ ही थीं; क्योंकि मेघ के वेग से आकाश में जाने में रस (अनुराग) के कारण उन की आँखें निमेष-हीन (पलक गिराने मात्र का भी विलम्ब सहन न करनेवाली; एक-टक ऊपर की ओर देखनेवाली) हो रही थीं ॥ १०४ ॥ वैदर्भी-केलि-शैले मरकत-शिखरादुत्थितैरंशुदर्भै- ब्रह्माण्ड।घात-भग्न-स्यदज-मदतया ह्रीधृतावाङ्मुखत्वैः । कस्या नोत्तानगाया दिवि सुर-सुरभेरास्यदेशागताग्रै- र्यद्द्रोग्रास-प्रदान-व्रत-सुकृतमविश्रान्तमुज्जृम्भते स्म ॥ १०५ ॥ वैदर्भीति । 'उत्ताना वै देवगवा वहन्ति' इति श्रुत्यर्थमाश्रित्याह-वैदर्भी- केलिशैले मरकतशिखरादुत्थितैः अथ [ब्रह्माण्ड।घात-भग्न-स्यदज-मदतया] ब्रह्माण्डाघातेन भग्नः स्यदजमदो वेगगर्वो येषां तत्तया, [ह्री-धृतावाङ्-मुखत्वैः] ह्रिया धृतं अवाङ्मुखत्वं यैस्तैरधोमुखैः । अत एव दिवि उत्तानगायाः = ऊर्ध्व- मुखाया इत्यर्थः । कस्याः सुरसुरभेः = देवगव्याः [आस्यदेशागताग्रैः] आस्यदेशं गताग्रैः [अंशुदर्भैः] अंशुभिरेव दर्भैः [यद् गोग्रास-प्रदान-व्रत-सुकृतं] यस्या नगर्याः सम्बन्धि गोग्रासप्रदानव्रतसुकृतम्, अविश्रान्तं प्रोज्जृम्भते स्म; किन्तु सर्वस्य अपि ग्रासदानाद्यत्तत्सुकृतमेवोज्जृम्भितमित्यर्थः । अत्युत्तमालङ्कारोऽयमिति केचित् । अंशुदर्भाणां ब्रह्माण्डाघाताद्यसम्बन्धेऽपि सम्बन्धोक्तेरतिशयोक्तिः भेदः । स्रग्धरावृत्तम् । 'म्रभौर्यानां त्रयेण त्रिमुनियुतियुता स्रग्धरा कीर्तितेयम्' इति लक्षणात् ॥ विदर्भ-कन्या दमयन्ती के विहार-पर्वत पर, मरकत मणि की बनी हुई चोटी से, ऊपर की ओर किरणें जाती थीं; पर ब्रह्माण्ड के साथ टकराने से वेग का अहङ्कार चूर-चूर हो जाने के कारण, लज्जा के मारे नीचा मुँह करके लौटती थीं; और

सर्गः २ ] जीवातु-मदयन्तिकासहितम् । १२५ आकाश में ऊपर की ओर मुंह करके जाती हुई, किसी देव-गाय के मुखमण्डल में दूब की नोंक की भांति प्राप्त होती थी। इस प्रकार उस नगरी में गो-ग्रास देने के व्रत का पुण्य — किरणरूपी दूब से — निरन्तर बढ़ रहा था ॥ १०५ ॥ विधु-कर-परिरम्भादात्तनिष्यन्दपूर्णैः शशि-दृषदुपक्लृप्तैरालबालैस्तरूणाम् । विफ़लित-जलसेक-प्रक्रियागौरवेण व्यरचि स हृतचित्तस्तत्र भैमीवनेन ॥ १०६ ॥ विध्विति । तत्र = तस्यां नगर्यां, शशिदृषदुपक्लृप्तैः=चन्द्रकान्तशिलावद्धैः, अत एव विधु-कर-परिरम्भात् = चन्द्रकिरणसम्पर्कात् हेतोः आत्तनिष्यन्दैः = जलप्रस्रवणैरेव पूर्णैस्तरूणाम्नालवालैः [ विफ़लित-जलसेक-प्रक्रियागौरवेण ] विफ़लितं व्यर्थीकृतं, जलसेकस्य प्रक्रियायां प्रकारे गौरवं भारो यस्य तेन, भैमीवनेन स= हंसो हृतचित्तो व्यरचि । कर्मणि लुङ् । अत्रालवालानां चन्द्रकान्तनिष्यन्दा- सम्बन्धेडपि सम्बन्धोक्तेरतिशयोक्तिभेदः । एतदारभ्य चतुःश्लोकपर्यन्तं मालिनीवृत्तम्। ‘ननमयययुतेयं मालिनी भोगिलोकैः' इति लक्षणात् ॥ १०६॥ उस नगरी में चन्द्रकान्त मणि के बने हुए, पेड़ों के थाले — चन्द्रमा की किरणों के सम्पर्क से, अपने रिसते हुए जल से लबालब भरे हुए होकर,—पौधों को जल देकर, सींचने के कार्य-भार को व्यर्थ कर रहे थे। ऐसे भीमकुमारी दम- यन्ती के केलि-उपवन ने, उस राजहंस का चित्त, अपनी ओर आकृष्ट कर लिया ॥ अथ कनकपतत्त्रस्तत्र तां राजपुत्रीं सदसि सदृशभासां बिस्फुरन्तीं सखीनाम् । उडुपिरिषदि मध्यस्थायि-शीतांशु-लेखा- ऽनुकरण-पटु-लक्ष्मीमाक्षलक्षीचकार ॥ १०७ ॥ अथेति । अथ=दर्शनानन्तरं, कनकपतत्रः = स्वर्णपक्षी, तत्र = वने, सदृश- भासां = आत्मतुल्यलावण्यानां सखीनां सदसि विस्फुरन्तीं 'स्फुरति-स्फुलत्योर्निर्निविभ्यः' इति षत्वं उडुपिरिषदि = तारकासमाजे [मध्यस्थायि-शीतांशु-लेखा-ऽनु- करण-पटु-लक्ष्मीम् ] मध्यस्थायिन्याः शीतांशुलेखायाश्चन्द्रकलायाः, अनुकरणे पटु समर्था, लक्ष्मीः शोभा, यस्याः सा । इत्युपमालङ्कारः । तां राजपुत्रीं, अझिलक्षी- चकार = अद्राक्षीदित्यर्थः ॥ १०७॥

१२६ | नैषधचरितम् । | [ द्वितीयः अनन्तर उसने अपने सदृश रूप-लावण्यादि गुणों के कारण अपने में, समान कान्ति- (लावण्य-) शाली सखियों की सभा में, विशेष शोभायमान, नक्षत्रों की परिषद् के बीच में विराजमान, चन्द्र-लेखा का अनुकरण करने में अतीव निपुण शोभावाली उस राजकुमारी दमयन्ती को, अपने नयनों का अतिथि बनाया ॥१०७॥ भ्रमण-रय-विकीर्ण-स्वर्ण-भासा खगेन क्वचन पतनयोग्यं देशमन्विष्यताधः । मुखविधुमदसीयं सेवितुं लम्बमानः शशिपरिधिरिवोच्चैर्मण्डलस्तेन तेने ॥१०८॥ भ्रमणेति । अधः=भूतले, क्वचन=कुत्रचित्पतनयोग्यं देशं=स्थानं अन्वि- ष्यता = गवेषमाणेण । अत एव [भ्रमण-रय-विकीर्ण-स्वर्णभासा ] भ्रमणरयेण विकीर्णा स्वर्णस्य भा दीप्तिर्यस्य तेन, खगेन, अमुष्या अयं अदसीयं । 'वृद्धाच्छः, त्यदादीनि च' इति वृद्धिसंज्ञा । मुखविधुं = मुखेन्दुं सेवितुं लम्बमानः = लंस- मानः, शशिपरिधिः=चन्द्रपरिवेष इव उच्चैः = उपरि मण्डलः=वलयः, तेने= वितेने । तनोतेः कर्मणि लिट् । उत्प्रेक्षास्वभावोक्त्योः सङ्करः ॥१०८॥ ऊपर घूमने के वेग से सुनहली कान्ति फैलाते और नीचे की ओर कहीं उतरने के योग्य जगह ढूँढ़ते हुए, उस राजहंस ने दमयन्ती के मुख-चन्द्र की सेवा करने के लिए, मानों (चन्द्रमण्डल देश को छोड़कर) भूतल पर लटकते (आये) हुए, चन्द्रमा के परिवेष के समान, मुख (रूपी चन्द्र) के ऊपर मण्डल बना दिया (अर्थात् चक्कर लगाया) ॥१०८॥ अनुभवति शचीत्थं सा घृताचीमुखाभि- र्न सह सहचरीभिर्नन्दनानन्दमुच्चैः । इति मतिरुदयासीत्पक्षिणः प्रेक्ष्य भैमीं विपिनभुवि सखीभिः सार्धमाबद्धखेलाम् ॥१०९॥ अनुभवतीति । विपिनभुवि=वनप्रदेशे, सखीभिः=सहचरीभिः । 'सख्य- शिश्वीति भाषायाम्' इति निपातनात् ङीप् । सार्द्धं आबद्धखेलां = अनुबद्धक्रीडां । 'क्रीडा खेला च कूर्द्दनम्' इत्यमरः । भैमीं प्रेक्ष्य पक्षिणः, सा=प्रसिद्धा शची= इन्द्राणी, घृताचीमुखाभिः, सहचरीभिः सह इत्थम् उच्चैः=उत्कृष्टं नन्दनानन्दं=

नन्दनसुखं नानुभवति स्म। इत्येवं बुद्धिरभूदित्यर्थः । आसीन-स्थिता । अत्र प्रेक्ष्य मतिरिति मननक्रियापेक्षया समानकर्तृकत्वात् पूर्वकालत्वाच्च प्रेक्ष्येति क्त्वानिर्देशोप- पत्तिः। तावन्मात्रस्यैव तत्प्रत्ययोत्पत्तौ प्रयोजकत्वात्, प्राधान्यं त्वप्रयोजकमिति न कश्चिद्विरोधः। अत्रोपमानादुपमेयस्याधिक्योक्तेर्व्यतिरेकालङ्कारः । 'भेदप्रधानसाम्यं- मुपमानोपमेययोः । आधिक्यादल्पकथनाद्व्यतिरेकः स उच्यते। इति लक्षणात् ॥ उपवन स्थल में, सखियों के साथ क्रीड़ा करती हुई दमयन्ती को देखकर, हँस की बुद्धि में यह बात आयी कि इन्द्राणी भी-घृताची आदि सहेलियों के साथ नन्दन-कानन में इस प्रकार विशेष आनन्द का उपभोग न करती होगी ॥१०६॥ श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् । द्वैतोयीकतया मितोऽयमगमत् तस्य प्रबन्धे महा- काव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः॥११०॥ श्रीहर्षमित्यादि । व्याख्यातम् । द्वितीय एव द्वैतीयीकः । 'द्वितीयादीकक् स्वार्थे वा वक्तव्यः' इतीकक् । द्वैतीयीकतया मितो द्वितीयत्वेन गणित द्वितीयः, इत्यर्थः, अगमत् ॥११०॥ इति पदवाक्यप्रमाणपारावारपारीण-महोपाध्याय-कोलाचल-मल्लिनाथसूरिविर- चितायां जीवातुसमाख्यायां नैषधटीकायां द्वितीयः सर्गः समाप्तः । कविराज-समूहों के मुकुटों के अलङ्कार रूप -हीरा मणि (अर्थात् असाधारण राष्ट्रकवि) श्रीहीर नामक पिता तथा (अपने सौन्दर्य से मा = रमा को जीतने वाली) मा-मल्लदेवी माता ने जिस जितेन्द्रिय (विद्या-श्री से हर्षित होने वाले) श्रीहर्ष नामक पुत्र को उत्पन्न किया; उसके प्रबन्ध-महाकाव्य-(रस, भाव, अल- ङ्कार आदि से) मनोहर नैषधीय चरित में, स्वभावतः सुन्दर गिना जानेवाला दूसरा सर्ग समाप्त हुआ ॥११०॥ —०:*:०—

१२८ नैषधचरितम् । [ तृतीयः तृतीयः सर्गः । आकुञ्चिताभ्यामथ पक्षतिभ्यां नभोविभागात्तरसाऽवतीर्य । निवेशदेशाततधूतपक्षः पपात भूमावुपभैमि हंसः ॥ १ ॥ आकुञ्चिताभ्यामिति । अथ = मण्डलीकरणानन्तरं, हंसः । आकुञ्चिताभ्यां = आवर्जिताभ्यां, पक्षतिभ्यां = पक्षमूलाभ्यां, नभोविभागात् = आकाशदेशात्, तरसा = वेगेनावतीर्य । [ निवेशदेशाततधूतपक्षः ] निवेशदेशे उपनिवेशस्थाने, आततौ विस्तारिता धूतौ कम्पितौ च पक्षौ येन सः, तथा सन् उपभैमि = भैम्याः समीपे । सामीप्येऽव्ययीभावः । नपुंसकं ह्रस्वत्वं च । भूमौ पपात । स्वभावोक्तिरलङ्कारः ॥१॥ ( दमयन्ती के मुख-चन्द्र के ऊपर मण्डले बनाने के ) अनन्तर हंस — अपने सिकुड़े हुए पंखों से, आकाश में से झपट कर, उतरा; और उतरने के स्थान के ऊपर ( पहले ) पंख फैलाकर, फिर उसे फड़फड़ाकर, दमयन्ती के पास जमीन पर जा गिरा ॥ १ ॥ आकस्मिकः पक्षपुटाहतायाः क्षितेस्तदा यः स्वन उच्चचार । द्रागन्यविन्यस्तदृशः स तस्याः सम्भ्रान्तमन्तःकरणञ्चकार ॥ २ ॥ आकस्मिक इति । तदा = पतनसमये, पक्षपुटाहतायाः क्षितेः = भूतलात् । अकस्माद्भवः आकस्मिकः = अदृष्टहेतुकः, निर्हेतुक इत्यर्थः । यः स्वनः = ध्वनिरुच्च- चार = उत्थितः, स = स्वनः, अन्यविन्यस्तदृशः = विषयान्तरनिविष्टदृष्टेस्तस्याः = भैम्याः, अन्तःकरणं द्राक् = झटिति, सम्भ्रान्तं = ससम्भ्रमं चकार । अकाण्डे सम्भावितशब्दश्रवणाच्चमत्कृतचित्ताभूदित्यर्थः । स्वभावोक्तिः ॥२॥ हंस के गिरते समय, उसके दोनों पंखों के अगले हिस्से से भूतल पर टकराने के कारण, अचानक जो शब्द हुआ, उस ( शब्द ) ने दमयन्ती — जिसकी दृष्टि अन्यत्र लगी हुई थी उस-के अन्तःकरण में एकवारगी हड़बड़ी पैदा कर दी ॥ २ ॥ नेत्राणि वैदर्भसुतासखीनां विमुक्त-तत्तद्विषयग्रहाणि । प्रापुस्तमेकं निरूपाख्यरूपं ब्रह्मेव चेतांसि यतव्रतानाम् ॥ ३ ॥ नेत्राणीति । [ वैदर्भ-सुता-सखीनां ] विदर्भाणां राजा वैदर्भो भीमः, तस्य सुतायाः भैम्याः, सखीनां, नेत्राणि [ विमुक्त-तत्तद्विषयग्रहाणि ] विमुक्तास्तत्तद्वि- षयग्रहाः तत्तदर्थग्रहणादिप्रवृत्तयो यैस्तानि सन्ति । एकम् = एक-

सर्गः ३ ] जीवातु-मदयन्तिकासहितम् । १२९ रम्, अद्वितीयञ्च । [निरुपाख्यस्वरूपं] नोपाख्यायत इति निरुपाख्यमवाच्यं रूपमा- कारः, स्वस्वरूपं च यस्य तं पुरोवर्तिनं हंसं तत्पदार्थभूतञ्च । यतव्रतानां = योगिनां चेतांसि ब्रह्म = परमात्मानम् इव, आपुः = अत्यादरेणाद्राक्षुरित्यर्थः ॥३॥ दमयन्ती की सखियों की आँखें—तत् तत् विषयों (चौसर का खेल, माला- गुम्फन, चन्दन का लेप, दर्शनीय पदार्थों के अवलोकन आदि) का ग्रहण करना (देखना) छोड़ कर—अवर्णनीय सौन्दर्यवाले, एकमात्र हंस की ओर, उसी प्रकार जा लगीं; जिस प्रकार योगियों के चित्त, —सांसारिक विषय-वासनाओं को छोड़- कर,—अनिर्वचनीय स्वरूप (आकृति) वाले, अद्वितीय, ब्रह्म की ओर, आकृष्ट होते हैं ॥ ३ ॥ हंसं तनौ सन्निहितं चरन्तं मुनेर्मनोवृत्तिरिव स्विकायाम् । ग्रहीतुकामाऽदरिणा शयेन यत्नादसौ निश्चलतां जगाहे ॥ ४ ॥ हंसमिति । असौ = दमयन्ती, मुनेः=योगिनो मनोवृत्तिरिव स्विकायां= स्वकीयायां । 'प्रत्ययस्थात्कात् पूर्वस्य'इतीकारः । तनौ = शरीरान्तिके, अन्यत्र तद- भ्यन्तरे, सन्निहितम् = आसन्नम् ; आविर्भूतं च; चरन्तं = सञ्चरन्तं, वर्त्तमानं च; हंसं = मरालं, परमात्मानं च । 'हंसो विहङ्गभेदे च परमात्मनि मत्सरे'इति विश्वः । अदरिणा = निर्भीकेण, शयेन = पाणिना । 'दरो स्त्रियां भये श्वभ्रे; पञ्चशाखः शयः पाणिः'इत्यमरः । अन्यत्र, आदरिणा = आदरवता, आशयेन = चित्तेन, ग्रहीतु- कामा = साक्षात् कर्तुकामा च यत्नात् निश्चलतां = निश्चलाङ्गत्वं, निश्चलचित्तत्वं च जगाहे = जगाम ॥ ४ ॥ निकट में चलते हुए हंस को, मजबूत हाथों से ग्रहण करने (पकड़ने) के लिए, दमयन्ती अपने शरीर को खूब यत्नपूर्वक निश्चल करके, उसी प्रकार खड़ी हो गयी; जैसे मुनियों की चित्तवृत्ति-सर्वत्र व्यापक, भूत-भविष्यत्-वर्त्तमानकालात्मक उस हंस (परमात्मा) के ग्रहण (परिज्ञान) के लिए—उस (ब्रह्म-साक्षात्कार) के प्रति आदरशाली आशय (अभिप्राय) से, निश्चल (स्थिर) हो जाती है ॥४॥ तामिङ्गितैरप्यनुमाय मायामयं न धैर्याद्वियदुत्पपात । तत्पाणिमात्रोपरिपात्तुकं तु मोघं वितेने प्लुतिलाघवेन ॥ ५ ॥ तामिति । अयं = हंसः, तां = पूर्वोक्तां मायां = कपटं, इङ्गितैः = चेष्टितैः, अनुमाय = निश्चित्य, अपि धैर्यात् = स्थैर्यमास्थाय । ल्यब्लोपे पञ्चमी । वियत्= ह

१३० नैषधचरितम् । [ तृतीयः आकाशं प्रति, नोत्पपात = नोत्पतितवान् [ आत्मोपरिपांतुकं ] आत्मन उपरि पांतुकं पत्यालुं । 'लषपत'इत्यादिना उकञ् प्रत्ययः । तस्याः पाणिं [ तत्पाणि ] तु प्लुतिलाघवेन = उत्पतनकौशलेन मोघं वितेने = विफलत्वम् अकरोत्; आशाञ् जनयति, न तु पाणौ लगतीत्यर्थः ॥ ५ ॥ दमयन्ती के माया-जाल ( निश्चलरूप से खड़े होकर, पकड़ने की चालबाजी ) को, उसकी चेष्टाओं ( एकटक नज़र से हंस की ओर देखनेवाली हरकतों ) से अनुमान करके भी, वह हंस आकाश में नहीं उड़ा; पर अपने ऊपर गिरनेवाले दमयन्ती के हाथों को, नज़दीक-नज़दीक उड़ने की सफाई से, व्यर्थ कर दिया ( अर्थात् हाथों की पकड़ में वह नहीं आया ) ॥ ५ ॥ व्यर्थीकृतं पत्ररथेन तेन तथाऽवसाय व्यवसायमस्याः । परस्परमर्पितहस्ततालं तत्कालमाळीभिरहस्यतालम् ॥ ६ ॥ व्यर्थीकृतमिति । अस्याः = भैम्याः, व्यवसायं = हंसग्रहणोद्योगं, तेन पत्ररथेन = पक्षिणा व्यर्थीकृतं तथा, अवसाय = ज्ञात्वा, तत्कालं = तस्मिन् काले । अत्यन्तसंयोगे द्वितीया । स एव कालो यस्येति बहुव्रीहौ क्रियाविशेषणं वा । परस्परां = परस्परस्यामित्यर्थः । कर्मव्यतीहारे सर्वनाम्नो द्विर्भावः । 'समासवच्च बहुलम्'इति बहुलग्रहणादसमासवद्भावे पूर्वपदस्य प्रथमैकवचने कस्कादित्वाद्विसर्जनी- यस्य सत्वम् । उत्तरपदस्य यथायोगं द्वितीयाद्येकवचनम् । 'स्त्रीनपुंसकयोरुत्तरपदस्थयो र्विभक्तेराम्भावो वक्तव्यः'इति विकल्पादाम्रादेशः । अर्पितहस्ततालं=दत्तहस्तताडनं यथा तथा । आळीभिः=सखीभिः, अलं=अत्यर्थं अहस्यत=हसितम् । भावे लङ् ॥ उस हंस ने दमयन्ती के पकड़ने के उद्योग को उस प्रकार ( अर्थात् प्लुत- लाघव ) से बेकार कर दिया — यह जानकर, तत्काल ही आपस में हाथों से ताली पीट-पीटकर, सखियाँ खूब हँसीं ॥ ६ ॥ उच्चाटनीयः करतालिकानां दानादिदानीं भवतीभिरेषः । यान्वेति मां द्रुह्यति मह्यमेव सात्रेत्युपालम्भि तयाऽलिवर्गः ॥ ७ ॥ उच्चाटनीय इति । हे सख्यः ! इदानीं भवतीभिः एषः = हंसः, कर- तालिकानां दानात् = अन्योन्यहस्तताडनकरणात् उच्चाटनीयः = निष्कासनीयः किमिति काकुः । नोच्चाटनीय एवेत्यर्थः । अत्र = युष्मन्मध्ये, या मामन्वेति सा मह्यमेव द्रुह्यति = मां जिघांसतीत्यर्थः । 'क्रुधद्रुह'इत्यादिना सम्प्रदानत्वात् चतुर्थी ।

: ३ ] जीवातू-मदयन्तिकासहितम् । १३१ ति = इत्थं तया = भैम्या, आलिवर्गः = सखीसंघः, उपालम्भि = अशापि; पायैनैव निवारित इत्यर्थः ॥ ७ ॥ ' ( मालूम पड़ता है कि ) तुम सब अब तालियाँ पीट-पीटकर, इसको उड़ा ोगी। अतः (समझ लो कि ) अब तुम में से जो कोई इस काम में ( इसके कड़ने के लिए जाती हुई ) मेरे पीछे-पीछे आवेगी, वह मेरी वैरिन ही होगी'-- इस तरह दमयन्ती ने अपनी सहेलियों को उलाहना देते हुए, झिड़की दी ॥ ७ ॥ धृतालपकोपा हसिते सखीनां छायेव भास्वन्तमभिप्रयातुः । श्यामाथ हंसस्य करानवाप्तेर्मन्दाक्षलक्ष्या लगति स्म पश्चात् ॥ ८ ॥ धृतेति । अथ = सखीनिवारणानन्तरं, सखीनां हसिते = हासनिमित्ते धृता- ल्पकोपा = तासु ईषत्कोपा इत्यर्थः । भास्वन्तमभिप्रयातुः = सूर्याभिमुखं गच्छतः छाया = अनातपरेखा इव श्यामा = यौवनमध्यस्था । 'श्यामा यौवनमध्यस्था' इत्युत्पलमालायाम् । अन्यत्र, श्यामा = नीला । हंसस्य कर्मणि षष्ठी । [ करान- वाप्तेः ] करेण हस्तेन, अनवाप्तेर्ग्रहणाद्धेतोः [ मन्दाक्षलक्ष्या ] मन्दाक्षं हीस्तेन लक्ष्या उपलक्ष्या, हीणा सतीत्यर्थः । अन्यत्र, हंसस्य = सूर्यस्य करानवाप्तेः = अंशुसंस्पर्शाभावात् [ मन्दाक्षलक्ष्या ] मन्दाक्षैरपटुदृष्टिभिः, लक्ष्या ग्राह्या । तैः छाया लक्ष्यते; न प्रकाश इति भावः । पश्चाल्लगति स्म = पृष्ठे लग्नाभूत्; प्राप्त्याशया तमन्वगात् । 'रविश्चेतच्छ्रदौ हंसौ'; 'बलिहस्तांशवः कराः' इति चामरः ॥ ८ ॥ तब सखियों के हँसने पर कुछ-कुछ कुपित होती हुई और हंस को हाथ से न पकड़ने के कारण लजाती हुई, वह श्यामा ( नव-युवती ) दमयन्ती-हंस के पीछे-पीछे उसी प्रकार चली, जिस प्रकार सूर्य के सम्मुख जानेवाले व्यक्ति के पीछे, उसकी छाया जाती है ॥ ८ ॥ शस्ता न हंसाभिमुखी तवेयं यात्रेति ताभिश्च्छलहस्यमाना । साह स्म नैवाशकुनीभवेन्मे भाविप्रियावेदक एष हंसः ॥ ९ ॥ शस्तेति । तवेयं [ हंसाभिमुखी ] हंसस्य श्वेतच्छदस्य सूर्यस्य च, अभिमुखी यात्रा = गमनं, न शस्ता = न प्रशस्ता, श्रेयस्करी न । शास्त्रविरोधात् श्रमसन्ताप- दृष्टदोषाच्चेति भावः । सा इति = इत्थं ताभिः = सखीभिः, [ छलहस्यमाना ] छलेन व्याजोक्त्या, हस्यमाना परिहास्यमाना सती भाविप्रियावेदकः = मङ्गल- मूर्त्तित्वादागामिशुभसूचकः एष हंसः, मे = मम न वाशकुनीभवेदेव; किन्तु

१३२ नैषधचरितम् । [ तृतीयः शकुनमेव विपक्षो न भवेदिति च गम्यते । 'शकुनं तु शुभाशंसा निमित्ते शकुनः पुमान्' इति विश्वः । अभूत तद्भावे च्विः । विध्यादिसूत्रेण प्रार्थने लिङ् । इत्याहस्म = अवोचत् । 'ब्रुवः पञ्चानाम्' इत्याहादेशः । एतेन तदीययात्रानिषे- धोक्तदोषः परिहृतो वेदितव्यः ॥६॥ 'हंस (सूर्य) के सामने तुम्हारा जाना (अशास्त्रानुमोदित होने के कारण) शुभकारी नहीं होगा'—इस प्रकार सखियों ने, शब्दश्लेष के बहाने ताना मारते हुए, जब उससे कहा तो दमयन्ती ने उत्तर दिया कि 'यह हंस (पक्षी) मेरा अशकुनि (अ-पक्षी, विपक्षी) न होगा (क्योंकि यह तो हंस नामक पक्षी है, अतः अशकुनकारक—अशुभसूचक—न होगा); प्रत्युत यह भावी प्रिय (नल) के बारे शुभ का सूचक ही होगा' ॥६॥ हंसोऽप्यसौ हंसगतेः सुदत्याः पुरः पुरश्चारु चलन् बभासे । वैलक्ष्यहेतोर्गतिमेतदीयामग्रेऽनुकृत्योपहसन्निवोच्चैः ॥१०॥ एवं दमयन्ती व्यापारमुक्त्वा सम्प्रति हंसस्य व्यापारमाह-हसोऽपीति । असौ हंसोऽपि [हंसगतेः] हंसस्य गतिरिव गतिर्यस्यास्तस्याः, सुदत्याः = शोभन- दन्तायाः भैम्याः । सुदती व्याख्याता । पुरःपुरः वीप्सायां द्विर्भावः । अग्रे = सम- न्तात्, चारु चलन् = रम्यं गच्छन् सन्, वैलक्ष्यमेव हेतुस्तस्य वैलक्ष्यहेतोः, अहो मामयमतिविडम्बयतीति तस्या अपि विस्मयजननार्थमित्यर्थः । 'विलक्षो विस्मयान्वितः' इत्यमरः । 'षष्ठी हेतुप्रयोगे' इति षष्ठी । एतदीयां गतिमनु- कृत्य = अभिनीय उच्चैरुपहसन्निव इत्युत्प्रेक्षा बभासे = बभौ । यथा लोके परि- हासकाः तच्चेष्टायनुकरणेन परान् विलक्षयन्ति तद्वदिति भावः ॥१०॥ हंस के समान चाल चलनेवाली और सुन्दर दाँतवाली दमयन्ती के आगे-आगे चलता हुआ, वह हंस ऐसा सुन्दर मालूम पड़ता था—मानों वह उसकी चाल का, उसके सामने ही अनुकरण करके, उसे लज्जित करने के अभिप्राय से, उसका खूब मजाक उड़ा रहा हो ॥१०॥ पदे पदे भाविनि भाविनीं तं यथा करप्राप्यमवैति नूनम् । तथा सखेलं चलता लतासु प्रतार्य तेनाचकृषे कृशाङ्गी ॥११॥ पदे पद इति । भावयतीति भाविनी हंसग्रहणमेव मनसा भावयन्ती कृशाङ्गी = भैमी भावनि = भविष्यत्यनन्तर इत्यर्थः । 'भविष्यति गम्यादयः' इति

सर्गः ३ ] जीवातु-मदयन्तिकासहितम् । १३३ Digitized by Sarayu Trust Foundation and eGangotri माधुः । पदे पदे तं = हंसं यथा। करप्राप्य = करग्राह्यं नूनं = निश्चितमवैति = अध्येति, तथा सखेल = सलीलं चलता = गच्छता, तेन = हंसेन प्रतार्य = वञ्च- यित्वा लतासु, आचकृषे = आकृष्टा, एकान्तं नीतेत्यर्थः ॥११॥ हंस पकड़ने की भावना वाली दमयन्ती — भावी प्रत्येक पग पर, उसे निश्चय ही अपने हाथ में, आया समझती थी ( कि अब की पकड़ लूंगी, पर पकड़ नहीं पाती थी ), इस प्रकार खेल के साथ चलता हुआ वह हंस कृशाङ्गी दमयन्ती को, चकमा देकर, लताओं के बीच ले गया ॥ ११ ॥ रुषा निषिद्धाळिजनां यदैनां छायाद्वितीयां कलयाञ्चकार । तदा श्रमाम्भःकणभूषिताङ्गीं स कीरवन्मानुषवागवादीत् ॥१२॥ रुपेति । रुषा निषिद्धाळिजनां = निवारितसखीजनां, एनां यदा [ छाया- द्वितीयां ] च्छाया एव द्वितीया यस्यास्तामेकाकिनीं, कळयांचकार = विवेद; तदा श्रमाम्भःकणभूषिताङ्गीं = स्वेदाम्बुलवपरिष्कृतशरीरां स्विन्नगात्रां तां स = हंसः कीरवत् = शुकवत् [ मानुषवाक् ] मनुष्यस्येव वाग्यस्य स सन् अवादीत् ।१२। रुष्ट होकर, जिसने अपनी सखियों को साथ आने से मना कर दिया था, अपनी परछाईं के अतिरिक्त जिसके साथ और कोई दूसरी सहेली नहीं थी एवं परिश्रम के कारण जिसके अङ्ग पर पसीने की बूँदें झलक रही थीं—ऐसी दमयन्ती से हंस, तोते की तरह, मनुष्य की बोली, बोलने लगा—॥१२॥ अये ! कियद्यावदुपैषि दूरं व्यर्थं परिश्राम्यसि वा किमर्थम् । उदेति ते भीरपि किन्नु बाले ! विलोकयन्त्या न घना वनालीः ॥१३॥ अय इति । अये ! बाले ! व्यर्थं कियद्दूरं यावदुपैषि = उपैष्यसि ? 'यावत्पुरानिपातयोर्लट्' । किमर्थं परिश्राम्यसि वा ? घनाः = सान्द्राः, बनाळीः = वनपंक्तीः विलोकयन्त्यास्ते भीरपि नोदेति किन्नु ? ॥१३॥ अरी ! कितनी दूरतक पीछा करती रहोगी ? ऐसा व्यर्थ परिश्रम क्यों कर रही हो ? अरी बाले ! वनों की इस घनी कतार को देखकर भी, क्या तुम्हें डर नहीं लग रहा है ? ॥१३॥ वृथार्पयन्तीमपथे पदं त्वां मरुल्ललत्पल्लवपाणिकम्पैः । आळीव पश्य प्रतिषेधतीदं कपोतहुङ्कारगिरा वनाळिः ॥१४॥ CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. वृथेति । वृथा =व्यर्थमेव । न पन्था अपथम् । 'नञ्' इत्यादिना समासान्तः

१३४ नैषधचरितम् । [तृतीयः अः । 'अपथं नपुंसकं तस्मिन्, अपथे=दुर्मागे, अकृत्ये च; पदं=पादं, व्यवसायं च; अपयन्ती = कुर्वन्ती । 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः । [ मरु- ल्ललत्पल्लवपाणिकम्पैः ] मरुता ललन् चलन्, पल्लव एव पाणिस्तस्य कम्पैः, कपोतहुङ्कारगिरा च इयं वनालिः आली इव = सखी इव, त्वां प्रतिषेधति = निवारयति । पश्य । इति वाक्यार्थः कर्म । यथा लोके अमार्गप्रवृत्तं सुहृज्जनः पाणिना वाचा च वारयति, तद्वदित्यर्थः । अत एव पल्लवपाणीत्यादौ रूपकाश्रयणं, तत्सङ्कीर्णा वनाल्यालीवेत्युपमा ॥१४॥ तुमको कु-पथ (मेरे पकड़ने के असम्भव कार्य; कुमार्ग) पर पद (परिश्रम; पैर) अर्पण (करते; रखते) करते देखकर, पवन से चञ्चल हुए पल्लव रूपी हाथ को हिलाकर और कबूतरों की 'हुँ'कार रूप बोली से, देखो, - यह वनाली (वन- श्रेणी) आली (सखी) के समान, तुम्हें मना कर रही है ॥१४॥ धाय्र्यः कथंकारमहं भवत्या वियद्विहारी वसुधैकगत्या । अहो ! शिशुत्वं तव खण्डितं न स्मरस्य सख्या वयसाप्यनेन ॥१५॥ धाय्र्य इति । [ वसुधैकगत्या ] एकत्रैव गतिर्यस्यास्तया एकगत्या, वसुधा- यामेकगत्या, भूमात्रचारिण्येत्यर्थः । शिवभागवतवत्समासः । भवत्या वियद्विहारी = खेचरोऽहं कथङ्कारं = कथमित्यर्थः । 'अन्यथैवं कथमित्थंसु सिद्धाप्रयोगश्चेत्' इति कथंशब्दोपपदात्करोतेर्णमुल् । धाय्र्यः = धर्तुं ग्रहीतुं शक्य इत्यर्थः । 'शकि लिङ् च' इति चकाराच्छक्यार्थे कृत्यप्रत्ययः । अनेन स्मरस्य सख्या = सखिना तदु- द्दीपकेन वयसा यौवनेन । सखिशब्दस्य भाषितपुंस्कत्वात् पुंवद्भावः । तव शिशुत्वं = शैशवं न खण्डितं = न निवर्तितं । अहो = विरुद्धवयसोरेकत्र समावेशादाश्चर्य्य- मित्यर्थः । अत्राधार्यत्वस्य वसुधागतिवियद्विहारपदार्थहेतुकत्वादेकः काव्यलिङ्गभेदः, तथा शैशवाखण्डनस्य पूर्ववाक्यार्थहेतुकत्वादपर इति सजातीयसङ्करः ॥१५॥ भला बताओ तो सही कि तुम मुझे कैसे पकड़ोगी ? क्योंकि मैं आकाश में विहार करने वाला हूँ और तुम्हारी गति एकमात्र पृथ्वी पर ही है। कामदेव के मित्र इस नव-यौवन से तुम्हारा शैशव नहीं खण्डित हुआ-यही बड़े आश्चर्य की बात है (कहाँ तो यह युवावस्था और कहाँ ऐसी बाल-सुलभ चपलता) ॥१५॥ सहस्रपत्रासन-पत्र-हंस-वंशस्य पत्राणि पतत्रिणः ममः । अस्मादृशां चाटुरसामृतानि स्वर्लोकलोकेतरदुर्लभानि ॥१६॥