नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 135, कुल 226 में से
संदर्भ में पढ़ेंसर्गः २ ] श्रीनैषधीयचरितम् १११ शेषनाग रचित महाभाष्य की पक्तिका ( पूर्वपक्ष ) कुण्ठित बुद्धिवाले व्यक्तियों के ग्रहण ( आलोचनात्मक ज्ञान ) के परे है और वे उस पर, कुण्डलना लगा कर छोड़ देते हैं ॥ ६५ ॥ मुख-पाणि-पदाक्षिण पङ्कजै रचिताङ्गेष्वपरेषु चम्पकैः । स्वयमादित यत्र भीमजा स्मर-पूजा-कुसुम-स्रजः श्रियम्॥६६॥ मुखेति । यत्र = नगर्यां [ मुख-पाणि-पदाक्षिण ] मुखञ्च, पाणी च, पदे च, अक्षिणी च, यस्मिन् तस्मिन् । प्राण्यङ्गत्वार्द्वन्द्वैकवद्भावः । पङ्कजैः रचिता = सृष्टा अपरेषु = मुखादिव्यतिरिक्तेषु, अङ्गेषु चम्पकैः = चम्पकपुष्पैः रचिता सर्वत्र सादृश्याद्व्यपदेशः, भीमजा = भैमी, स्वयं स्मरपूजाकुसुमस्स्रजः श्रियं= शोभाम् आदित = आत्तवती । ददातेर्लङि । 'स्थाघ्वोरिच्च' इतीत्वम् 'ह्रस्वाद्ङ्गात्' इति सलोपः । अत्र अन्यश्रियोऽन्यथा सम्भवात् श्रियमिव सदृश्याक्षेपान्निदर्शना- भेदः । तथा तदङ्गानां पङ्कजाद्यभेदोक्तेरतिशयोक्तिः । तदुत्थापिता चेयं निदर्श- नेति सङ्करः ॥ ६६ ॥ उस नगरी में—जिस के मुँह, हाथ, पैर और नेत्र ( क्रमशः श्वेत, रक्त तथा नीले ) कमल के फूलों के तथा ( बाहु, उदर आदि ) दूसरे अवयव चम्पा के फूलों के बने थे--ऐसी भीमराजकुमारी दमयन्ती ने, कामदेव की पूजा में चढ़ने वाली, फूलमाला की शोभा स्वयं धारण की थी ॥ ६६ ॥ जघन-स्तन-भार-गौरवाद्वियदालम्ब्य विहर्तुमक्षमाः । ध्रुवमप्सरसोऽवतीर्य यां शतमध्यासत तत्सखीजनः ॥६७॥ जघनेति । [ जघन-स्तन-भार-गौरवात् ] जघनानि च स्तनौ च जघन- स्तनम् । प्राण्यङ्गत्वार्द्वन्द्वैकवद्भावः । तदेव भारः, तस्य गौरवात् गुरुत्वात् विय- दालम्ब्य विहर्तुमक्षमाः शतं = शतसंख्याकाः । 'विंशत्याद्याः सदैकत्वे संख्याः संख्येयसंख्ययोः' इत्यमरः । अप्सरसोऽवतीर्य= स्वर्गादागत्य, तत्सखीजनः सत्यः । जातावेकवचनम् । यां = नगरीम्, अध्यासत = अध्यतिष्ठन् । 'अधिशीङ्स्थासां कर्म' इति कर्मत्वम् । ध्रुवम् = इत्युत्प्रेक्षा । अप्सरः कल्पाः शतं सख्य एनामुपासत इत्यर्थः ॥ ६७ ॥ नितम्बों तथा कुचों के भार से भारी होने के कारण, आकाश का सहारा